उपरागे परं स्नानम् ऋते दिनम् उदाहृतम् अपमृज्यान् न वस्त्रान्तैर् गात्राण्य् अम्बरपाणिभिः
न चावधूनयेत् केशान् वाससी न च निर्धुनेत् अनुलेपनम् आदद्यान् नास्नातः कर्हिचिद् बुधः
न चापि रक्तवासाः स्याच् चित्रासितधरो ऽपि वा न च कुर्याद् विपर्यासं वाससोर् नापि भूषयोः
वर्ज्यं च विदशं वस्त्रम् अत्यन्तोपहतं च यत् कीटकेशावपन्नं च तथा श्वभिर् अवेक्षितम्
अवलीढं शुना चैव सारोद्धरणदूषितम् पृष्ठमांसं वृथामांसं वर्ज्यमांसं च वर्जयेत्
न भक्षयेच् च सततं प्रत्यक्षं लवणं नरः वर्ज्यं चिरोषितं विप्राः शुष्कं पर्युषितं च यत्
पिष्टशाकेक्षुपयसां विकारा द्विजसत्तमाः तथा मांसविकाराश् च नैव वर्ज्याश् चिरोषिताः
उदयास्तमने भानोः शयनं च विवर्जयेत् नास्नातो नैव संविष्टो न चैवान्यमना नरः
न चैव शयने नोर्व्याम् उपविष्टो न शब्दकृत् प्रेष्याणाम् अप्रदायाथ न भुञ्जीत कदाचन
भुञ्जीत पुरुषः स्नातः सायंप्रातर् यथाविधि परदारा न गन्तव्याः पुरुषेण विपश्चिता
इष्टापूर्तायुषां हन्त्री परदारगतिर् नृणाम् नहीदृशम् अनायुष्यं लोके किंचन विद्यते
यादृशं पुरुषस्येह परदाराभिमर्शनम् देवाग्निपितृकार्याणि तथा गुर्वभिवादनम्
कुर्वीत सम्यग् आचम्य तद्वद् अन्नभुजिक्रियाम् अफेनशब्दगन्धाभिर् अद्भिर् अच्छाभिर् आदरात्
आचामेच् चैव तद्वच् च प्राङ्मुखोदङ्मुखो ऽपि वा अन्तर्जलाद् आवसथाद् वल्मीकान् मूषिकास्थलात्
कृतशौचावशिष्टाश् च वर्जयेत् पञ्च वै मृदः प्रक्षाल्य हस्तौ पादौ च समभ्युक्ष्य समाहितः
अन्तर्जानुस् तथाचामेत् त्रिश् चतुर् वापि वै नरः परिमृज्य द्विर् आवर्त्य खानि मूर्धानम् एव च
सम्यग् आचम्य तोयेन क्रियां कुर्वीत वै शुचिः क्षुते ऽवलीढे वाते च तथा निष्ठीवनादिषु
कुर्याद् आचमनं स्पर्शे वास्पृष्टस्यार्कदर्शनम् कुर्वीतालम्भनं चापि दक्षिणश्रवणस्य च
यथाविभवतो ह्य् एतत् पूर्वाभावे ततः परम् न विद्यमाने पूर्वोक्त उत्तरप्राप्तिर् इष्यते
न कुर्याद् दन्तसंघर्षं नात्मनो देहताडनम् स्वापे ऽध्वनि तथा भुञ्जन् स्वाध्यायं च विवर्जयेत्
संध्यायां मैथुनं चापि तथा प्रस्थानम् एव च तथापराह्णे कुर्वीत श्रद्धया पितृतर्पणम्
शिरःस्नानं च कुर्वीत दैवं पित्र्यम् अथापि च प्राङ्मुखोदङ्मुखो वापि श्मश्रुकर्म च कारयेत्
व्यङ्गिनीं वर्जयेत् कन्यां कुलजां वाप्य् अरोगिणीम् उद्वहेत् पितृमात्रोश् च सप्तमीं पञ्चमीं तथा
रक्षेद् दारांस् त्यजेद् ईर्ष्यां तथाह्नि स्वप्नमैथुने परोपतापकं कर्म जन्तुपीडां च सर्वदा
उदक्या सर्ववर्णानां वर्ज्या रात्रिचतुष्टयम् स्त्रीजन्मपरिहारार्थं पञ्चमीं चापि वर्जयेत्
ततः षष्ठ्यां व्रजेद् रात्र्यां ज्येष्ठयुग्मासु रात्रिषु युग्मासु पुत्रा जायन्ते स्त्रियो ऽयुग्मासु रात्रिषु
विधर्मिणो वै पर्वादौ संध्याकालेषु षण्ढकाः क्षुरकर्मणि रिक्तां वै वर्जयीत विचक्षणः
ब्रुवताम् अविनीतानां न श्रोतव्यं कदाचन न चोत्कृष्टासनं देयम् अनुत्कृष्टस्य चादरात्
क्षुरकर्मणि चान्ते च स्त्रीसंभोगे च भो द्विजाः स्नायीत चैलवान् प्राज्ञः कटभूमिम् उपेत्य च
देववेदद्विजातीनां साधुसत्यमहात्मनाम् गुरोः पतिव्रतानां च ब्रह्मयज्ञतपस्विनाम्