शशकः कच्छपो गोधा श्वाविन् मत्स्यो ऽथ शल्यकः भक्ष्याश् चैते तथा वर्ज्यौ ग्रामशूकरकुक्कुटौ
पितृदेवादिशेषं च श्राद्धे ब्राह्मणकाम्यया प्रोक्षितं चौषधार्थं च खादन् मांसं न दुष्यति
शङ्खाश्मस्वर्णरूप्याणां रज्जूनाम् अथ वाससाम् शाकमूलफलानां च तथा विदलचर्मणाम्
मणिवस्त्रप्रवालानां तथा मुक्ताफलस्य च पात्राणां चमसानां च अम्बुना शौचम् इष्यते
तथाश्मकानां तोयेन अश्मसंघर्षणेन च सस्नेहानां च पात्राणां शुद्धिर् उष्णेन वारिणा
शूर्पाणाम् अजिनानां च मुशलोलूखलस्य च संहतानां च वस्त्राणां प्रोक्षणात् संचयस्य च
वल्कलानाम् अशेषाणाम् अम्बुमृच्छौचम् इष्यते आविकानां समस्तानां केशानां चैवम् इष्यते
सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः शोधनं चैव भवति उपघातवतां सदा
तथा कार्पासिकानां च शुद्धिः स्याज् जलभस्मना दारुदन्तास्थिशृङ्गाणां तक्षणाच् छुद्धिर् इष्यते
पुनः पाकेन भाण्डानां पार्थिवानाम् अमेध्यता शुद्धं भैक्ष्यं कारुहस्तः पण्यं योषिन्मुखं तथा
रथ्यागमनविज्ञानं दासवर्गेण संस्कृतम् प्राक्प्रशस्तं चिरातीतम् अनेकान्तरितं लघु
अन्तः प्रभूतं बालं च वृद्धान्तरविचेष्टितम् कर्मान्तागारशालाश् च स्तनद्वयं शुचि स्त्रियाः
शुचयश् च तथैवापः स्रवन्त्यो गन्धवर्जिताः भूमिर् विशुध्यते कालाद् दाहमार्जनगोकुलैः
लेपाद् उल्लेखनात् सेकाद् वेश्म संमार्जनादिना केशकीटावपन्ने च गोघ्राते मक्षिकान्विते
मृदम्बु भस्म चाप्य् अन्ने प्रक्षेप्तव्यं विशुद्धये औदुम्बराणाम् अम्लेन वारिणा त्रपुसीसयोः
भस्माम्बुभिश् च कांस्यानां शुद्धिः प्लावो द्रवस्य च अमेध्याक्तस्य मृत्तोयैर् गन्धापहरणेन च
अन्येषां चैव द्रव्याणां वर्णगन्धांश् च हारयेत् शुचि मांसं तु चाण्डालक्रव्यादैर् विनिपातितम्
रथ्यागतं च तैलादि शुचि गोतृप्तिदं पयः रजो ऽग्निर् अश्वगोछाया रश्मयः पवनो मही
विप्लुषो मक्षिकाद्याश् च दुष्टसङ्गाद् अदोषिणः अजाश्वं मुखतो मेध्यं न गोर् वत्सस्य चाननम्
मातुः प्रस्रवणे मेध्यं शकुनिः फलपातने आसनं शयनं यानं तटौ नद्यास् तृणानि च
सोमसूर्यांशुपवनैः शुध्यन्ते तानि पण्यवत् रथ्यापसर्पणे स्नाने क्षुत्पानानां च कर्मसु
आचामेत यथान्यायं वाससः परिधापने स्पृष्टानाम् अथ संस्पर्शैर् द्विरथ्याकर्दमाम्भसि
पक्वेष्टकचितानां च मेध्यता वायुसंश्रयात् प्रभूतोपहताद् अन्नाद् अग्रम् उद्धृत्य संत्यजेत्
शेषस्य प्रोक्षणं कुर्याद् आचम्याद्भिस् तथा मृदा उपवासस् त्रिरात्रं तु दुष्टभक्ताशिनो भवेत्
अज्ञाने ज्ञानपूर्वे तु तद्दोषोपशमे न तु उदक्यां वावलग्नां च सूतिकान्त्यावसायिनः
स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति
आचम्यैव तु निःस्नेहं गाम् आलभ्यार्कम् ईक्ष्य वा न लङ्घयेत् तथैवाथ ष्ठीवनोद्वर्तनानि च
गृहाद् उच्छिष्टविण्मूत्रं पादाम्भस् तत् क्षिपेद् बहिः पञ्चपिण्डान् अनुद्धृत्य न स्नायात् परवारिणि
स्नायीत देवखातेषु गङ्गाह्रदसरित्सु च नोद्यानादौ विकालेषु प्राज्ञस् तिष्ठेत् कदाचन
नालपेज् जनविद्विष्टान् वीरहीनास् तथा स्त्रियः देवतापितृसच्छास्त्रयज्विसंन्यासिनिन्दकैः