दशाहे ब्राह्मणः शुद्धो द्वादशाहेन क्षत्रियः वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति
सूतकान्ते गृहे श्राद्धम् एकोद्दिष्टं प्रचक्षते द्वादशे ऽहनि मासे च त्रिपक्षे च ततः परम्
मासि मासि च कर्तव्यं यावत् संवत्सरं द्विजाः तत परतरं कार्यं सपिण्डीकरणं क्रमात्
कृते सपिण्डीकरणे पार्वणं प्रोच्यते पुनः ततः प्रभृति निर्मुक्ताः प्रेतत्वात् पितृतां गताः
अमूर्ता मूर्तिमन्तश् च पितरो द्विविधाः स्मृताः नान्दीमुखास् त्व् अमूर्ताः स्युर् मूर्तिमन्तो ऽथ पार्वणाः एकोद्दिष्टाशिनः प्रेताः पितॄणां निर्णयस् त्रिधा
कथं सपिण्डीकरणं कर्तव्यं द्विजसत्तम प्रेतीभूतस्य विधिवद् ब्रूहि नो वदतां वर
सपिण्डीकरणं विप्राः शृणुध्वं वदतो मम तच् चापि देवरहितम् एकार्घैकपवित्रकम्
नैवाग्नौ करणं तत्र तच् चावाहनवर्जितम् अपसव्यं च तत्रापि भोजयेद् अयुजो द्विजान्
विशेषस् तत्र चान्यो ऽस्ति प्रतिमासक्रियादिकः तं कथ्यमानम् एकाग्राः शृणुध्वं मे द्विजोत्तमाः
तिलगन्धोदकैर् युक्तं तत्र पात्रचतुष्टयम् कुर्यात् पितॄणां त्रितयम् एकं प्रेतस्य च द्विजाः
पात्रत्रये प्रेतपात्राद् अर्घं चैव प्रसेचयेत् ये समाना इति जपन् पूर्ववच् छेषम् आचरेत्
स्त्रीणाम् अप्य् एवम् एव स्याद् एकोद्दिष्टम् उदाहृतम् सपिण्डीकरणं तासां पुत्राभावे न विद्यते
प्रतिसंवत्सरं कार्यम् एकोद्दिष्टं नरैः स्त्रियाः मृताहनि च तत् कार्यं पितॄणां विधिचोदितम्
पुत्राभावे सपिण्डास् तु तदभावे सहोदराः कुर्युर् एतं विधिं सम्यक् पुत्रस्य च सुताः सुताः
कुर्यान् मातामहानां तु पुत्रिकातनयस् तथा द्व्यामुष्यायणसंज्ञास् तु मातामहपितामहान्
पूजयेयुर् यथान्यायं श्राद्धैर् नैमित्तिकैर् अपि सर्वाभावे स्त्रियः कुर्युः स्वभर्तॄणाम् अमन्त्रकम्
तदभावे च नृपतिः कारयेत् त्व् अकुटुम्बिनाम् तज्जातीयैर् नरैः सम्यग् वाहाद्याः सकलाः क्रियाः
सर्वेषाम् एव वर्णानां बान्धवो नृपतिर् यतः एता वः कथिता विप्रा नित्या नैमित्तिकास् तथा
वक्ष्ये श्राद्धाश्रयाम् अन्यां नित्यनैमित्तिकां क्रियाम् दर्शस् तत्र निमित्तं तु विद्याद् इन्दुक्षयान्वितः
नित्यस् तु नियतः कालस् तस्मिन् कुर्याद् यथोदितम् सपिण्डीकरणाद् ऊर्ध्वं पितुर् यः प्रपितामहः
स तु लेपभुजं याति प्रलुप्तः पितृपिण्डतः तेषां हि यश् चतुर्थो ऽन्यः स तु लेपभुजो भवेत्
सो ऽपि संबन्धतो हीनम् उपभोगं प्रपद्यते पिता पितामहश् चैव तथैव प्रपितामहः
पिण्डसंबन्धिनो ह्य् एते विज्ञेयाः पुरुषास् त्रयः लेपसंबन्धिनश् चान्ये पितामहपितामहात्
प्रभृत्युक्तास् त्रयस् तेषां यजमानश् च सप्तमः इत्य् एष मुनिभिः प्रोक्तः संबन्धः साप्तपौरुषः
यजमानात् प्रभृत्य् ऊर्ध्वम् अनुलेपभुजस् तथा ततो ऽन्ये पूर्वजाः सर्वे ये चान्ये नरकौकसः
ये ऽपि तिर्यक्त्वम् आपन्ना ये च भूतादिसंस्थिताः तान् सर्वान् यजमानो वै श्राद्धं कुर्वन् यथाविधि
स समाप्यायते विप्रा येन येन वदामि तत् अन्नप्रकिरणं यत् तु मनुष्यैः क्रियते भुवि
तेन तृप्तिम् उपायान्ति ये पिशाचत्वम् आगताः यद् अम्बु स्नानवस्त्रोत्थं भूमौ पतति भो द्विजाः
तेन ये तरुतां प्राप्तास् तेषां तृप्तिः प्रजायते यास् तु गन्धाम्बुकणिकाः पतन्ति धरणीतले
ताभिर् आप्यायनं तेषां देवत्वं ये कुले गताः उद्धृतेष्व् अथ पिण्डेषु याश् चाम्बुकणिका भुवि