विद्याधिकं गुरुं चैव बुधः कुर्यात् प्रदक्षिणम् उपानद्वस्त्रमाल्यादि धृतम् अन्यैर् न धारयेत्
चतुर्दश्यां तथाष्टम्यां पञ्चदश्यां च पर्वसु तैलाभ्यङ्गं तथा भोगं योषितश् च विवर्जयेत्
नोत्क्षिप्तबाहुजङ्घश् च प्राज्ञस् तिष्ठेत् कदाचन न चापि विक्षिपेत् पादौ पादं पादेन नाक्रमेत्
पुंश्चल्याः कृतकार्यस्य बालस्य पतितस्य च मर्माभिघातम् आक्रोशं पैशुन्यं च विवर्जयेत्
दम्भाभिमानं तैक्ष्ण्यं च न कुर्वीत विचक्षणः मूर्खोन्मत्तव्यसनिनो विरूपान् अपि वा तथा
न्यूनाङ्गांश् चाधनांश् चैव नोपहासेन दूषयेत् परस्य दण्डं नोद्यच्छेच् छिक्षार्थं शिष्यपुत्रयोः
तद्वन् नोपविशेत् प्राज्ञः पादेनाकृष्य चासनम् संयावं कृशरं मांसं नात्मार्थम् उपसाधयेत्
सायं प्रातश् च भोक्तव्यं कृत्वा चातिथिपूजनम् प्राङ्मुखोदङ्मुखो वापि वाग्यतो दन्तधावनम्
कुर्वीत सततं विप्रा वर्जयेद् वर्ज्यवीरुधम् नोदक्शिराः स्वपेज् जातु न च प्रत्यक्शिरा नरः
शिरस् त्व् आगस्त्याम् आधाय शयीताथ पुरंदरीम् न तु गन्धवतीष्व् अप्सु शयीत न तथोषसि
उपरागे परं स्नानम् ऋते दिनम् उदाहृतम् अपमृज्यान् न वस्त्रान्तैर् गात्राण्य् अम्बरपाणिभिः
न चावधूनयेत् केशान् वाससी न च निर्धुनेत् अनुलेपनम् आदद्यान् नास्नातः कर्हिचिद् बुधः
न चापि रक्तवासाः स्याच् चित्रासितधरो ऽपि वा न च कुर्याद् विपर्यासं वाससोर् नापि भूषयोः
वर्ज्यं च विदशं वस्त्रम् अत्यन्तोपहतं च यत् कीटकेशावपन्नं च तथा श्वभिर् अवेक्षितम्
अवलीढं शुना चैव सारोद्धरणदूषितम् पृष्ठमांसं वृथामांसं वर्ज्यमांसं च वर्जयेत्
न भक्षयेच् च सततं प्रत्यक्षं लवणं नरः वर्ज्यं चिरोषितं विप्राः शुष्कं पर्युषितं च यत्
पिष्टशाकेक्षुपयसां विकारा द्विजसत्तमाः तथा मांसविकाराश् च नैव वर्ज्याश् चिरोषिताः
उदयास्तमने भानोः शयनं च विवर्जयेत् नास्नातो नैव संविष्टो न चैवान्यमना नरः
न चैव शयने नोर्व्याम् उपविष्टो न शब्दकृत् प्रेष्याणाम् अप्रदायाथ न भुञ्जीत कदाचन
भुञ्जीत पुरुषः स्नातः सायंप्रातर् यथाविधि परदारा न गन्तव्याः पुरुषेण विपश्चिता
इष्टापूर्तायुषां हन्त्री परदारगतिर् नृणाम् नहीदृशम् अनायुष्यं लोके किंचन विद्यते
यादृशं पुरुषस्येह परदाराभिमर्शनम् देवाग्निपितृकार्याणि तथा गुर्वभिवादनम्
कुर्वीत सम्यग् आचम्य तद्वद् अन्नभुजिक्रियाम् अफेनशब्दगन्धाभिर् अद्भिर् अच्छाभिर् आदरात्
आचामेच् चैव तद्वच् च प्राङ्मुखोदङ्मुखो ऽपि वा अन्तर्जलाद् आवसथाद् वल्मीकान् मूषिकास्थलात्
कृतशौचावशिष्टाश् च वर्जयेत् पञ्च वै मृदः प्रक्षाल्य हस्तौ पादौ च समभ्युक्ष्य समाहितः
अन्तर्जानुस् तथाचामेत् त्रिश् चतुर् वापि वै नरः परिमृज्य द्विर् आवर्त्य खानि मूर्धानम् एव च
सम्यग् आचम्य तोयेन क्रियां कुर्वीत वै शुचिः क्षुते ऽवलीढे वाते च तथा निष्ठीवनादिषु
कुर्याद् आचमनं स्पर्शे वास्पृष्टस्यार्कदर्शनम् कुर्वीतालम्भनं चापि दक्षिणश्रवणस्य च
यथाविभवतो ह्य् एतत् पूर्वाभावे ततः परम् न विद्यमाने पूर्वोक्त उत्तरप्राप्तिर् इष्यते
न कुर्याद् दन्तसंघर्षं नात्मनो देहताडनम् स्वापे ऽध्वनि तथा भुञ्जन् स्वाध्यायं च विवर्जयेत्