अरण्ये विजने न्यस्तं परस्वं दृश्यते यदा मनसापि न गृह्णन्ति ते नराः स्वर्गगामिनः
तथैव परदारान् ये कामवृत्ता रहोगताः मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः
शत्रुं मित्रं च ये नित्यं तुल्येन मनसा नराः भजन्ति मैत्र्यं संगम्य ते नराः स्वर्गगामिनः
श्रुतवन्तो दयावन्तः शुचयः सत्यसंगराः स्वैर् अर्थैः परिसंतुष्टास् ते नराः स्वर्गगामिनः
अवैरा ये त्व् अनायासा मैत्रचित्तरताः सदा सर्वभूतदयावन्तस् ते नराः स्वर्गगामिनः
ज्ञातवन्तः क्रियावन्तः क्षमावन्तः सुहृत्प्रियाः धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः
शुभानाम् अशुभानां च कर्मणां फलसंचये निराकाङ्क्षाश् च ये देवि ते नराः स्वर्गगामिनः
पापोपेतान् वर्जयन्ति देवद्विजपराः सदा समुत्थानम् अनुप्राप्तास् ते नराः स्वर्गगामिनः
शुभैः कर्मफलैर् देवि मयैते परिकीर्तिताः स्वर्गमार्गपरा भूयः किं त्वं श्रोतुम् इहेच्छसि
महान् मे संशयः कश्चिन् मर्त्यान् प्रति महेश्वर तस्मात् त्वं निपुणेनाद्य मम व्याख्यातुम् अर्हसि
केनायुर् लभते दीर्घं कर्मणा पुरुषः प्रभो तपसा वापि देवेश केनायुर् लभते महत्
क्षीणायुः केन भवति कर्मणा भुवि मानवः विपाकं कर्मणां देव वक्तुम् अर्हस्य् अनिन्दित
अपरे च महाभाग्या मन्दभाग्यास् तथा परे अकुलीनाः कुलीनाश् च संभवन्ति तथा परे
दुर्दर्शाः केचिद् आभान्ति नराः काष्ठमया इव प्रियदर्शास् तथा चान्ये दर्शनाद् एव मानवाः
दुष्प्रज्ञाः केचिद् आभान्ति केचिद् आभान्ति पण्डिताः महाप्रज्ञास् तथा चान्ये ज्ञानविज्ञानभाविनः
अल्पवाचास् तथा केचिन् महावाचास् तथा परे दृश्यन्ते पुरुषा देव ततो व्याख्यातुम् अर्हसि
हन्त ते ऽहं प्रवक्ष्यामि देवि कर्मफलोदयम् मर्त्यलोके नरः सर्वो येन स्वं फलम् अश्नुते
प्राणातिपाती योगीन्द्रो दण्डहस्तो नरः सदा नित्यम् उद्यतशस्त्रश् च हन्ति भूतगणान् नरः
निर्दयः सर्वभूतेभ्यो नित्यम् उद्वेगकारकः अपि कीटपतंगानाम् अशरण्यः सुनिर्घृणः
एवंभूतो नरो देवि निरयं प्रतिपद्यते विपरीतस् तु धर्मात्मा स्वरूपेणाभिजायते
निरयं याति हिंसात्मा याति स्वर्गम् अहिंसकः यातनां निरये रौद्रां सकृच्छ्रां लभते नरः
यः कश्चिन् निरयात् तस्मात् समुत्तरति कर्हिचित् मानुष्यं लभते वापि हीनायुस् तत्र जायते
पापेन कर्मणा देवि युक्तो हिंसादिभिर् यतः अहितः सर्वभूतानां हीनायुर् उपजायते
शुभेन कर्मणा देवि प्राणिघातविवर्जितः शुभेन कर्मणा देवि प्राणिघातविवर्जितः निक्षिप्तशस्त्रो निर्दण्डो न हिंसति कदाचन
न घातयति नो हन्ति घ्नन्तं नैवानुमोदते सर्वभूतेषु सस्नेहो यथात्मनि तथा परे
ईदृशः पुरुषो नित्यं देवि देवत्वम् अश्नुते उपपन्नान् सुखान् भोगान् सदाश्नाति मुदा युतः
अथ चेन् मानुषे लोके कदाचिद् उपपद्यते एष दीर्घायुषां मार्गः सुवृत्तानां सुकर्मणाम् प्राणिहिंसाविमोक्षेण ब्रह्मणा समुदीरितः
किंशीलः किंसमाचारः पुरुषः कैश् च कर्मभिः स्वर्गं समभिपद्येत संप्रदानेन केन वा
दाता ब्राह्मणसत्कर्ता दीनार्तकृपणादिषु भक्षभोज्यान्नपानानां वाससां च महामतिः
प्रतिश्रयान् सभाः कुर्यात् प्रपाः पुष्करिणीस् तथा नित्यकादीनि कर्माणि करोति प्रयतः शुचिः