संध्यायां मैथुनं चापि तथा प्रस्थानम् एव च तथापराह्णे कुर्वीत श्रद्धया पितृतर्पणम्
शिरःस्नानं च कुर्वीत दैवं पित्र्यम् अथापि च प्राङ्मुखोदङ्मुखो वापि श्मश्रुकर्म च कारयेत्
व्यङ्गिनीं वर्जयेत् कन्यां कुलजां वाप्य् अरोगिणीम् उद्वहेत् पितृमात्रोश् च सप्तमीं पञ्चमीं तथा
रक्षेद् दारांस् त्यजेद् ईर्ष्यां तथाह्नि स्वप्नमैथुने परोपतापकं कर्म जन्तुपीडां च सर्वदा
उदक्या सर्ववर्णानां वर्ज्या रात्रिचतुष्टयम् स्त्रीजन्मपरिहारार्थं पञ्चमीं चापि वर्जयेत्
ततः षष्ठ्यां व्रजेद् रात्र्यां ज्येष्ठयुग्मासु रात्रिषु युग्मासु पुत्रा जायन्ते स्त्रियो ऽयुग्मासु रात्रिषु
विधर्मिणो वै पर्वादौ संध्याकालेषु षण्ढकाः क्षुरकर्मणि रिक्तां वै वर्जयीत विचक्षणः
ब्रुवताम् अविनीतानां न श्रोतव्यं कदाचन न चोत्कृष्टासनं देयम् अनुत्कृष्टस्य चादरात्
क्षुरकर्मणि चान्ते च स्त्रीसंभोगे च भो द्विजाः स्नायीत चैलवान् प्राज्ञः कटभूमिम् उपेत्य च
देववेदद्विजातीनां साधुसत्यमहात्मनाम् गुरोः पतिव्रतानां च ब्रह्मयज्ञतपस्विनाम्
परिवादं न कुर्वीत परिहासं च भो द्विजाः धवलाम्बरसंवीतः सितपुष्पविभूषितः
सदा माङ्गल्यवेषः स्यान् न वामाङ्गल्यवान् भवेत् नोद्धतोन्मत्तमूढैश् च नाविनीतैश् च पण्डितः
गच्छेन् मैत्रीम् अशीलेन न वयोजातिदूषितैः न चातिव्ययशीलैश् च पुरुषैर् नैव वैरिभिः
कार्याक्षमैर् निन्दितैर् न न चैव विटसङ्गिभिः निस्वैर् न वादैकपरैर् नरैश् चान्यैस् तथाधमैः
सुहृद्दीक्षितभूपालस्नातकश्वशुरैः सह उत्तिष्ठेद् विभवाच् चैनान् अर्चयेद् गृहम् आगतान्
यथाविभवतो विप्राः प्रतिसंवत्सरोषितान् सम्यग् गृहे ऽर्चनं कृत्वा यथास्थानम् अनुक्रमात्
संपूजयेत् तथा वह्नौ प्रदद्याच् चाहुतीः क्रमात् प्रथमां ब्रह्मणे दद्यात् प्रजानां पतये ततः
तृतीयां चैव गृह्येभ्यः कश्यपाय तथापराम् ततो ऽनुमतये दद्याद् दद्याद् बहुबलिं ततः
पूर्वं ख्याता मया या तु नित्यक्रमविधौ क्रिया वैश्वदेवं ततः कुर्याद् वदत शृणुत द्विजाः
यथास्थानविभागं तु देवान् उद्दिश्य वै पृथक् पर्जन्यापोधरित्रीणां दद्यात् तु मणिके त्रयम्
वायवे च प्रतिदिशं दिग्भ्यः प्राच्यादिषु क्रमात् ब्रह्मणे चान्तरिक्षाय सूर्याय च यथाक्रमात्
विश्वेभ्यश् चैव देवेभ्यो विश्वभूतेभ्य एव च उषसे भूतपतये दद्याद् वोत्तरतः शुचिः
स्वधा च नम इत्य् उक्त्वा पितृभ्यश् चैव दक्षिणे कृत्वापसव्यं वायव्यां यक्ष्मैतत् तैति संवदन्
अन्नावशेषमिश्रं वै तोयं दद्याद् यथाविधि देवानां च ततः कुर्याद् ब्राह्मणानां नमस्क्रियाम्
अङ्गुष्ठोत्तरतो रेखा पाणेर् या दक्षिणस्य च एतद् ब्राह्मम् इति ख्यातं तीर्थम् आचमनाय वै
तर्जन्यङ्गुष्ठयोर् अन्तः पित्र्यं तीर्थम् उदाहृतम् पितॄणां तेन तोयानि दद्यान् नान्दीमुखाद् ऋते
अङ्गुल्यग्रे तथा दैवं तेन दिव्यक्रियाविधिः तीर्थं कनिष्ठिकामूले कायं तत्र प्रजापतेः
एवम् एभिः सदा तीर्थैर् विधानं पितृभिः सह सदा कार्याणि कुर्वीत नान्यतीर्थः कदाचन
ब्राह्मेणाचमनं शस्तं पैत्र्यं पित्र्येण सर्वदा देवतीर्थेन देवानां प्राजापत्यं जितेन च
नान्दीमुखानां कुर्वीत प्राज्ञः पिण्डोदकक्रियाम् प्राजापत्येन तीर्थेन यच् च किंचित् प्रजापतेः