पूर्णैस् तु दिवसैः स्पृष्ट्वा सलिलं वाहनायुधैः दत्तप्रेतोदपिण्डाश् च सर्वे वर्णाः कृतक्रियाः
कुर्युः समग्राः शुचिनः परत्रेह च भूतये अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता
धर्मतो धनम् आहार्यं यष्टव्यं चापि यत्नतः येन प्रकुपितो नात्मा जुगुप्साम् एति भो द्विजाः
तत् कर्तव्यम् अशङ्केन यन् न गोप्यं महाजनैः एवम् आचरतो विप्राः पुरुषस्य गृहे सतः
धर्मार्थकामं संप्राप्य परत्रेह च शोभनम् इदं रहस्यम् आयुष्यं धन्यं बुद्धिविवर्धनम्
सर्वपापहरं पुण्यं श्रीपुष्ट्यारोग्यदं शिवम् यशःकीर्तिप्रदं नॄणां तेजोबलविवर्धनम्
अनुष्ठेयं सदा पुंभिः स्वर्गसाधनम् उत्तमम् ब्राह्मणैः क्षत्रियैर् वैश्यैः शूद्रैश् च मुनिसत्तमाः
ज्ञातव्यं सुप्रयत्नेन सम्यक् श्रेयोभिकाङ्क्षिभिः ज्ञात्वैव यः सदा कालम् अनुष्ठानं करोति वै
सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते सारात् सारतरं चेदम् आख्यातं द्विजसत्तमाः
श्रुतिस्मृत्युदितं धर्मं न देयं यस्य कस्यचित् न नास्तिकाय दातव्यं न दुष्टमतये द्विजाः न दाम्भिकाय मूर्खाय न कुतर्कप्रलापिने
श्रोतुम् इच्छामहे ब्रह्मन् वर्णधर्मान् विशेषतः चतुराश्रमधर्मांश् च द्विजवर्य ब्रवीहि तान्
ब्राह्मणक्षत्रियविशां शूद्राणां च यथाक्रमम् शृणुध्वं संयता भूत्वा वर्णधर्मान् मयोदितान्
दानदयातपोदेवयज्ञस्वाध्यायतत्परः नित्योदकी भवेद् विप्रः कुर्याच् चाग्निपरिग्रहम्
वृत्त्यर्थं याजयेत् त्व् अन्यान् द्विजान् अध्यापयेत् तथा कुर्यात् प्रतिग्रहादानं यज्ञार्थं ज्ञानतो द्विजाः
सर्वलोकहितं कुर्यान् नाहितं कस्यचिद् द्विजाः मैत्री समस्तसत्त्वेषु ब्राह्मणस्योत्तमं धनम्
गवि रत्ने च पारक्ये समबुद्धिर् भवेद् द्विजाः ऋताव् अभिगमः पत्न्यां शस्यते वास्य भो द्विजाः
दानानि दद्याद् इच्छातो द्विजेभ्यः क्षत्रियो ऽपि हि यजेच् च विविधैर् यज्ञैर् अधीयीत च भो द्विजाः
शस्त्राजीवो महीरक्षा प्रवरा तस्य जीविका तस्यापि प्रथमे कल्पे पृथिवीपरिपालनम्
धरित्रीपालनेनैव कृतकृत्या नराधिपाः भवन्ति नृपते रक्षा यतो यज्ञादिकर्मणाम्
दुष्टानां शासनाद् राजा शिष्टानां परिपालनात् प्राप्नोत्य् अभिमतांल् लोकान् वर्णसंस्थापको नृपः
पाशुपाल्यं वणिज्यां च कृषिं च मुनिसत्तमाः वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः
तस्याप्य् अध्ययनं यज्ञो दानं धर्मश् च शस्यते नित्यनैमित्तिकादीनाम् अनुष्ठानं च कर्मणाम्
द्विजातिसंश्रयं कर्म तदर्थं तेन पोषणम् क्रयविक्रयजैर् वापि धनैः कारुभवैस् तु वा
दानं दद्याच् च शूद्रो ऽपि पाकयज्ञैर् यजेत च पित्र्यादिकं च वै सर्वं शूद्रः कुर्वीत तेन वै
भृत्यादिभरणार्थाय सर्वेषां च परिग्रहाः ऋतुकालाभिगमनं स्वदारेषु द्विजोत्तमाः
दया समस्तभूतेषु तितिक्षा नाभिमानिता सत्यं शौचम् अनायासो मङ्गलं प्रियवादिता
मैत्री चैवास्पृहा तद्वद् अकार्पण्यं द्विजोत्तमाः अनसूया च सामान्या वर्णानां कथिता गुणाः
आश्रमाणां च सर्वेषाम् एते सामान्यलक्षणाः गुणास् तथोपधर्माश् च विप्रादीनाम् इमे द्विजाः
क्षात्रं कर्म द्विजस्योक्तं वैश्यकर्म तथापदि राजन्यस्य च वैश्योक्तं शूद्रकर्माणि चैतयोः
ससामर्थ्ये सति त्याज्यम् उभाभ्याम् अपि च द्विजाः तद् एवापदि कर्तव्यं न कुर्यात् कर्मसंकरम्