केनायुर् लभते दीर्घं कर्मणा पुरुषः प्रभो तपसा वापि देवेश केनायुर् लभते महत्
क्षीणायुः केन भवति कर्मणा भुवि मानवः विपाकं कर्मणां देव वक्तुम् अर्हस्य् अनिन्दित
अपरे च महाभाग्या मन्दभाग्यास् तथा परे अकुलीनाः कुलीनाश् च संभवन्ति तथा परे
दुर्दर्शाः केचिद् आभान्ति नराः काष्ठमया इव प्रियदर्शास् तथा चान्ये दर्शनाद् एव मानवाः
दुष्प्रज्ञाः केचिद् आभान्ति केचिद् आभान्ति पण्डिताः महाप्रज्ञास् तथा चान्ये ज्ञानविज्ञानभाविनः
अल्पवाचास् तथा केचिन् महावाचास् तथा परे दृश्यन्ते पुरुषा देव ततो व्याख्यातुम् अर्हसि
हन्त ते ऽहं प्रवक्ष्यामि देवि कर्मफलोदयम् मर्त्यलोके नरः सर्वो येन स्वं फलम् अश्नुते
प्राणातिपाती योगीन्द्रो दण्डहस्तो नरः सदा नित्यम् उद्यतशस्त्रश् च हन्ति भूतगणान् नरः
निर्दयः सर्वभूतेभ्यो नित्यम् उद्वेगकारकः अपि कीटपतंगानाम् अशरण्यः सुनिर्घृणः
एवंभूतो नरो देवि निरयं प्रतिपद्यते विपरीतस् तु धर्मात्मा स्वरूपेणाभिजायते
निरयं याति हिंसात्मा याति स्वर्गम् अहिंसकः यातनां निरये रौद्रां सकृच्छ्रां लभते नरः
यः कश्चिन् निरयात् तस्मात् समुत्तरति कर्हिचित् मानुष्यं लभते वापि हीनायुस् तत्र जायते
पापेन कर्मणा देवि युक्तो हिंसादिभिर् यतः अहितः सर्वभूतानां हीनायुर् उपजायते
शुभेन कर्मणा देवि प्राणिघातविवर्जितः शुभेन कर्मणा देवि प्राणिघातविवर्जितः निक्षिप्तशस्त्रो निर्दण्डो न हिंसति कदाचन
न घातयति नो हन्ति घ्नन्तं नैवानुमोदते सर्वभूतेषु सस्नेहो यथात्मनि तथा परे
ईदृशः पुरुषो नित्यं देवि देवत्वम् अश्नुते उपपन्नान् सुखान् भोगान् सदाश्नाति मुदा युतः
अथ चेन् मानुषे लोके कदाचिद् उपपद्यते एष दीर्घायुषां मार्गः सुवृत्तानां सुकर्मणाम् प्राणिहिंसाविमोक्षेण ब्रह्मणा समुदीरितः
किंशीलः किंसमाचारः पुरुषः कैश् च कर्मभिः स्वर्गं समभिपद्येत संप्रदानेन केन वा
दाता ब्राह्मणसत्कर्ता दीनार्तकृपणादिषु भक्षभोज्यान्नपानानां वाससां च महामतिः
प्रतिश्रयान् सभाः कुर्यात् प्रपाः पुष्करिणीस् तथा नित्यकादीनि कर्माणि करोति प्रयतः शुचिः
आसनं शयनं यानं गृहं रत्नं धनं तथा सस्यजातानि सर्वाणि सक्षेत्राण्य् अथ योषितः
सुप्रशान्तमना नित्यं यः प्रयच्छति मानवः एवंभूतो नरो देवि देवलोके ऽभिजायते
तत्रोष्य सुचिरं कालं भुक्त्वा भोगान् अनुत्तमान् सहाप्सरोभिर् मुदितो रमित्वा नन्दनादिषु
तस्माच् च्युतो महेशानि मानुषेषूपजायते महाभागकुले देवि धनधान्यसमाचिते
तत्र कामगुणैः सर्वैः समुपेतो मुदान्वितः महाकार्यो महाभोगो धनी भवति मानवः
एते देवि महाभागाः प्राणिनो दानशालिनः ब्रह्मणा वै पुरा प्रोक्ताः सर्वस्य प्रियदर्शनाः
अपरे मानवा देवि प्रदानकृपणा द्विजाः ये ऽन्नानि न प्रयच्छन्ति विद्यमाने ऽप्य् अबुद्धयः
दीनान्धकृपणान् दृष्ट्वा भिक्षुकान् अतिथीन् अपि याच्यमाना निवर्तन्ते जिह्वालोभसमन्विताः
न धनानि न वासांसि न भोगान् न च काञ्चनम् न गाश् च नान्नविकृतिं प्रयच्छन्ति कदाचन
अप्रलुब्धाश् च ये लुब्धा नास्तिका दानवर्जितः एवंभूता नरा देवि निरयं यान्त्य् अबुद्धयः