मातुलः श्वशुरः श्यालः संबन्धी द्रोणपाठकः मण्डलब्राह्मणो यस् तु पुराणार्थविशारदः
अकल्पः कल्पसंतुष्टः प्रतिग्रहविवर्जितः एते श्राद्धे नियोक्तव्या ब्राह्मणाः पङ्क्तिपावनाः
निमन्त्रयेत पूर्वेद्युः पूर्वोक्तान् द्विजसत्तमान् दैवे नियोगे पित्र्ये च तांस् तथैवोपकल्पयेत्
तैश् च संयमिभिर् भाव्यं यस् तु श्राद्धं करिष्यति श्राद्धं दत्त्वा च भुक्त्वा च मैथुनं यो ऽधिगच्छति
पितरस् तस्य वै मासं तस्मिन् रेतसि शेरते गत्वा च योषितं श्राद्धे यो भुङ्क्ते यस् तु गच्छति
रेतोमूत्रकृताहारास् तं मासं पितरस् तयोः तस्मात् त्व् अप्रथमं कार्यं प्राज्ञेनोपनिमन्त्रणम्
अप्राप्तौ तद्दिने वापि वर्ज्या योषित्प्रसङ्गिनः भिक्षार्थम् आगतांश् चापि कालेन संयतान् यतीन्
भोजयेत् प्रणिपाताद्यैः प्रसाद्य यतमानसः योगिनश् च तदा श्राद्धे भोजनीया विपश्चिता
योगाधारा हि पितरस् तस्मात् तान् पूजयेत् सदा ब्राह्मणानां सहस्राणि एको योगी भवेद् यदि
यजमानं च भोक्तॄंश् च नौर् इवाम्भसि तारयेत् पितृगाथा तथैवात्र गीयते ब्रह्मवादिभिः
या गीता पितृभिः पूर्वम् ऐलस्यासीन् महीपतेः कदा नः संतताव् अग्र्यः कस्यचिद् भविता सुतः
यो योगिभुक्तशेषान् नो भुवि पिण्डान् प्रदास्यति गयायाम् अथवा पिण्डं खड्गमांसं तथा हविः
कालशाकं तिलाज्यं च तृप्तये कृसरं च नः वैश्वदेवं च सौम्यं च खड्गमांसं परं हविः
विषाणवर्जं शिरस आ पादाद् आशिषामहे दद्याच् छ्राद्धं त्रयोदश्यां मघासु च यथाविधि
मधुसर्पिःसमायुक्तं पायसं दक्षिणायने तस्मात् संपूजयेद् भक्त्या स्वपितॄन् विधिवन् नरः
कामान् अभीप्सन् सकलान् पापाद् आत्मविमोचनम् वसून् रुद्रांस् तथादित्यान् नक्षत्रग्रहतारकाः
प्रीणयन्ति मनुष्याणां पितरः श्राद्धतर्पिताः आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च
प्रयच्छन्ति तथा राज्यं पितरः श्राद्धतर्पिताः तथापराह्णः पूर्वाह्णात् पितॄणाम् अतिरिच्यते
संपूज्य स्वागतेनैतान् सदने ऽभ्यागतान् द्विजान् पवित्रपाणिर् आचान्तान् आसनेषूपवेशयेत्
श्राद्धं कृत्वा विधानेन संभोज्य च द्विजोत्तमान् विसर्जयेत् प्रियाण्य् उक्त्वा प्रणिपत्य च भक्तितः
आद्वारम् अनुगच्छेच् च आगच्छेद् अनुमोदितः ततो नित्यक्रियां कुर्याद् भोजयेच् च तथातिथीन्
नित्यक्रियां पितॄणां च केचिद् इच्छन्ति सत्तमाः न पितॄणां तथैवान्ये शेषं पूर्ववद् आचरेत्
पृथक्त्वेन वदन्त्य् अन्ये केचित् पूर्वं च पूर्ववत् ततस् तद् अन्नं भुञ्जीत सह भृत्यादिभिर् नरः
एवं कुर्वीत धर्मज्ञः श्राद्धं पित्र्यं समाहितः यथा च विप्रमुख्यानां परितोषो ऽभिजायते
इदानीं संप्रवक्ष्यामि वर्जनीयान् द्विजाधमान् मित्रध्रुक् कुनखी क्लीबः क्षयी शुक्ली वणिक्पथः
श्यावदन्तो ऽथ खल्वाटः काणो ऽन्धो बधिरो जडः मूकः पङ्गुः कुणिः षण्ढो दुश्चर्मा व्यङ्गकेकरौ
कुष्ठी रक्तेक्षणः कुब्जो वामनो विकटो ऽलसः मित्रशत्रुर् दुष्कुलीनः पशुपालो निराकृतिः
परिवित्तिः परिवेत्ता परिवेदनिकासुतः वृषलीपतिस् तत्सुतश् च न भवेच् छ्राद्धभुग् द्विजः
वृषलीपुत्रसंस्कर्ता अनूढो दिधिषूपतिः भृतकाध्यापको यस् तु भृतकाध्यापितश् च यः
सूतकान्नोपजीवी च मृगयुः सोमविक्रयी अभिशस्तस् तथा स्तेनः पतितो वार्द्धुषिः शठः