इत्य् एते कथिता विप्रा वर्णधर्मा मयाद्य वै धर्मम् आश्रमिणां सम्यग् ब्रुवतो ऽपि निबोधत
बालः कृतोपनयनो वेदाहरणतत्परः गुरोर् गेहे वसन् विप्रा ब्रह्मचारी समाहितः
शौचाचाररतस् तत्र कार्यं शुश्रूषणं गुरोः व्रतानि चरता ग्राह्यो वेदश् च कृतबुद्धिना
उभे संध्ये रविं विप्रास् तथैवाग्निं समाहितः उपतिष्ठेत् तथा कुर्याद् गुरोर् अप्य् अभिवादनम्
स्थिते तिष्ठेद् व्रजेद् याति नीचैर् आसीत चासिते शिष्यो गुरौ द्विजश्रेष्ठाः प्रतिकूलं च संत्यजेत्
तेनैवोक्तं पठेद् वेदं नान्यचित्तः पुरस्थितः अनुज्ञातं च भिक्षान्नम् अश्नीयाद् गुरुणा ततः
अवगाहेद् अपः पूर्वम् आचार्येणावगाहिताः समिज्जलादिकं चास्य कल्यकल्यम् उपानयेत्
गृहीतग्राह्यवेदश् च ततो ऽनुज्ञाम् अवाप्य वै गार्हस्थ्यम् आवसेत् प्राज्ञो निष्पन्नगुरुनिष्कृतिः
विधिनावाप्तदारस् तु धनं प्राप्य स्वकर्मणा गृहस्थकार्यम् अखिलं कुर्याद् विप्राः स्वशक्तितः
निर्वापेण पितॄन् अर्च्य यज्ञैर् देवांस् तथातिथीन् अन्नैर् मुनींश् च स्वाध्यायैर् अपत्येन प्रजापतिम्
बलिकर्मणा भूतानि वाक्सत्येनाखिलं जगत् प्राप्नोति लोकान् पुरुषो निजकर्मसमार्जितान्
भिक्षाभुजश् च ये केचित् परिव्राड् ब्रह्मचारिणः ते ऽप्य् अत्र प्रतितिष्ठन्ति गार्हस्थ्यं तेन वै परम्
वेदाहरणकार्येण तीर्थस्नानाय च द्विजाः अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च
अनिकेता ह्य् अनाहारा ये तु सायंगृहास् तु ते तेषां गृहस्थः सततं प्रतिष्ठा योनिर् उच्यते
तेषां स्वागतदानानि वक्तव्यं मधुरं सदा गृहागतानां दद्याच् च शयनासनभोजनम्
अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते स दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति
अवज्ञानम् अहंकारो दम्भश् चापि गृहे सतः परिवादोपघातौ च पारुष्यं च न शस्यते
यश् च सम्यक् करोत्य् एवं गृहस्थः परमं विधिम् सर्वबन्धविनिर्मुक्तो लोकान् आप्नोति चोत्तमान्
वयःपरिणतौ विप्राः कृतकृत्यो गृहाश्रमी पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत् सहैव वा
पर्णमूलफलाहारः केशश्मश्रुजटाधरः भूमिशायी भवेत् तत्र मुनिः सर्वातिथिर् द्विजाः
चर्मकाशकुशैः कुर्यात् परिधानोत्तरीयके तद्वत् त्रिषवणं स्नानं शस्तम् अस्य द्विजोत्तमाः
देवताभ्यर्चनं होमः सर्वाभ्यागतपूजनम् भिक्षा बलिप्रदानं तु शस्तम् अस्य प्रशस्यते
वन्यस्नेहेन गात्राणाम् अभ्यङ्गश् चापि शस्यते तपस्या तस्य विप्रेन्द्राः शीतोष्णादिसहिष्णुता
यस् त्व् एता नियतश् चर्या वानप्रस्थश् चरेन् मुनिः स दहत्य् अग्निवद् दोषाञ् जयेल् लोकांश् च शाश्वतान्
चतुर्थश् चाश्रमो भिक्षोः प्रोच्यते यो मनीषिभिः तस्य स्वरूपं गदतो बुध्यध्वं मम सत्तमाः
पुत्रद्रव्यकलत्रेषु त्यजेत् स्नेहं द्विजोत्तमाः चतुर्थम् आश्रमस्थानं गच्छेन् निर्धूतमत्सरः
त्रैवर्णिकांस् त्यजेत् सर्वान् आरम्भान् द्विजसत्तमाः मित्रादिषु समो मैत्रः समस्तेष्व् एव जन्तुषु
जरायुजाण्डजादीनां वाङ्मनःकर्मभिः क्वचित् युक्तः कुर्वीत न द्रोहं सर्वसङ्गांश् च वर्जयेत्
एकरात्रस्थितिर् ग्रामे पञ्चरात्रस्थितिः पुरे तथा प्रीतिर् न तिर्यक्षु द्वेषो वा नास्य जायते
प्राणयात्रानिमित्तं च व्यङ्गारे ऽभुक्तवज्जने काले प्रशस्तवर्णानां भिक्षार्थी पर्यटेद् गृहान्