ईषदम्लकटून्य् एव देयानि श्राद्धकर्मणि अत्यम्लं चातिलवणम् अतिरिक्तकटूनि च
आसुराणीह भोज्यानि तान्य् अतो दूरतस् त्यजेत् मृष्टस्निग्धानि यानि स्युर् ईषत्कट्वम्लकानि च
स्वादूनि देवभोज्यानि तानि श्राद्धे नियोजयेत् छागमांसं वार्तिकं च तैत्तिरं शशकामिषम्
शिवालावकराजीवमांसं श्राद्धे नियोजयेत् वाघ्रीणसं रक्तशिवं लोहं शल्कसमन्वितम्
सिंहतुण्डं च खड्गं च श्राद्धे योज्यं तथोच्यते यद् अप्य् उक्तं हि मनुना रोहितं प्रतियोजयेत्
योक्तव्यं हव्यकव्येषु तथा न विप्रयोजयेत् एवम् उक्तं मया विप्रा वाराहेणावलोकितम्
मया निषिद्धं भुञ्जानो रौरवं नरकं व्रजेत् एतानि च निषिद्धानि वाराहेण तपोधनाः
अभक्ष्याणि द्विजातीनां न देयानि पितृष्व् अपि रोहितं शूकरं कूर्मं गोधाहंसं च वर्जयेत्
चक्रवाकं च मद्गुं च शल्कहीनांश् च मत्स्यकान् कुररं च निरस्थिं च वासहातं च कुक्कुटान्
कलविङ्कमयूरांश् च भारद्वाजांश् च शार्ङ्गकान् नकुलोलूकमार्जारांल् लोपान् अन्यान् सुदुर्ग्रहान्
टिट्टिभान् सार्धजम्बूकान् व्याघ्र-ऋक्षतरक्षुकान् एतान् अन्यांश् च संदुष्टान् यो भक्षयति दुर्मतिः
स महापापकारी तु रौरवं नरकं व्रजेत् पितृष्व् एतांस् तु यो दद्यात् पापात्मा गर्हितामिषान्
स स्वर्गस्थान् अपि पितॄन् नरके पातयिष्यति कुसुम्भशाकं जम्बीरं सिग्रुकं कोविदारकम्
पिण्याकं विप्रुषं चैव मसूरं गृञ्जनं शणम् कोद्रवं कोकिलाक्षं च चुक्रं कम्बुकपद्मकम्
चकोरश्येनमांसं च वर्तुलालाबुतालिनीम् फलं तालतरूणां च भुक्त्या नरकम् ऋच्छति
दत्त्वा पितृषु तैः सार्धं व्रजेत् पूयवहं नरः तस्मात् सर्वप्रयत्नेन नाहरेत् तु विचक्षणः
निषिद्धानि वराहेण स्वयं पित्रर्थम् आदरात् वरम् एवात्ममांसस्य भक्षणं मुनयः कृतम्
न त्व् एव हि निषिद्धानाम् आदानं पुंभिर् आदरात् अज्ञानाद् वा प्रमादाद् वा सकृद् एतानि च द्विजाः
भक्षितानि निषिद्धानि प्रायश्चित्तं ततश् चरेत् फलमूलदधिक्षीरतक्रगोमूत्रयावकैः
भोज्यान्नभोज्यसंभुक्ते प्रत्येकं दिनसप्तकम् एवं निषिद्धाचरणे कृते सकृद् अपि द्विजैः
शुद्धिं नेयं शरीरं तु विष्णुभक्तैर् विशेषतः निषिद्धं वर्जयेद् द्रव्यं यथोक्तं च द्विजोत्तमाः
समाहृत्य ततः श्राद्धं कर्तव्यं निजशक्तितः एवं विधानतः श्राद्धं कृत्वा स्वविभवोचितम् आब्रह्मस्तम्बपर्यन्तं जगत् प्रीणाति मानवः
पिता जीवति यस्याथ मृतौ द्वौ पितरौ पितुः कथं श्राद्धं हि कर्तव्यम् एतद् विस्तरशो वद
यस्मै दद्यात् पिता श्राद्धं तस्मै दद्यात् सुतः स्वयम् एवं न हीयते धर्मो लौकिको वैदिकस् तथा
मृतः पिता जीवति च यस्य ब्रह्मन् पितामहः स हि श्राद्धं कथं कुर्याद् एतत् त्वं वक्तुम् अर्हसि
पितुः पिण्डं प्रदद्याच् च भोजयेच् च पितामहम् प्रपितामहस्य पिण्डं वै ह्य् अयं शास्त्रेषु निर्णयः
मृतेषु पिण्डं दातव्यं जीवन्तं चापि भोजयेत् सपिण्डीकरणं नास्ति न च पार्वणम् इष्यते
आचारम् आचरेद् यस् तु पितृमेधाश्रितं नरः आयुषा धनपुत्रैश् च वर्धत्य् आशु न संशयः
पितृमेधाध्यायम् इमं श्राद्धकालेषु यः पठेत् तद् अन्नम् अस्य पितरो ऽश्नन्ति च त्रियुगं द्विजाः
एवं मयोक्तः पितृमेधकल्पः पापापहः पुण्यविवर्धनश् च श्रोतव्य एष प्रयतैर् नरैश् च श्राद्धेषु चैवाप्य् अनुकीर्तयेत