एवं सम्यग् गृहस्थेन देवताः पितरस् तथा संपूज्या हव्यकव्याभ्याम् अन्नेनातिथिबान्धवाः
भूतानि भृत्याः सकलाः पशुपक्षिपिपीलिकाः भिक्षवो याचमानाश् च ये चान्ये पान्थका गृहे
सदाचाररता विप्राः साधुना गृहमेधिना पापं भुङ्क्ते समुल्लङ्घ्य नित्यनैमित्तिकीः क्रियाः
कथितं भवता विप्र नित्यनैमित्तिकं च यत् नित्यं नैमित्तिकं काम्यं त्रिविधं कर्म पौरुषम्
सदाचारं मुने श्रोतुम् इच्छामो वदतस् तव यं कुर्वन् सुखम् आप्नोति परत्रेह च मानवः
गृहस्थेन सदा कार्यम् आचारपरिरक्षणम् न ह्य् आचारविहीनस्य भद्रम् अत्र परत्र वा
यज्ञदानतपांसीह पुरुषस्य न भूतये भवन्ति यः सदाचारं समुल्लङ्घ्य प्रवर्तते
दुराचारो हि पुरुषो नेहायुर् विन्दते महत् कार्यो धर्मः सदाचार आचारस्यैव लक्षणम्
तस्य स्वरूपं वक्ष्यामि सदाचारस्य भो द्विजाः आत्मनैकमना भूत्वा तथैव परिपालयेत्
त्रिवर्गसाधने यत्नः कर्तव्यो गृहमेधिना तत्संसिद्धौ गृहस्थस्य सिद्धिर् अत्र परत्र च
पादेनाप्य् अस्य पारत्र्यं कुर्याच् छ्रेयः स्वम् आत्मवान् अर्धेन चात्मभरणं नित्यनैमित्तिकानि च
पादेनैव तथाप्य् अस्य मूलभूतं विवर्धयेत् एवम् आचरतो विप्रा अर्थः साफल्यम् ऋच्छति
तद्वत् पापनिषेधार्थं धर्मः कार्यो विपश्चिता परत्रार्थस् तथैवान्यः कार्यो ऽत्रैव फलप्रदः
प्रत्यवायभयात् कामस् तथान्यश् चाविरोधवान् द्विधा कामो ऽपि रचितस् त्रिवर्गायाविरोधकृत्
परस्परानुबन्धांश् च सर्वान् एतान् विचिन्तयेत् विपरीतानुबन्धांश् च बुध्यध्वं तान् द्विजोत्तमाः
धर्मो धर्मानुबन्धार्थो धर्मो नात्मार्थपीडकः उभाभ्यां च द्विधा कामं तेन तौ च द्विधा पुनः
ब्राह्मे मुहूर्ते बुध्येत धर्मार्थाव् अनुचिन्तयेत् समुत्थाय तथाचम्य प्रस्नातो नियतः शुचिः
पूर्वां संध्यां सनक्षत्रां पश्चिमां सदिवाकराम् उपासीत यथान्यायं नैनां जह्याद् अनापदि
असत्प्रलापम् अनृतं वाक्पारुष्यं च वर्जयेत् असच्छास्त्रम् असद्वादम् असत्सेवां च वै द्विजाः
सायंप्रातस् तथा होमं कुर्वीत नियतात्मवान् नोदयास्तमने चैवम् उदीक्षेत विवस्वतः
केशप्रसाधनादर्शदन्तधावनम् अञ्जनम् पूर्वाह्ण एव कार्याणि देवतानां च तर्पणम्
ग्रामावसथतीर्थानां क्षेत्राणां चैव वर्त्मनि न विण्मूत्रम् अनुष्ठेयं न च कृष्टे न गोव्रजे
नग्नां परस्त्रियं नेक्षेन् न पश्येद् आत्मनः शकृत् उदक्यादर्शनस्पर्शम् एवं संभाषणं तथा
नाप्सु मूत्रं पुरीषं वा मैथुनं वा समाचरेत् नाधितिष्ठेच् छकृन्मूत्रे केशभस्मसपालिकाः
तुषाङ्गारविशीर्णानि रज्जुवस्त्रादिकानि च नाधितिष्ठेत् तथा प्राज्ञः पथि वस्त्राणि वा भुवि
पितृदेवमनुष्याणां भूतानां च तथार्चनम् कृत्वा विभवतः पश्चाद् गृहस्थो भोक्तुम् अर्हति
प्राङ्मुखोदङ्मुखो वापि स्वाचान्तो वाग्यतः शुचिः भुञ्जीत चान्नं तच्चित्तो ह्य् अन्तर्जानुः सदा नरः
उपघातम् ऋते दोषान् नान्नस्योदीरयेद् बुधः प्रत्यक्षलवणं वर्ज्यम् अन्नम् उच्छिष्टम् एव च
न गच्छन् न च तिष्ठन् वै विण्मूत्रोत्सर्गम् आत्मवान् कुर्वीत चैवम् उच्छिष्टं न किंचिद् अपि भक्षयेत्
उच्छिष्टो नालपेत् किंचित् स्वाध्यायं च विवर्जयेत् न पश्येच् च रविं चेन्दुं नक्षत्राणि च कामतः