भजमानस्य सृञ्जय्यौ बाह्यकाथोपबाह्यका आस्तां भार्ये तयोस् तस्माज् जज्ञिरे बहवः सुताः
क्रिमिश् च क्रमणश् चैव धृष्टः शूरः पुरंजयः एते बाह्यकसृञ्जय्यां भजमानाद् विजज्ञिरे
आयुताजित् सहस्राजिच् छताजित् त्व् अथ दासकः उपबाह्यकसृञ्जय्यां भजमानाद् विजज्ञिरे
यज्वा देवावृधो राजा चचार विपुलं तपः पुत्रः सर्वगुणोपेतो मम स्याद् इति निश्चितः
संयुज्यमानस् तपसा पर्णाशाया जलं स्पृशन् सदोपस्पृशतस् तस्य चकार प्रियम् आपगा
चिन्तयाभिपरीता सा न जगामैव निश्चयम् कल्याणत्वान् नरपतेस् तस्य सा निम्नगोत्तमा
नाध्यगच्छत् तु तां नारीं यस्याम् एवंविधः सुतः भवेत् तस्मात् स्वयं गत्वा भवाम्य् अस्य सहानुगा
अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः वरयाम् आस नृपतिं ताम् इयेष च स प्रभुः
तस्याम् आधत्त गर्भं स तेजस्विनम् उदारधीः अथ सा दशमे मासि सुषुवे सरितां वरा
पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधं द्विजाः अत्र वंशे पुराणज्ञा गायन्तीति परिश्रुतम्
गुणान् देवावृधस्यापि कीर्तयन्तो महात्मनः यथैवाग्रे तथा दूरात् पश्यामस् तावद् अन्तिकात्
बभ्रुः श्रेष्ठो मनुष्याणां देवैर् देवावृधः समः षष्टिश् च षट् च पुरुषाः सहस्राणि च सप्त च
एते ऽमृतत्वं प्राप्ता वै बभ्रोर् देवावृधाद् अपि यज्वा दानपतिर् धीमान् ब्रह्मण्यः सुदृढायुधः
तस्यान्ववायः सुमहान् भोजा ये सार्तिकावताः अन्धकात् काश्यदुहिता चतुरो ऽलभतात्मजान्
कुकुरं भजमानं च ससकं बलबर्हिषम् कुकुरस्य सुतो वृष्टिर् वृष्टेस् तु तनयस् तथा
कपोतरोमा तस्याथ तिलिरिस् तनयो ऽभवत् जज्ञे पुनर् वसुस् तस्माद् अभिजिच् च पुनर् वसोः
तथा वै पुत्रमिथुनं बभूवाभिजितः किल आहुकः श्राहुकश् चैव ख्यातौ ख्यातिमतां वरौ
इमां चोदाहरन्त्य् अत्र गाथां प्रति तम् आहुकम् श्वेतेन परिवारेण किशोरप्रतिमो महान्
अशीतिवर्मणा युक्त आहुकः प्रथमं व्रजेत् नापुत्रवान् नाशतदो नासहस्रशतायुषः
नाशुद्धकर्मा नायज्वा यो भोजम् अभितो व्रजेत् पूर्वस्यां दिशि नागानां भोजस्य प्रययुः किल
सोमात् सङ्गानुकर्षाणां ध्वजिनां सवरूथिनाम् रथानां मेघघोषाणां सहस्राणि दशैव तु
रौप्यकाञ्चनकक्षाणां सहस्राण्य् एकविंशतिः तावत्य् एव सहस्राणि उत्तरस्यां तथा दिशि
आभूमिपाला भोजास् तु सन्ति ज्याकिङ्किणीकिनः आहुः किं चाप्य् अवन्तिभ्यः स्वसारं ददुर् अन्धकाः
आहुकस्य तु काश्यायां द्वौ पुत्रौ संबभूवतुः देवकश् चोग्रसेनश् च देवगर्भसमाव् उभौ
देवकस्याभवन् पुत्राश् चत्वारस् त्रिदशोपमाः देववान् उपदेवश् च संदेवो देवरक्षितः
कुमार्यः सप्त चास्याथ वसुदेवाय ता ददौ देवकी शान्तिदेवा च सुदेवा देवरक्षिता
वृकदेव्य् उपदेवी च सुनाम्नी चैव सप्तमी नवोग्रसेनस्य सुतास् तेषां कंसस् तु पूर्वजः
न्यग्रोधश् च सुनामा च तथा कङ्कः सुभूषणः राष्ट्रपालो ऽथ सुतनुर् अनावृष्टिस् तु पुष्टिमान्
तेषां स्वसारः पञ्चासन् कंसा कंसवती तथा सुतनू राष्ट्रपाली च कङ्का चैव वराङ्गना
उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः कुकुराणाम् इमं वंशं धारयन्न् अमितौजसाम्