ते वै मनुष्यतां यान्ति यदा कालस्य पर्ययात् धनरिक्ते कुले जन्म लभन्ते स्वल्पबुद्धयः
क्षुत्पिपासापरीताश् च सर्वलोकबहिष्कृताः निराशाः सर्वभोगेभ्यो जीवन्त्य् अधर्मजीविकाः
अल्पभोगकुले जाता अल्पभोगरता नराः अनेन कर्मणा देवि भवन्त्य् अधनिनो नराः
अपरे दम्भिनो नित्यं मानिनः परतो रताः आसनार्हस्य ये पीठं न यच्छन्त्य् अल्पचेतसः
मार्गार्हस्य च ये मार्गं न प्रयच्छन्त्य् अबुद्धयः अर्घार्हान् न च संस्कारैर् अर्चयन्ति यथाविधि
पाद्यम् आचमनीयं वा प्रयच्छन्त्य् अभिबुद्धयः शुभं चाभिमतं प्रेम्णा गुरुं नाभिवदन्ति ये
अभिमानप्रवृद्धेन लोभेन समम् आस्थिताः संमान्यांश् चावमन्यन्ते वृद्धान् परिभवन्ति च
एवंविधा नरा देवि सर्वे निरयगामिनः ते चेद् यदि नरास् तस्मान् निरयाद् उत्तरन्ति च
वर्षपूगैस् ततो जन्म लभन्ते कुत्सिते कुले श्वपाकपुल्कसादीनां कुत्सितानाम् अचेतसाम्
कुलेषु ते ऽभिजायन्ते गुरुवृद्धोपतापिनः न दम्भी न च मानी यो देवतातिथिपूजकः
लोकपूज्यो नमस्कर्ता प्रसूतो मधुरं वचः सर्वकर्मप्रियकरः सर्वभूतप्रियः सदा
अद्वेषी सुमुखः श्लक्ष्णः स्निग्धवाणीप्रदः सदा स्वागतेनैव सर्वेषां भूतानाम् अविहिंसकः
यथार्थं सत्क्रियापूर्वम् अर्चयन्न् अवतिष्ठते मार्गार्हाय ददन् मार्गं गुरुम् अभ्यर्चयन् सदा
अतिथिप्रग्रहरतस् तथाभ्यागतपूजकः एवंभूतो नरो देवि स्वर्गतिं प्रतिपद्यते
ततो मानुष्यम् आसाद्य विशिष्टकुलजो भवेत् तत्रासौ विपुलैर् भोगैः सर्वरत्नसमायुतः
यथार्हदाता चार्हेषु धर्मचर्यापरो भवेत् संमतः सर्वभूतानां सर्वलोकनमस्कृतः
स्वकर्मफलम् आप्नोति स्वयम् एव नरः सदा एष धर्मो मया प्रोक्तो विधात्रा स्वयम् ईरितः
यस् तु रौद्रसमाचारः सर्वसत्त्वभयंकरः हस्ताभ्यां यदि वा पद्भ्यां रज्ज्वा दण्डेन वा पुनः
लोष्टैः स्तम्भैर् उपायैर् वा जन्तून् बाधेत शोभने हिंसार्थं निष्कृतिप्रज्ञः प्रोद्वेजयति चैव हि
उपक्रामति जन्तूंश् च उद्वेगजननः सदा एवं शीलसमाचारो निरयं प्रतिपद्यते
स चेन् मनुष्यतां गच्छेद् यदि कालस्य पर्ययात् बह्वाबाधापरिक्लिष्टे कुले जयति सो ऽधमे
लोकद्विष्टो ऽधमः पुंसां स्वयं कर्मकृतैः फलैः एष देवि मनुष्येषु बोद्धव्यो ज्ञातिबन्धुषु
अपरः सर्वभूतानि दयावान् अनुपश्यति मैत्री दृष्टिः पितृसमो निर्वैरो नियतेन्द्रियः
नोद्वेजयति भूतानि न च हन्ति दयापरः हस्तपादैश् च नियतैर् विश्वास्यः सर्वजन्तुषु
न रज्ज्वा न च दण्डेन न लोष्टैर् नायुधेन च उद्वेजयति भूतानि शुभकर्मा दयापरः
एवं शीलसमाचारः स्वर्गे समुपजायते तत्रासौ भवने दिव्ये मुदा वसति देववत्
स चेत् स्वर्गक्षयान् मर्त्यो मनुष्येषूपजायते अल्पायासो निरातङ्कः स जातः सुखम् एधते
सुखभागी निरायासो निरुद्वेगः सदा नरः एष देवि सतां मार्गो बाधा यत्र न विद्यते
इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः ज्ञानविज्ञानसंपन्नाः प्रज्ञावन्तो ऽर्थकोविदाः
दुष्प्रज्ञाश् चापरे देव ज्ञानविज्ञानवर्जिताः केन कर्मविपाकेन प्रज्ञावान् पुरुषो भवेत्