टिट्टिभान् सार्धजम्बूकान् व्याघ्र-ऋक्षतरक्षुकान् एतान् अन्यांश् च संदुष्टान् यो भक्षयति दुर्मतिः
स महापापकारी तु रौरवं नरकं व्रजेत् पितृष्व् एतांस् तु यो दद्यात् पापात्मा गर्हितामिषान्
स स्वर्गस्थान् अपि पितॄन् नरके पातयिष्यति कुसुम्भशाकं जम्बीरं सिग्रुकं कोविदारकम्
पिण्याकं विप्रुषं चैव मसूरं गृञ्जनं शणम् कोद्रवं कोकिलाक्षं च चुक्रं कम्बुकपद्मकम्
चकोरश्येनमांसं च वर्तुलालाबुतालिनीम् फलं तालतरूणां च भुक्त्या नरकम् ऋच्छति
दत्त्वा पितृषु तैः सार्धं व्रजेत् पूयवहं नरः तस्मात् सर्वप्रयत्नेन नाहरेत् तु विचक्षणः
निषिद्धानि वराहेण स्वयं पित्रर्थम् आदरात् वरम् एवात्ममांसस्य भक्षणं मुनयः कृतम्
न त्व् एव हि निषिद्धानाम् आदानं पुंभिर् आदरात् अज्ञानाद् वा प्रमादाद् वा सकृद् एतानि च द्विजाः
भक्षितानि निषिद्धानि प्रायश्चित्तं ततश् चरेत् फलमूलदधिक्षीरतक्रगोमूत्रयावकैः
भोज्यान्नभोज्यसंभुक्ते प्रत्येकं दिनसप्तकम् एवं निषिद्धाचरणे कृते सकृद् अपि द्विजैः
शुद्धिं नेयं शरीरं तु विष्णुभक्तैर् विशेषतः निषिद्धं वर्जयेद् द्रव्यं यथोक्तं च द्विजोत्तमाः
समाहृत्य ततः श्राद्धं कर्तव्यं निजशक्तितः एवं विधानतः श्राद्धं कृत्वा स्वविभवोचितम् आब्रह्मस्तम्बपर्यन्तं जगत् प्रीणाति मानवः
पिता जीवति यस्याथ मृतौ द्वौ पितरौ पितुः कथं श्राद्धं हि कर्तव्यम् एतद् विस्तरशो वद
यस्मै दद्यात् पिता श्राद्धं तस्मै दद्यात् सुतः स्वयम् एवं न हीयते धर्मो लौकिको वैदिकस् तथा
मृतः पिता जीवति च यस्य ब्रह्मन् पितामहः स हि श्राद्धं कथं कुर्याद् एतत् त्वं वक्तुम् अर्हसि
पितुः पिण्डं प्रदद्याच् च भोजयेच् च पितामहम् प्रपितामहस्य पिण्डं वै ह्य् अयं शास्त्रेषु निर्णयः
मृतेषु पिण्डं दातव्यं जीवन्तं चापि भोजयेत् सपिण्डीकरणं नास्ति न च पार्वणम् इष्यते
आचारम् आचरेद् यस् तु पितृमेधाश्रितं नरः आयुषा धनपुत्रैश् च वर्धत्य् आशु न संशयः
पितृमेधाध्यायम् इमं श्राद्धकालेषु यः पठेत् तद् अन्नम् अस्य पितरो ऽश्नन्ति च त्रियुगं द्विजाः
एवं मयोक्तः पितृमेधकल्पः पापापहः पुण्यविवर्धनश् च श्रोतव्य एष प्रयतैर् नरैश् च श्राद्धेषु चैवाप्य् अनुकीर्तयेत
एवं सम्यग् गृहस्थेन देवताः पितरस् तथा संपूज्या हव्यकव्याभ्याम् अन्नेनातिथिबान्धवाः
भूतानि भृत्याः सकलाः पशुपक्षिपिपीलिकाः भिक्षवो याचमानाश् च ये चान्ये पान्थका गृहे
सदाचाररता विप्राः साधुना गृहमेधिना पापं भुङ्क्ते समुल्लङ्घ्य नित्यनैमित्तिकीः क्रियाः
कथितं भवता विप्र नित्यनैमित्तिकं च यत् नित्यं नैमित्तिकं काम्यं त्रिविधं कर्म पौरुषम्
सदाचारं मुने श्रोतुम् इच्छामो वदतस् तव यं कुर्वन् सुखम् आप्नोति परत्रेह च मानवः
गृहस्थेन सदा कार्यम् आचारपरिरक्षणम् न ह्य् आचारविहीनस्य भद्रम् अत्र परत्र वा
यज्ञदानतपांसीह पुरुषस्य न भूतये भवन्ति यः सदाचारं समुल्लङ्घ्य प्रवर्तते
दुराचारो हि पुरुषो नेहायुर् विन्दते महत् कार्यो धर्मः सदाचार आचारस्यैव लक्षणम्
तस्य स्वरूपं वक्ष्यामि सदाचारस्य भो द्विजाः आत्मनैकमना भूत्वा तथैव परिपालयेत्
त्रिवर्गसाधने यत्नः कर्तव्यो गृहमेधिना तत्संसिद्धौ गृहस्थस्य सिद्धिर् अत्र परत्र च