सोमात् सङ्गानुकर्षाणां ध्वजिनां सवरूथिनाम् रथानां मेघघोषाणां सहस्राणि दशैव तु
रौप्यकाञ्चनकक्षाणां सहस्राण्य् एकविंशतिः तावत्य् एव सहस्राणि उत्तरस्यां तथा दिशि
आभूमिपाला भोजास् तु सन्ति ज्याकिङ्किणीकिनः आहुः किं चाप्य् अवन्तिभ्यः स्वसारं ददुर् अन्धकाः
आहुकस्य तु काश्यायां द्वौ पुत्रौ संबभूवतुः देवकश् चोग्रसेनश् च देवगर्भसमाव् उभौ
देवकस्याभवन् पुत्राश् चत्वारस् त्रिदशोपमाः देववान् उपदेवश् च संदेवो देवरक्षितः
कुमार्यः सप्त चास्याथ वसुदेवाय ता ददौ देवकी शान्तिदेवा च सुदेवा देवरक्षिता
वृकदेव्य् उपदेवी च सुनाम्नी चैव सप्तमी नवोग्रसेनस्य सुतास् तेषां कंसस् तु पूर्वजः
न्यग्रोधश् च सुनामा च तथा कङ्कः सुभूषणः राष्ट्रपालो ऽथ सुतनुर् अनावृष्टिस् तु पुष्टिमान्
तेषां स्वसारः पञ्चासन् कंसा कंसवती तथा सुतनू राष्ट्रपाली च कङ्का चैव वराङ्गना
उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः कुकुराणाम् इमं वंशं धारयन्न् अमितौजसाम्
आत्मनो विपुलं वंशं प्रजावान् आप्नुयान् नरः
भजमानस्य पुत्रो ऽथ रथमुख्यो विदूरथः राजाधिदेवः शूरस् तु विदूरथसुतो ऽभवत्
राजाधिदेवस्य सुता जज्ञिरे वीर्यवत्तराः दत्तातिदत्तौ बलिनौ शोणाश्वः श्वेतवाहनः
शमी च दण्डशर्मा च दन्तशत्रुश् च शत्रुजित् श्रवणा च श्रविष्ठा च स्वसारौ संबभूवतुः
शमिपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः स्वयंभोजः स्वयंभोजाद् भदिकः संबभूव ह
तस्य पुत्रा बभूवुर् हि सर्वे भीमपराक्रमाः कृतवर्माग्रजस् तेषां शतधन्वा तु मध्यमः
देवान्तश् च नरान्तश् च भिषग्वैतरणश् च यः सुदान्तश् चातिदान्तश् च निकाश्यः कामदम्भकः
देवान्तस्याभवत् पुत्रो विद्वान् कम्बलबर्हिषः असमौजाः सुतस् तस्य नासमौजाश् च ताव् उभौ
अजातपुत्राय सुतान् प्रददाव् असमौजसे सुदंष्ट्रश् च सुचारुश् च कृष्ण इत्य् अन्धकाः स्मृताः
गान्धारी चैव माद्री च क्रोष्टुभार्ये बभूवतुः गान्धारी जनयाम् आस अनमित्रं महाबलम्
माद्री युधाजितं पुत्रं ततो वै देवमीधुषम् अनमित्रम् अमित्राणां जेतारम् अपराजितम्
अनमित्रसुतो निघ्नो निघ्नतो द्वौ बभूवतुः प्रसेनश् चाथ सत्राजिच् छत्रुसेनाजिताव् उभौ
प्रसेनो द्वारवत्यां तु निवसन् यो महामणिम् दिव्यं स्यमन्तकं नाम स सूर्याद् उपलब्धवान्
तस्य सत्राजितः सूर्यः सखा प्राणसमो ऽभवत् स कदाचिन् निशापाये रथेन रथिनां वरः
तोयकूलम् अपः स्प्रष्टुम् उपस्थातुं ययौ रविम् तस्योपतिष्ठतः सूर्यं विवस्वान् अग्रतः स्थितः
विस्पष्टमूर्तिर् भगवांस् तेजोमण्डलवान् विभुः अथ राजा विवस्वन्तम् उवाच स्थितम् अग्रतः
यथैव व्योम्नि पश्यामि सदा त्वां ज्योतिषां पते तेजोमण्डलिनं देवं तथैव पुरतः स्थितम्
को विशेषो ऽस्ति मे त्वत्तः सख्येनोपगतस्य वै एतच् छ्रुत्वा तु भगवान् मणिरत्नं स्यमन्तकम्
स्वकण्ठाद् अवमुच्याथ एकान्ते न्यस्तवान् विभुः ततो विग्रहवन्तं तं ददर्श नृपतिस् तदा
प्रीतिमान् अथ तं दृष्ट्वा मुहूर्तं कृतवान् कथाम् तम् अभिप्रस्थितं भूयो विवस्वन्तं स सत्रजित्