पादेनाप्य् अस्य पारत्र्यं कुर्याच् छ्रेयः स्वम् आत्मवान् अर्धेन चात्मभरणं नित्यनैमित्तिकानि च
पादेनैव तथाप्य् अस्य मूलभूतं विवर्धयेत् एवम् आचरतो विप्रा अर्थः साफल्यम् ऋच्छति
तद्वत् पापनिषेधार्थं धर्मः कार्यो विपश्चिता परत्रार्थस् तथैवान्यः कार्यो ऽत्रैव फलप्रदः
प्रत्यवायभयात् कामस् तथान्यश् चाविरोधवान् द्विधा कामो ऽपि रचितस् त्रिवर्गायाविरोधकृत्
परस्परानुबन्धांश् च सर्वान् एतान् विचिन्तयेत् विपरीतानुबन्धांश् च बुध्यध्वं तान् द्विजोत्तमाः
धर्मो धर्मानुबन्धार्थो धर्मो नात्मार्थपीडकः उभाभ्यां च द्विधा कामं तेन तौ च द्विधा पुनः
ब्राह्मे मुहूर्ते बुध्येत धर्मार्थाव् अनुचिन्तयेत् समुत्थाय तथाचम्य प्रस्नातो नियतः शुचिः
पूर्वां संध्यां सनक्षत्रां पश्चिमां सदिवाकराम् उपासीत यथान्यायं नैनां जह्याद् अनापदि
असत्प्रलापम् अनृतं वाक्पारुष्यं च वर्जयेत् असच्छास्त्रम् असद्वादम् असत्सेवां च वै द्विजाः
सायंप्रातस् तथा होमं कुर्वीत नियतात्मवान् नोदयास्तमने चैवम् उदीक्षेत विवस्वतः
केशप्रसाधनादर्शदन्तधावनम् अञ्जनम् पूर्वाह्ण एव कार्याणि देवतानां च तर्पणम्
ग्रामावसथतीर्थानां क्षेत्राणां चैव वर्त्मनि न विण्मूत्रम् अनुष्ठेयं न च कृष्टे न गोव्रजे
नग्नां परस्त्रियं नेक्षेन् न पश्येद् आत्मनः शकृत् उदक्यादर्शनस्पर्शम् एवं संभाषणं तथा
नाप्सु मूत्रं पुरीषं वा मैथुनं वा समाचरेत् नाधितिष्ठेच् छकृन्मूत्रे केशभस्मसपालिकाः
तुषाङ्गारविशीर्णानि रज्जुवस्त्रादिकानि च नाधितिष्ठेत् तथा प्राज्ञः पथि वस्त्राणि वा भुवि
पितृदेवमनुष्याणां भूतानां च तथार्चनम् कृत्वा विभवतः पश्चाद् गृहस्थो भोक्तुम् अर्हति
प्राङ्मुखोदङ्मुखो वापि स्वाचान्तो वाग्यतः शुचिः भुञ्जीत चान्नं तच्चित्तो ह्य् अन्तर्जानुः सदा नरः
उपघातम् ऋते दोषान् नान्नस्योदीरयेद् बुधः प्रत्यक्षलवणं वर्ज्यम् अन्नम् उच्छिष्टम् एव च
न गच्छन् न च तिष्ठन् वै विण्मूत्रोत्सर्गम् आत्मवान् कुर्वीत चैवम् उच्छिष्टं न किंचिद् अपि भक्षयेत्
उच्छिष्टो नालपेत् किंचित् स्वाध्यायं च विवर्जयेत् न पश्येच् च रविं चेन्दुं नक्षत्राणि च कामतः
भिन्नासनं च शय्यां च भाजनं च विवर्जयेत् गुरूणाम् आसनं देयम् अभ्युत्थानादिसत्कृतम्
अनुकूलं तथालापम् अभिकुर्वीत बुद्धिमान् तत्रानुगमनं कुर्यात् प्रतिकूलं न संचरेत्
नैकवस्त्रश् च भुञ्जीत न कुर्याद् देवतार्चनम् नावाहयेद् द्विजान् अग्नौ होमं कुर्वीत बुद्धिमान्
न स्नायीत नरो नग्नो न शयीत कदाचन न पाणिभ्याम् उभाभ्यां तु कण्डूयेत शिरस् तथा
न चाभीक्ष्णं शिरःस्नानं कार्यं निष्कारणं बुधैः शिरःस्नातश् च तैलेन नाङ्गं किंचिद् उपस्पृशेत्
अनध्यायेषु सर्वेषु स्वाध्यायं च विवर्जयेत् ब्राह्मणानलगोसूर्यान् नावमन्येत् कदाचन
उदङ्मुखो दिवा रात्राव् उत्सर्गं दक्षिणामुखः आबाधासु यथाकामं कुर्यान् मूत्रपुरीषयोः
दुष्कृतं न गुरोर् ब्रूयात् क्रुद्धं चैनं प्रसादयेत् परिवादं न शृणुयाद् अन्येषाम् अपि कुर्वताम्
पन्था देयो ब्राह्मणानां राज्ञो दुःखातुरस्य च विद्याधिकस्य गर्भिण्या रोगार्तस्य महीयतः
मूकान्धबधिराणां च मत्तस्योन्मत्तकस्य च देवालयं चैद्यतरुं तथैव च चतुष्पथम्