तस्माच् छ्राद्धं तथा कार्यं यथोक्तम् ऋषिभिः पुरा अन्यथा तु भवेद् दोषः पितॄणां नोपतिष्ठति
यवैर् व्रीहितिलैर् माषैर् गोधूमैश् चणकैस् तथा संतर्पयेत् पितॄन् मुद्गैः श्यामाकैः सर्षपद्रवैः
नीवारैर् हस्तिश्यामाकैः प्रियङ्गुभिस् तथार्घयेत् प्रसातिकां सतूलिकां दद्याच् छ्राद्धे विचक्षणः
आम्रम् आम्रातकं बिल्वं दाडिमं बीजपूरकम् प्राचीनामलकं क्षीरं नारिकेलं परूषकम्
नारङ्गं च सखर्जूरं द्राक्षानीलकपित्थकम् पटोलं च प्रियालं च कर्कन्धूबदराणि च
विकङ्कतं वत्सकं च कस्त्वारुर् वारकान् अपि एतानि फलजातानि श्राद्धे देयानि यत्नतः
गुडशर्करमत्स्यण्डी देयं फाणितमूर्मुरम् गव्यं पयो दधि घृतं तैलं च तिलसंभवम्
सैन्धवं सागरोत्थं च लवणं सारसं तथा निवेदयेच् छुचीन् गन्धांश् चन्दनागुरुकुङ्कुमान्
कालशाकं तन्दुलीयं वास्तुकं मूलकं तथा शाकम् आरण्यकं चापि दद्यात् पुष्पाण्य् अमूनि च
जातिचम्पकलोध्राश् च मल्लिकाबाणबर्बरी वृन्ताशोकाटरूषं च तुलसी तिलकं तथा
पावन्तीं शतपत्त्रां च गन्धशेफालिकाम् अपि कुब्जकं तगरं चैव मृगम् आरण्यकेतकीम्
यूथिकाम् अतिमुक्तं च श्राद्धयोग्यानि भो द्विजाः कमलं कुमुदं पद्मं पुण्डरीकं च यत्नतः
इन्दीवरं कोकनदं कह्लारं च नियोजयेत् कुष्ठं मांसी वालकं च कुक्कुटी जातिपत्त्रकम्
नलिकोशीरमुस्तं च ग्रन्थिपर्णी च सुन्दरी पुनर् अप्य् एवमादीनि गन्धयोग्यानि चक्षते
गुग्गुलुं चन्दनं चैव श्रीवासम् अगुरुं तथा धूपानि पितृयोग्यानि ऋषिगुग्गुलम् एव च
राजमाषांश् च चणकान् मसूरान् कोरदूषकान् विप्रुषान् मर्कटांश् चैव कोद्रवांश् चैव वर्जयेत्
माहिषं चामरं मार्गम् आविकैकशफोद्भवम् स्त्रैणम् औष्ट्रम् आविकं च दधि क्षीरं घृतं त्यजेत्
तालं वरुणकाकोलौ बहुपत्त्रार्जुनीफलम् जम्बीरं रक्तबिल्वं च शालस्यापि फलं त्यजेत्
मत्स्यसूकरकूर्माश् च गावो वर्ज्या विशेषतः पूतिकं मृगनाभिं च रोचनां पद्मचन्दनम्
कालेयकं तूग्रगन्धं तुरुष्कं चापि वर्जयेत् पालङ्कं च कुमारीं च किरातं पिण्डमूलकम्
गृञ्जनं चुक्रिकां चुक्रं वरुमां चनपत्त्रिकाम् जीवं च शतपुष्पां च नालिकां गन्धशूकरम्
हलभृत्यं सर्षपं च पलाण्डुं लशुनं त्यजेत् मानकन्दं विषकन्दं वज्रकन्दं गदास्थिकम्
पुरुषाल्वं सपिण्डालुं श्राद्धकर्मणि वर्जयेत् अलाबुं तिक्तपर्णां च कूष्माण्डं कटुकत्रयम्
वार्ताकं शिवजातं च लोमशानि वटानि च कालीयं रक्तवाणां च बलाका लकुचं तथा
श्राद्धकर्मणि वर्ज्यानि विभीतकफलं तथा आरनालं च शुक्तं च शीर्णं पर्युषितं तथा
नोग्रगन्धं च दातव्यं कोविदारकशिग्रुकौ अत्यम्लं पिच्छिलं सूक्ष्मं यातयामं च सत्तमाः
न च देयं गतरसं मद्यगन्धं च यद् भवेत् हिङ्गूग्रगन्धं फणिशं भूनिम्बं निम्बराजिके
कुस्तुम्बुरुं कलिङ्गोत्थं वर्जयेद् अम्लवेतसम् दाडिमं मागधीं चैव नागरार्द्रकतित्तिडीः
आम्रातकं जीवकं च तुम्बुरुं च नियोजयेत् पायसं शाल्मलीमुद्गान् मोदकादींश् च भक्तितः
पानकं च रसालं च गोक्षीरं च निवेदयेत् यानि चाभ्यवहार्याणि स्वादुस्निग्धानि भो द्विजाः