देवद्विजातिसत्कर्ता सर्वातिथ्यकृतव्रतः ऋतुकालाभिगामी च नियतो नियताशनः
दक्षः शिष्टजनान्वेषी शेषान्नकृतभोजनः वृथा मांसं न भुञ्जीत शूद्रो वैश्यत्वम् ऋच्छति
ऋतवाग् अनहंवादी निर्द्वंद्वः सामकोविदः यजते नित्ययज्ञैश् च स्वाध्यायपरमः शुचिः
दान्तो ब्राह्मणसत्कर्ता सर्ववर्णानसूयकः गृहस्थव्रतम् आतिष्ठन् द्विकालकृतभोजनः
शेषाशी विजिताहारो निष्कामो निरहंवदः अग्निहोत्रम् उपासीनो जुह्वानश् च यथाविधि
सर्वातिथ्यम् उपातिष्ठञ् शेषान्नकृतभोजनः त्रेताग्निमात्रविहितं वैश्यो भवति च द्विजः
स वैश्यः क्षत्रियकुले शुचिर् महति जायते स वैश्यः क्षत्रियो जातो जन्मप्रभृति संस्कृतः
उपनीतो व्रतपरो द्विजो भवति संस्कृतः ददाति यजते यज्ञैः समृद्धैर् आप्तदक्षिणैः
अधीत्य स्वर्गम् अन्विच्छंस् त्रेताग्निशरणः सदा आर्द्रहस्तप्रदो नित्यं प्रजा धर्मेण पालयन्
सत्यः सत्यानि कुरुते नित्यं यः शुद्धिदर्शनः धर्मदण्डेन निर्दग्धो धर्मकामार्थसाधकः
यन्त्रितः कार्यकरणैः षड्भागकृतलक्षणः ग्राम्यधर्मान् न सेवेत स्वच्छन्देनार्थकोविदः
ऋतुकाले तु धर्मात्मा पत्नीम् उपाश्रयेत् सदा सदोपवासी नियतः स्वाध्यायनिरतः शुचिः
वहिस्कान्तरिते नित्यं शयानो ऽस्ति सदा गृहे सर्वातिथ्यं त्रिवर्गस्य कुर्वाणः सुमनाः सदा
शूद्राणां चान्नकामानां नित्यं सिद्धम् इति ब्रुवन् स्वार्थाद् वा यदि वा कामान् न किंचिद् उपलक्षयेत्
पितृदेवातिथिकृते साधनं कुरुते च यत् स्ववेश्मनि यथान्यायम् उपास्ते भैक्ष्यम् एव च
द्विकालम् अग्निहोत्रं च जुह्वानो वै यथाविधि गोब्राह्मणहितार्थाय रणे चाभिमुखो हतः
त्रेताग्निमन्त्रपूतेन समाविश्य द्विजो भवेत् ज्ञानविज्ञानसंपन्नः संस्कृतो वेदपारगः
वैश्यो भवति धर्मात्मा क्षत्रियः स्वेन कर्मणा एतैः कर्मफलैर् देवि न्यूनजातिकुलोद्भवः
शूद्रो ऽप्य् आगमसंपन्नो द्विजो भवति संस्कृतः ब्राह्मणो वाप्य् असद्वृत्तः सर्वसंकरभोजनः
स ब्राह्मण्यं समुत्सृज्य शूद्रो भवति तादृशः कर्मभिः शुचिभिर् देवी शुद्धात्मा विजितेन्द्रियः
शूद्रो ऽपि द्विजवत् सेव्य इति ब्रह्माब्रवीत् स्वयम् स्वभावकर्मणा चैव यत्र शूद्रो ऽधितिष्ठति
विशुद्धः स द्विजातिभ्यो विज्ञेय इति मे मतिः न योनिर् नापि संस्कारो न श्रुतिर् न च संततिः
कारणानि द्विजत्वस्य वृत्तम् एव तु कारणम् सर्वो ऽयं ब्राह्मणो लोके वृत्तेन तु विधीयते
वृत्ते स्थितश् च शूद्रो ऽपि ब्राह्मणत्वं च गच्छति ब्रह्मस्वभावः सुश्रोणि समः सर्वत्र मे मतः
निर्गुणं निर्मलं ब्रह्म यत्र तिष्ठति स द्विजः एते ये विमला देवि स्थानभावनिदर्शकाः
स्वयं च वरदेनोक्ता ब्रह्मणा सृजता प्रजाः ब्रह्मणो हि महत् क्षेत्रं लोके चरति पादवत्
यत् तत्र बीजं पतति सा कृषिः प्रेत्य भाविनी संतुष्टेन सदा भाव्यं सत्पथालम्बिना सदा
ब्राह्मं हि मार्गम् आक्रम्य वर्तितव्यं बुभूषता संहिताध्यायिना भाव्यं गृहे वै गृहमेधिना
नित्यं स्वाध्याययुक्तेन न चाध्ययनजीविना एवंभूतो हि यो विप्रः सततं सत्पथे स्थितः
आहिताग्निर् अधीयानो ब्रह्मभूयाय कल्पते ब्राह्मण्यं देवि संप्राप्य रक्षितव्यं यतात्मना