योनिप्रतिग्रहादानैः कर्मभिश् च शुचिस्मिते एतत् ते गुह्यम् आख्यातं यथा शूद्रो भवेद् द्विजः ब्राह्मणो वा च्युतो धर्माद् यथा शूद्रत्वम् आप्नुयात्
भगवन् सर्वभूतेश सुरासुरनमस्कृत धर्माधर्मे नृणां देव ब्रूहि मे संशयं विभो
कर्मणा मनसा वाचा त्रिविधैर् देहिनः सदा बध्यन्ते बन्धनैः कैर् वा मुच्यन्ते वा कथं वद
केन शीलेन वै देव कर्मणा कीदृशेन वा समाचारैर् गुणैः कैर् वा स्वर्गं यान्तीह मानवाः
देवि धर्मार्थतत्त्वज्ञे धर्मनित्ये उमे सदा सर्वप्राणिहितः प्रश्नः श्रूयतां बुद्धिवर्धनः
सत्यधर्मरताः शान्ताः सर्वलिङ्गविवर्जिताः नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः
प्रलयोत्पत्तितत्त्वज्ञाः सर्वज्ञाः सर्वदर्शिनः वीतरागा विमुच्यन्ते पुरुषाः कर्मबन्धनैः
कर्मणा मनसा वाचा ये न हिंसन्ति किंचन ये न मज्जन्ति कस्मिंश्चित् ते न बध्नन्ति कर्मभिः
प्राणातिपाताद् विरताः शीलवन्तो दयान्विताः तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः
सर्वभूतदयावन्तो विश्वास्याः सर्वजन्तुषु त्यक्तहिंस्रसमाचारास् ते नराः स्वर्गगामिनः
परस्वनिर्ममा नित्यं परदारविवर्जिकाः धर्मलब्धार्थभोक्तारस् ते नराः स्वर्गगामिनः
मातृवत् स्वसृवच् चैव नित्यं दुहितृवच् च ये परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः
स्वदारनिरता ये च ऋतुकालाभिगामिनः अग्राम्यसुखभोगाश् च ते नराः स्वर्गगामिनः
स्तैन्यान् निवृत्ताः सततं संतुष्टाः स्वधनेन च स्वभाग्यान्य् उपजीवन्ति ते नराः स्वर्गगामिनः
परदारेषु ये नित्यं चारित्रावृतलोचनाः जितेन्द्रियाः शीलपरास् ते नराः स्वर्गगामिनः
एष दैवकृतो मार्गः सेवितव्यः सदा नरैः अकषायकृतश् चैव मार्गः सेव्यः सदा बुधैः
अवृथापकृतश् चैव मार्गः सेव्यः सदा बुधैः दानकर्मतपोयुक्तः शीलशौचदयात्मकः स्वर्गमार्गम् अभीप्सद्भिर् न सेव्यस् त्व् अत उत्तरः
वाचा तु बध्यते येन मुच्यते ह्य् अथवा पुनः तानि कर्माणि मे देव वद भूतपते ऽनघ
आत्महेतोः परार्थे वा अधर्माश्रितम् एव च ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः
वृत्त्यर्थं धर्महेतोर् वा कामकारात् तथैव च अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः
श्लक्ष्णां वाणीं स्वच्छवर्णां मधुरां पापवर्जिताम् स्वगतेनाभिभाषन्ते ते नराः स्वर्गगामिनः
परुषं ये न भाषन्ते कटुकं निष्ठुरं तथा न पैशुन्यरताः सन्तस् ते नराः स्वर्गगामिनः
पिशुनं न प्रभाषन्ते मित्रभेदकरं तथा परपीडाकरं चैव ते नराः स्वर्गगामिनः
ये वर्जयन्ति परुषं परद्रोहं च मानवाः सर्वभूतसमा दान्तास् ते नराः स्वर्गगामिनः
शठप्रलापाद् विरता विरुद्धपरिवर्जकाः सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः
न कोपाद् व्याहरन्ते ये वाचं हृदयदारिणीम् शान्तिं विन्दन्ति ये क्रुद्धास् ते नराः स्वर्गगामिनः
एष वाणीकृतो देवि धर्मः सेव्यः सदा नरैः शुभसत्यगुणैर् नित्यं वर्जनीया मृषा बुधैः
मनसा बध्यते येन कर्मणा पुरुषः सदा तन् मे ब्रूहि महाभाग देवदेव पिनाकधृक्
मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा स्वर्गं गच्छन्ति कल्याणि तन् मे कीर्तयतः शृणु
दुष्प्रणीतेन मनसा दुष्प्रणीतान्तराकृतिः नरो बध्येत येनेह शृणु वा तं शुभानने