सोमसूर्यांशुपवनैः शुध्यन्ते तानि पण्यवत् रथ्यापसर्पणे स्नाने क्षुत्पानानां च कर्मसु
आचामेत यथान्यायं वाससः परिधापने स्पृष्टानाम् अथ संस्पर्शैर् द्विरथ्याकर्दमाम्भसि
पक्वेष्टकचितानां च मेध्यता वायुसंश्रयात् प्रभूतोपहताद् अन्नाद् अग्रम् उद्धृत्य संत्यजेत्
शेषस्य प्रोक्षणं कुर्याद् आचम्याद्भिस् तथा मृदा उपवासस् त्रिरात्रं तु दुष्टभक्ताशिनो भवेत्
अज्ञाने ज्ञानपूर्वे तु तद्दोषोपशमे न तु उदक्यां वावलग्नां च सूतिकान्त्यावसायिनः
स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति
आचम्यैव तु निःस्नेहं गाम् आलभ्यार्कम् ईक्ष्य वा न लङ्घयेत् तथैवाथ ष्ठीवनोद्वर्तनानि च
गृहाद् उच्छिष्टविण्मूत्रं पादाम्भस् तत् क्षिपेद् बहिः पञ्चपिण्डान् अनुद्धृत्य न स्नायात् परवारिणि
स्नायीत देवखातेषु गङ्गाह्रदसरित्सु च नोद्यानादौ विकालेषु प्राज्ञस् तिष्ठेत् कदाचन
नालपेज् जनविद्विष्टान् वीरहीनास् तथा स्त्रियः देवतापितृसच्छास्त्रयज्विसंन्यासिनिन्दकैः
कृत्वा तु स्पर्शनालापं शुध्यत्य् अर्कावलोकनात् अवलोक्य तथोदक्यां संन्यस्तं पतितं शवम्
विधर्मिसूतिकाषण्ढविवस्त्रान्त्यावसायिनः मृतनिर्यातकांश् चैव परदाररताश् च ये
एतद् एव हि कर्तव्यं प्राज्ञैः शोधनम् आत्मनः अभोज्यभिक्षुपाखण्डमार्जारखरकुक्कुटान्
पतितापविद्धचाण्डालमृताहारांश् च धर्मवित् संस्पृश्य शुध्यते स्नानाद् उदक्याग्रामशूकरौ
तद्वच् च सूतिकाशौचदूषितौ पुरुषाव् अपि यस्य चानुदिनं हानिर् गृहे नित्यस्य कर्मणः
यश् च ब्राह्मणसंत्यक्तः किल्बिषाशी नराधमः नित्यस्य कर्मणो हानिं न कुर्वीत कदाचन
तस्य त्व् अकरणं वक्ष्ये केवलं मृतजन्मसु दशाहं ब्राह्मणस् तिष्ठेद् दानहोमविवर्जितः
क्षत्रियो द्वादशाहं च वैश्यो मासार्धम् एव च शूद्रश् च मासम् आसीत निजकर्मविवर्जितः
ततः परं निजं कर्म कुर्युः सर्वे यथोचितम् प्रेताय सलिलं देयं बहिर् गत्वा तु गोत्रकैः
प्रथमे ऽह्नि चतुर्थे च सप्तमे नवमे तथा तस्यास्थिसंचयः कार्यश् चतुर्थे ऽहनि गोत्रकैः
ऊर्ध्वं संचयनात् तेषाम् अङ्गस्पर्शो विधीयते गोत्रकैस् तु क्रियाः सर्वाः कार्याः संचयनात् परम्
स्पर्श एव सपिण्डानां मृताहनि तथोभयोः अन्वर्थम् इच्छया शस्त्ररज्जुबन्धनवह्निषु
विषप्रतापादिमृते प्रायानाशकयोर् अपि बाले देशान्तरस्थे च तथा प्रव्रजिते मृते
सद्यः शौचं मनुष्याणां त्र्यहम् उक्तम् अशौचकम् सपिण्डानां सपिण्डस् तु मृते ऽन्यस्मिन् मृतो यदि
पूर्वशौचं समाख्यातं कार्यास् तत्र दिनक्रियाः एष एव विधिर् दृष्टो जन्मन्य् अपि हि सूतके
सपिण्डानां सपिण्डेषु यथावत् सोदकेषु च पुत्रे जाते पितुः स्नानं सचैलस्य विधीयते
तत्रापि यदि वान्यस्मिन्न् अनुयातस् ततः परम् तत्रापि शुद्धिर् उदिता पूर्वजन्मवतो दिनैः
दशद्वादशमासार्धमाससंख्यैर् दिनैर् गतैः स्वाः स्वाः कर्मक्रियाः कुर्युः सर्वे वर्णा यथाविधि
प्रेतम् उद्दिश्य कर्तव्यम् एकोद्दिष्टम् अतः परम् दानानि चैव देयानि ब्राह्मणेभ्यो मनीषिभिः
यद् यद् इष्टतमं लोके यच् चास्य दयितं गृहे तत् तद् गुणवते देयं तद् एवाक्षयम् इच्छता