देवर्षिः प्रियसंवादो नारदः प्राब्रवीद् इदम् नाशाय वचनं तेषां शापायैवात्मनस् तथा
यं कश्यपः सुतवरं परमेष्ठी व्यजीजनत् दक्षस्य वै दुहितरि दक्षशापभयान् मुनिः
पूर्वं स हि समुत्पन्नो नारदः परमेष्ठिनः असिक्न्याम् अथ वैरण्यां भूयो देवर्षिसत्तमः
तं भूयो जनयाम् आस पितेव मुनिपुंगवम् तेन दक्षस्य वै पुत्रा हर्यश्वा इति विश्रुताः
निर्मथ्य नाशिताः सर्वे विधिना च न संशयः तस्योद्यतस् तदा दक्षो नाशायामितविक्रमः
ब्रह्मर्षीन् पुरतः कृत्वा याचितः परमेष्ठिना ततो ऽभिसंधिश् चक्रे वै दक्षस्य परमेष्ठिना
कन्यायां नारदो मह्यं तव पुत्रो भवेद् इति ततो दक्षः सुतां प्रादात् प्रियां वै परमेष्ठिने स तस्यां नारदो जज्ञे भूयः शापभयाद् ऋषिः
कथं प्रणाशिताः पुत्रा नारदेन महर्षिणा प्रजापतेः सूतवर्य श्रोतुम् इच्छाम तत्त्वतः
दक्षस्य पुत्रा हर्यश्वा विवर्धयिषवः प्रजाः समागता महावीर्या नारदस् तान् उवाच ह
बालिशा बत यूयं वै नास्या जानीत वै भुवः प्रमाणं स्रष्टुकामा वै प्रजाः प्राचेतसात्मजाः
अन्तर् ऊर्ध्वम् अधश् चैव कथं सृजथ वै प्रजाः ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशः
अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः हर्यश्वेष्व् अथ नष्टेषु दक्षः प्राचेतसः पुनः
वैरण्याम् अथ पुत्राणां सहस्रम् असृजत् प्रभुः विवर्धयिषवस् ते तु शबलाश्वास् तथा प्रजाः
पूर्वोक्तं वचनं ते तु नारदेन प्रचोदिताः अन्योन्यम् ऊचुस् ते सर्वे सम्यग् आह महान् ऋषिः
भ्रातॄणां पदवीं ज्ञातुं गन्तव्यं नात्र संशयः ज्ञात्वा प्रमाणं पृथ्व्याश् च सुखं स्रक्ष्यामहे प्रजाः
ते ऽपि तेनैव मार्गेण प्रयाताः सर्वतो दिशम् अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः
तदा प्रभृति वै भ्राता भ्रातुर् अन्वेषणे द्विजाः प्रयातो नश्यति क्षिप्रं तन् न कार्यं विपश्चिता
तांश् चैव नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः षष्टिं ततो ऽसृजत् कन्या वैरण्याम् इति नः श्रुतम्
तास् तदा प्रतिजग्राह भार्यार्थं कश्यपः प्रभुः सोमो धर्मश् च भो विप्रास् तथैवान्ये महर्षयः
ददौ स दश धर्माय कश्यपाय त्रयोदश सप्तविंशति सोमाय चतस्रो ऽरिष्टनेमिने
द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु
अरुन्धती वसुर् यामी लम्बा भानुर् मरुत्वती संकल्पा च मुहूर्ता च साध्या विश्वा च भो द्विजाः
धर्मपत्न्यो दश त्व् एतास् तास्व् अपत्यानि बोधत विश्वेदेवास् तु विश्वायाः साध्या साध्यान् व्यजायत
मरुत्वत्यां मरुत्वन्तो वसोस् तु वसवः सुताः भानोस् तु भानवः पुत्रा मुहूर्तास् तु मुहूर्तजाः
लम्बायाश् चैव घोषो ऽथ नागवीथी च यामिजा पृथिवी विषयं सर्वम् अरुन्धत्यां व्यजायत
संकल्पायास् तु विश्वात्मा जज्ञे संकल्प एव हि नागवीथ्यां च यामिन्यां वृषलश् च व्यजायत
परा याः सोमपत्नीश् च दक्षः प्राचेतसो ददौ सर्वा नक्षत्रनाम्न्यस् ता ज्योतिषे परिकीर्तिताः
ये त्व् अन्ये ख्यातिमन्तो वै देवा ज्योतिष्पुरोगमाः वसवो ऽष्टौ समाख्यातास् तेषां वक्ष्यामि विस्तरम्
आपो ध्रुवश् च सोमश् च धवश् चैवानिलो ऽनलः प्रत्यूषश् च प्रभासश् च वसवो नामभिः स्मृताः
आपस्य पुत्रो वैतण्ड्यः श्रमः श्रान्तो मुनिस् तथा ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकालनः