तत्र स्थितं महादेवं त्रिपुरघ्नं त्रिलोचनम् शैलराजसुता देवी प्रणिपत्य सुरेश्वरम्
इमं प्रश्नं पुरा विप्रा अपृच्छच् चारुलोचना तद् अहं संप्रवक्ष्यामि शृणुध्वं मम सत्तमाः
भगवन् भगनेत्रघ्न पूष्णो दन्तविनाशन दक्षक्रतुहर त्र्यक्ष संशयो मे महान् अयम्
चातुर्वर्ण्यं भगवता पूर्वं सृष्टं स्वयंभुवा केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम्
वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत् प्रतिलोमे कथं देव शक्यो धर्मो निवर्तितुम्
केन वा कर्मणा विप्रः शूद्रयोनौ प्रजायते क्षत्रियः शूद्रताम् एति केन वा कर्मणा विभो
एतं मे संशयं देव वद भूतपते ऽनघ त्रयो वर्णाः प्रकृत्येह कथं ब्राह्मण्यम् आप्नुयुः
ब्राह्मण्यं देवि दुष्प्रापं निसर्गाद् ब्राह्मणः शुभे क्षत्रियो वैश्यशूद्रौ वा निसर्गाद् इति मे मतिः
कर्मणा दुष्कृतेनेह स्थानाद् भ्रश्यति स द्विजः श्रेष्ठं वर्णम् अनुप्राप्य तस्माद् आक्षिप्यते पुनः
स्थितो ब्राह्मणधर्मेण ब्राह्मण्यम् उपजीवति क्षत्रियो वाथ वैश्यो वा ब्रह्मभूयं स गच्छति
यश् च विप्रत्वम् उत्सृज्य क्षत्रधर्मान् निषेवते ब्राह्मण्यात् स परिभ्रष्टः क्षत्रयोनौ प्रजायते
वैश्यकर्म च यो विप्रो लोभमोहव्यपाश्रयः ब्राह्मण्यं दुर्लभं प्राप्य करोत्य् अल्पमतिः सदा
स द्विजो वैश्यताम् एति वैश्यो वा शूद्रताम् इयात् स्वधर्मात् प्रच्युतो विप्रस् ततः शूद्रत्वम् आप्नुयात्
तत्रासौ निरयं प्राप्तो वर्णभ्रष्टो बहिष्कृतः ब्रह्मलोकात् परिभ्रष्टः शूद्रयोनौ प्रजायते
क्षत्रियो वा महाभागे वैश्यो वा धर्मचारिणि स्वानि कर्माण्य् अपाकृत्य शूद्रकर्म निषेवते
स्वस्थानात् स परिभ्रष्टो वर्णसंकरतां गतः ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः
यस् तु शूद्रः स्वधर्मेण ज्ञानविज्ञानवाञ् शुचिः धर्मज्ञो धर्मनिरतः स धर्मफलम् अश्नुते
इदं चैवापरं देवि ब्रह्मणा समुदाहृतम् अध्यात्मं नैष्ठिकी सिद्धिर् धर्मकामैर् निषेव्यते
उग्रान्नं गर्हितं देवि गणान्नं श्राद्धसूतकम् घुष्टान्नं नैव भोक्तव्यं शूद्रान्नं नैव वा क्वचित्
शूद्रान्नं गर्हितं देवि सदा देवैर् महात्मभिः पितामहमुखोत्सृष्टं प्रमाणम् इति मे मतिः
शूद्रान्नेनावशेषेण जठरे म्रियते द्विजः आहिताग्निस् तथा यज्वा स शूद्रगतिभाग् भवेत्
तेन शूद्रान्नशेषेण ब्रह्मस्थानाद् अपाकृतः ब्राह्मणः शूद्रताम् एति नास्ति तत्र विचारणा
यस्यान्नेनावशेषेण जठरे म्रियते द्विजः तां तां योनिं व्रजेद् विप्रो यस्यान्नम् उपजीवति
ब्राह्मणत्वं सुखं प्राप्य दुर्लभं यो ऽवमन्यते अभोज्यान्नानि वाश्नाति स द्विजत्वात् पतेत वै
सुरापो ब्रह्महा स्तेयी चौरो भग्नव्रतो ऽशुचिः स्वाध्यायवर्जितः पापो लुब्धो नैकृतिकः शठः
अव्रती वृषलीभर्ता कुण्डाशी सोमविक्रयी विहीनसेवी विप्रो हि पतते ब्रह्मयोनितः
गुरुतल्पी गुरुद्वेषी गुरुकुत्सारतिश् च यः ब्रह्मद्विड् वापि पतति ब्राह्मणो ब्रह्मयोनितः
एभिस् तु कर्मभिर् देवि शुभैर् आचरितैस् तथा शूद्रो ब्राह्मणतां गच्छेद् वैश्यः क्षत्रियतां व्रजेत्
शूद्रः कर्माणि सर्वाणि यथान्यायं यथाविधि सर्वातिथ्यम् उपातिष्ठञ् शेषान्नकृतभोजनः
शुश्रूषां परिचर्यां यो ज्येष्ठवर्णे प्रयत्नतः कुर्याद् अविमनाः श्रेष्ठः सततं सत्पथे स्थितः