वायवे च प्रतिदिशं दिग्भ्यः प्राच्यादिषु क्रमात् ब्रह्मणे चान्तरिक्षाय सूर्याय च यथाक्रमात्
विश्वेभ्यश् चैव देवेभ्यो विश्वभूतेभ्य एव च उषसे भूतपतये दद्याद् वोत्तरतः शुचिः
स्वधा च नम इत्य् उक्त्वा पितृभ्यश् चैव दक्षिणे कृत्वापसव्यं वायव्यां यक्ष्मैतत् तैति संवदन्
अन्नावशेषमिश्रं वै तोयं दद्याद् यथाविधि देवानां च ततः कुर्याद् ब्राह्मणानां नमस्क्रियाम्
अङ्गुष्ठोत्तरतो रेखा पाणेर् या दक्षिणस्य च एतद् ब्राह्मम् इति ख्यातं तीर्थम् आचमनाय वै
तर्जन्यङ्गुष्ठयोर् अन्तः पित्र्यं तीर्थम् उदाहृतम् पितॄणां तेन तोयानि दद्यान् नान्दीमुखाद् ऋते
अङ्गुल्यग्रे तथा दैवं तेन दिव्यक्रियाविधिः तीर्थं कनिष्ठिकामूले कायं तत्र प्रजापतेः
एवम् एभिः सदा तीर्थैर् विधानं पितृभिः सह सदा कार्याणि कुर्वीत नान्यतीर्थः कदाचन
ब्राह्मेणाचमनं शस्तं पैत्र्यं पित्र्येण सर्वदा देवतीर्थेन देवानां प्राजापत्यं जितेन च
नान्दीमुखानां कुर्वीत प्राज्ञः पिण्डोदकक्रियाम् प्राजापत्येन तीर्थेन यच् च किंचित् प्रजापतेः
युगपज् जलम् अग्निं च बिभृयान् न विचक्षणः गुरुदेवपितॄन् विप्रान् न च पादौ प्रसारयेत्
नाचक्षीत धयन्तीं गां जलं नाञ्जलिना पिबेत् शौचकालेषु सर्वेषु गुरुष्व् अल्पेषु वा पुनः न विलम्बेत मेधावी न मुखेनानलं धमेत्
तत्र विप्रा न वस्तव्यं यत्र नास्ति चतुष्टयम् ऋणप्रदाता वैद्यश् च श्रोत्रियः सजला नदी
जितभृत्यो नृपो यत्र बलवान् धर्मतत्परः तत्र नित्यं वसेत् प्राज्ञः कुतः कुनृपतौ सुखम्
पौराः सुसंहता यत्र सततं न्यायवर्तिनः शान्तामत्सरिणो लोकास् तत्र वासः सुखोदयः
यस्मिन् कृषीवला राष्ट्रे प्रायशो नातिमानिनः यत्रौषधान्य् अशेषाणि वसेत् तत्र विचक्षणः
तत्र विप्रा न वस्तव्यं यत्रैतत् त्रितयं सदा जिगीषुः पूर्ववैरश् च जनश् च सततोत्सवः
वसेन् नित्यं सुशीलेषु सहचारिषु पण्डितः यत्राप्रधृष्यो नृपतिर् यत्र सस्यप्रदा मही
इत्य् एतत् कथितं विप्रा मया वो हितकाम्यया अतःपरं प्रवक्ष्यामि भक्ष्यभोज्यविधिक्रियाम्
भोज्यम् अन्नं पर्युषितं स्नेहाक्तं चिरसंभृतम् अस्नेहा अपि गोधूमयवगोरसविक्रियाः
शशकः कच्छपो गोधा श्वाविन् मत्स्यो ऽथ शल्यकः भक्ष्याश् चैते तथा वर्ज्यौ ग्रामशूकरकुक्कुटौ
पितृदेवादिशेषं च श्राद्धे ब्राह्मणकाम्यया प्रोक्षितं चौषधार्थं च खादन् मांसं न दुष्यति
शङ्खाश्मस्वर्णरूप्याणां रज्जूनाम् अथ वाससाम् शाकमूलफलानां च तथा विदलचर्मणाम्
मणिवस्त्रप्रवालानां तथा मुक्ताफलस्य च पात्राणां चमसानां च अम्बुना शौचम् इष्यते
तथाश्मकानां तोयेन अश्मसंघर्षणेन च सस्नेहानां च पात्राणां शुद्धिर् उष्णेन वारिणा
शूर्पाणाम् अजिनानां च मुशलोलूखलस्य च संहतानां च वस्त्राणां प्रोक्षणात् संचयस्य च
वल्कलानाम् अशेषाणाम् अम्बुमृच्छौचम् इष्यते आविकानां समस्तानां केशानां चैवम् इष्यते
सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः शोधनं चैव भवति उपघातवतां सदा
तथा कार्पासिकानां च शुद्धिः स्याज् जलभस्मना दारुदन्तास्थिशृङ्गाणां तक्षणाच् छुद्धिर् इष्यते
पुनः पाकेन भाण्डानां पार्थिवानाम् अमेध्यता शुद्धं भैक्ष्यं कारुहस्तः पण्यं योषिन्मुखं तथा