ताभिर् आप्यायनं तेषां ये तिर्यक्त्वं कुले गताः ये चादन्ताः कुले बालाः क्रियायोगाद् बहिष्कृताः
विपन्नास् त्व् अनधिकाराः संमार्जितजलाशिनः भुक्त्वा चाचामतां यच् च यज् जलं चाङ्घ्रिशौचजम्
ब्राह्मणानां तथैवान्यत् तेन तृप्तिं प्रयान्ति वै एवं यो यजमानस्य यश् च तेषां द्विजन्मनाम्
कश्चिज् जलान्नविक्षेपः शुचिर् उच्छिष्ट एव वा तेनान्नेन कुले तत्र ये च योन्यन्तरं गताः
प्रयान्त्य् आप्यायनं विप्राः सम्यक् श्राद्धक्रियावताम् अन्यायोपार्जितैर् अर्थैर् यच् छ्राद्धं क्रियते नरैः
तृप्यन्ते ते न चाण्डालपुल्कसाद्यासु योनिषु एवम् आप्यायनं विप्रा बहूनाम् एव बान्धवैः
श्राद्धं कुर्वद्भिर् अत्राम्बुविक्षेपैः संप्रजायते तस्माच् छ्राद्धं नरो भक्त्या शाकेनापि यथाविधि
कुर्वीत कुर्वतः श्राद्धं कुले कश्चिन् न सीदति श्राद्धं देयं तु विप्रेषु संयतेष्व् अग्निहोत्रिषु
अवदातेषु विद्वत्सु श्रोत्रियेषु विशेषतः त्रिणाचिकेतस् त्रिमधुस् त्रिसुपर्णः षडङ्गवित्
मातापितृपरश् चैव स्वस्रीयः सामवेदवित् ऋत्विक्पुरोहिताचार्यम् उपाध्यायं च भोजयेत्
मातुलः श्वशुरः श्यालः संबन्धी द्रोणपाठकः मण्डलब्राह्मणो यस् तु पुराणार्थविशारदः
अकल्पः कल्पसंतुष्टः प्रतिग्रहविवर्जितः एते श्राद्धे नियोक्तव्या ब्राह्मणाः पङ्क्तिपावनाः
निमन्त्रयेत पूर्वेद्युः पूर्वोक्तान् द्विजसत्तमान् दैवे नियोगे पित्र्ये च तांस् तथैवोपकल्पयेत्
तैश् च संयमिभिर् भाव्यं यस् तु श्राद्धं करिष्यति श्राद्धं दत्त्वा च भुक्त्वा च मैथुनं यो ऽधिगच्छति
पितरस् तस्य वै मासं तस्मिन् रेतसि शेरते गत्वा च योषितं श्राद्धे यो भुङ्क्ते यस् तु गच्छति
रेतोमूत्रकृताहारास् तं मासं पितरस् तयोः तस्मात् त्व् अप्रथमं कार्यं प्राज्ञेनोपनिमन्त्रणम्
अप्राप्तौ तद्दिने वापि वर्ज्या योषित्प्रसङ्गिनः भिक्षार्थम् आगतांश् चापि कालेन संयतान् यतीन्
भोजयेत् प्रणिपाताद्यैः प्रसाद्य यतमानसः योगिनश् च तदा श्राद्धे भोजनीया विपश्चिता
योगाधारा हि पितरस् तस्मात् तान् पूजयेत् सदा ब्राह्मणानां सहस्राणि एको योगी भवेद् यदि
यजमानं च भोक्तॄंश् च नौर् इवाम्भसि तारयेत् पितृगाथा तथैवात्र गीयते ब्रह्मवादिभिः
या गीता पितृभिः पूर्वम् ऐलस्यासीन् महीपतेः कदा नः संतताव् अग्र्यः कस्यचिद् भविता सुतः
यो योगिभुक्तशेषान् नो भुवि पिण्डान् प्रदास्यति गयायाम् अथवा पिण्डं खड्गमांसं तथा हविः
कालशाकं तिलाज्यं च तृप्तये कृसरं च नः वैश्वदेवं च सौम्यं च खड्गमांसं परं हविः
विषाणवर्जं शिरस आ पादाद् आशिषामहे दद्याच् छ्राद्धं त्रयोदश्यां मघासु च यथाविधि
मधुसर्पिःसमायुक्तं पायसं दक्षिणायने तस्मात् संपूजयेद् भक्त्या स्वपितॄन् विधिवन् नरः
कामान् अभीप्सन् सकलान् पापाद् आत्मविमोचनम् वसून् रुद्रांस् तथादित्यान् नक्षत्रग्रहतारकाः
प्रीणयन्ति मनुष्याणां पितरः श्राद्धतर्पिताः आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च
प्रयच्छन्ति तथा राज्यं पितरः श्राद्धतर्पिताः तथापराह्णः पूर्वाह्णात् पितॄणाम् अतिरिच्यते
संपूज्य स्वागतेनैतान् सदने ऽभ्यागतान् द्विजान् पवित्रपाणिर् आचान्तान् आसनेषूपवेशयेत्
श्राद्धं कृत्वा विधानेन संभोज्य च द्विजोत्तमान् विसर्जयेत् प्रियाण्य् उक्त्वा प्रणिपत्य च भक्तितः