आद्वारम् अनुगच्छेच् च आगच्छेद् अनुमोदितः ततो नित्यक्रियां कुर्याद् भोजयेच् च तथातिथीन्
नित्यक्रियां पितॄणां च केचिद् इच्छन्ति सत्तमाः न पितॄणां तथैवान्ये शेषं पूर्ववद् आचरेत्
पृथक्त्वेन वदन्त्य् अन्ये केचित् पूर्वं च पूर्ववत् ततस् तद् अन्नं भुञ्जीत सह भृत्यादिभिर् नरः
एवं कुर्वीत धर्मज्ञः श्राद्धं पित्र्यं समाहितः यथा च विप्रमुख्यानां परितोषो ऽभिजायते
इदानीं संप्रवक्ष्यामि वर्जनीयान् द्विजाधमान् मित्रध्रुक् कुनखी क्लीबः क्षयी शुक्ली वणिक्पथः
श्यावदन्तो ऽथ खल्वाटः काणो ऽन्धो बधिरो जडः मूकः पङ्गुः कुणिः षण्ढो दुश्चर्मा व्यङ्गकेकरौ
कुष्ठी रक्तेक्षणः कुब्जो वामनो विकटो ऽलसः मित्रशत्रुर् दुष्कुलीनः पशुपालो निराकृतिः
परिवित्तिः परिवेत्ता परिवेदनिकासुतः वृषलीपतिस् तत्सुतश् च न भवेच् छ्राद्धभुग् द्विजः
वृषलीपुत्रसंस्कर्ता अनूढो दिधिषूपतिः भृतकाध्यापको यस् तु भृतकाध्यापितश् च यः
सूतकान्नोपजीवी च मृगयुः सोमविक्रयी अभिशस्तस् तथा स्तेनः पतितो वार्द्धुषिः शठः
पिशुनो वेदसंत्यागी दानाग्नित्यागनिष्ठुरः राज्ञः पुरोहितो भृत्यो विद्याहीनो ऽथ मत्सरी
वृद्धद्विड् दुर्धरः क्रूरो मूढो देवलकस् तथा नक्षत्रसूचकश् चैव पर्वकारश् च गर्हितः
अयाज्ययाजकः षण्ढो गर्हिता ये च ये ऽधमाः न ते श्राद्धे नियोक्तव्या दृष्ट्वामी पङ्क्तिदूषकाः
असतां प्रग्रहो यत्र सतां चैवावमानना दण्डो देवकृतस् तत्र सद्यः पतति दारुणः
हित्वागमं सुविहितं बालिशं यस् तु भोजयेत् आदिधर्मं समुत्सृज्य दाता तत्र विनश्यति
यस् त्व् आश्रितं द्विजं त्यक्त्वा अन्यम् आनीय भोजयेत् तन्निःश्वासाग्निनिर्दग्धस् तत्र दाता विनश्यति
वस्त्राभावे क्रिया नास्ति यज्ञा वेदास् तपांसि च तस्माद् वासांसि देयानि श्राद्धकाले विशेषतः
कौशेयं क्षौमकार्पासं दुकूलम् अहतं तथा श्राद्धे त्व् एतानि यो दद्यात् कामान् आप्नोति चोत्तमान्
यथा गोषु प्रभूतासु वत्सो विन्दति मातरम् तथान्नं तत्र विप्राणां जन्तुर् यत्रावतिष्ठते
नामगोत्रं च मन्त्रांश् च दत्तम् अन्नं न यन्ति ते अपि ये निधनं प्राप्तास् तृप्तिस् तान् उपतिष्ठते
देवताभ्यः पितृभ्यश् च महायोगिभ्य एव च नमः स्वाहायै स्वधायै नित्यम् एव भवन्त्व् इति
आद्यावसाने श्राद्धस्य त्रिर् आवृत्त्या जपेत् तदा पिण्डनिर्वपणे वापि जपेद् एवं समाहितः
क्षिप्रम् आयान्ति पितरो राक्षसाः प्रद्रवन्ति च प्रीयन्ते त्रिषु लोकेषु मन्त्रो ऽयं तारयत्य् उत
क्षौमसूत्रं नवं दद्याच् छाणं कार्पासिकं तथा पत्त्रोर्णं पट्टसूत्रं च कौशेयं च विवर्जयेत्
वर्जयेच् चादशं प्राज्ञो यद्यप्य् अव्याहतं भवेत् न प्रीणयन्त्य् अथैतानि दातुश् चाप्य् अनयो भवेत्
न निवेद्यो भवेत् पिण्डः पितॄणां यस् तु जीवति इष्टेनान्नेन भक्ष्येण भोजयेत् तं यथाविधि
पिण्डम् अग्नौ सदा दद्याद् भोगार्थी सततं नरः पत्न्यै दद्यात् प्रजार्थी च मध्यमं मन्त्रपूर्वकम्
उत्तमां द्युतिम् अन्विच्छन् पिण्डं गोषु प्रयच्छति प्रज्ञां चैव यशः कीर्तिम् अप्सु चैव निवेदयेत्
प्रार्थयन् दीर्घम् आयुश् च वायसेभ्यः प्रयच्छति कुमारशालाम् अन्विच्छन् कुक्कुटेभ्यः प्रयच्छति
एके विप्राः पुनः प्राहुः पिण्डोद्धरणम् अग्रतः अनुज्ञातस् तु विप्रैस् तैः कामम् उद्ध्रियताम् इति