बलिकर्मणा भूतानि वाक्सत्येनाखिलं जगत् प्राप्नोति लोकान् पुरुषो निजकर्मसमार्जितान्
भिक्षाभुजश् च ये केचित् परिव्राड् ब्रह्मचारिणः ते ऽप्य् अत्र प्रतितिष्ठन्ति गार्हस्थ्यं तेन वै परम्
वेदाहरणकार्येण तीर्थस्नानाय च द्विजाः अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च
अनिकेता ह्य् अनाहारा ये तु सायंगृहास् तु ते तेषां गृहस्थः सततं प्रतिष्ठा योनिर् उच्यते
तेषां स्वागतदानानि वक्तव्यं मधुरं सदा गृहागतानां दद्याच् च शयनासनभोजनम्
अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते स दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति
अवज्ञानम् अहंकारो दम्भश् चापि गृहे सतः परिवादोपघातौ च पारुष्यं च न शस्यते
यश् च सम्यक् करोत्य् एवं गृहस्थः परमं विधिम् सर्वबन्धविनिर्मुक्तो लोकान् आप्नोति चोत्तमान्
वयःपरिणतौ विप्राः कृतकृत्यो गृहाश्रमी पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत् सहैव वा
पर्णमूलफलाहारः केशश्मश्रुजटाधरः भूमिशायी भवेत् तत्र मुनिः सर्वातिथिर् द्विजाः
चर्मकाशकुशैः कुर्यात् परिधानोत्तरीयके तद्वत् त्रिषवणं स्नानं शस्तम् अस्य द्विजोत्तमाः
देवताभ्यर्चनं होमः सर्वाभ्यागतपूजनम् भिक्षा बलिप्रदानं तु शस्तम् अस्य प्रशस्यते
वन्यस्नेहेन गात्राणाम् अभ्यङ्गश् चापि शस्यते तपस्या तस्य विप्रेन्द्राः शीतोष्णादिसहिष्णुता
यस् त्व् एता नियतश् चर्या वानप्रस्थश् चरेन् मुनिः स दहत्य् अग्निवद् दोषाञ् जयेल् लोकांश् च शाश्वतान्
चतुर्थश् चाश्रमो भिक्षोः प्रोच्यते यो मनीषिभिः तस्य स्वरूपं गदतो बुध्यध्वं मम सत्तमाः
पुत्रद्रव्यकलत्रेषु त्यजेत् स्नेहं द्विजोत्तमाः चतुर्थम् आश्रमस्थानं गच्छेन् निर्धूतमत्सरः
त्रैवर्णिकांस् त्यजेत् सर्वान् आरम्भान् द्विजसत्तमाः मित्रादिषु समो मैत्रः समस्तेष्व् एव जन्तुषु
जरायुजाण्डजादीनां वाङ्मनःकर्मभिः क्वचित् युक्तः कुर्वीत न द्रोहं सर्वसङ्गांश् च वर्जयेत्
एकरात्रस्थितिर् ग्रामे पञ्चरात्रस्थितिः पुरे तथा प्रीतिर् न तिर्यक्षु द्वेषो वा नास्य जायते
प्राणयात्रानिमित्तं च व्यङ्गारे ऽभुक्तवज्जने काले प्रशस्तवर्णानां भिक्षार्थी पर्यटेद् गृहान्
अलाभे न विषादी स्याल् लाभे नैव च हर्षयेत् प्राणयात्रिकमात्रः स्यान् मात्रासङ्गाद् विनिर्गतः
अतिपूजितलाभांस् तु जुगुप्सं चैव सर्वतः अतिपूजितलाभैस् तु यतिर् मुक्तो ऽपि बध्यते
कामः क्रोधस् तथा दर्पो लोभमोहादयश् च ये तांस् तु दोषान् परित्यज्य परिव्राण् निर्ममो भवेत्
अभयं सर्वसत्त्वेभ्यो दत्त्वा यश् चरते महीम् तस्य देहाद् विमुक्तस्य भयं नोत्पद्यते क्वचित्
कृत्वाग्निहोत्रं स्वशरीरसंस्थं शारीरम् अग्निं स्वमुखे जुहोति विप्रस् तु भिक्षोपगतैर् हविर्भिश् चिताग्निना स व्रजति स्म लोकान्
मोक्षाश्रमं यश् चरते यथोक्तं शुचिश् च संकल्पितबुद्धियुक्तः अनिन्धनं ज्योतिर् इव प्रशान्तं स ब्रह्मलोकं व्रजति द्विजातिः
सर्वज्ञस् त्वं महाभाग सर्वभूतहिते रतः भूतं भव्यं भविष्यं च न ते ऽस्त्य् अविदितं मुने
कर्मणा केन वर्णानाम् अधमा जायते गतिः उत्तमा च भवेत् केन ब्रूहि तेषां महामते
शूद्रस् तु कर्मणा केन ब्राह्मणत्वं च गच्छति श्रोतुम् इच्छामहे केन ब्राह्मणः शूद्रताम् इयात्
हिमवच्छिखरे रम्ये नानाधातुविभूषिते नानाद्रुमलताकीर्णे नानाश्चर्यसमन्विते