गौरीं वाप्य् उद्वहेत् कन्यां नीलं वा वृषम् उत्सृजेत् कृत्तिकासु पितॄन् अर्च्य स्वर्गम् आप्नोति मानवः
अपत्यकामो रोहिण्यां सौम्ये तेजस्वितां लभेत् शौर्यम् आर्द्रासु चाप्नोति क्षेत्राणि च पुनर्वसौ
पुष्ये तु धनम् अक्षय्यम् आश्लेषे चायुर् उत्तमम् मघासु च प्रजां पुष्टिं सौभाग्यं फाल्गुनीषु च
प्रधानशीलो भवति सापत्यश् चोत्तरासु च प्रयाति श्रेष्ठतां शास्त्रे हस्ते श्राद्धप्रदो नरः
रूपं तेजश् च चित्रासु तथापत्यम् अवाप्नुयात् वाणिज्यलाभदा स्वाती विशाखा पुत्रकामदा
कुर्वन्तां चानुराधासु ता दद्युश् चक्रवर्तिताम् आधिपत्यं च ज्येष्ठासु मूले चारोग्यम् उत्तमम्
आषाढासु यशःप्राप्तिर् उत्तरासु विशोकता श्रवणेन शुभांल् लोकान् धनिष्ठासु धनं महत्
वेदवित्त्वम् अभिजिति भिषक्सिद्धिं च वारुणे अजाविकं प्रौष्ठपद्यां विन्देद् गावस् तथोत्तरे
रेवतीषु तथा कुप्यम् अश्विनीषु तुरंगमान् श्राद्धं कुर्वंस् तथाप्नोति भरणीष्व् आयुर् उत्तमम्
एवं फलम् अवाप्नोति ऋक्षेष्व् एतेषु तत्त्ववित् तस्मात् काम्यानि श्राद्धानि देयानि विधिवद् द्विजाः
कन्याराशिगते सूर्ये फलम् अत्यन्तम् इच्छता यान् यान् कामान् अभिध्यायन् कन्याराशिगते रवौ
श्राद्धं कुर्वन्ति मनुजास् तांस् तान् कामांल् लभन्ति ते नान्दीमुखानां कर्तव्यं कन्याराशिगते रवौ
पौर्णमास्यां तु कर्तव्यं वाराहवचनं यथा दिव्यभौमान्तरिक्षाणि स्थावराणि चराणि च
पिण्डम् इच्छन्ति पितरः कन्याराशिगते रवौ कन्यां गते सवितरि यान्य् अहानि तु षोडश
क्रतुभिस् तानि तुल्यानि देवो नारायणो ऽब्रवीत् राजसूयाश्वमेधाभ्यां य इच्छेद् दुर्लभं फलम्
अप्य् अम्बुशाकमूलाद्यैः पितॄन् कन्यागते ऽर्चयेत् उत्तराहस्तनक्षत्रगते तीक्ष्णांशुमालिनि
यो ऽर्चयेत् स्वपितॄन् भक्त्या तस्य वासस् त्रिविष्टपे हस्तर्क्षगे दिनकरे पितृराजानुशासनात्
तावत् पितृपुरी शून्या यावद् वृश्चिकदर्शनम् वृश्चिके समतिक्रान्ते पितरो दैवतैः सह
निःश्वस्य प्रतिगच्छन्ति शापं दत्त्वा सुदुःसहम् अष्टकासु च कर्तव्यं श्राद्धं मन्वन्तरासु वै
अन्वष्टकासु क्रमशो मातृपूर्वं तद् इष्यते ग्रहणे च व्यतीपाते रविचन्द्रसमागमे
जन्मर्क्षे ग्रहपीडायां श्राद्धं पार्वणम् उच्यते अयनद्वितये श्राद्धं विषुवद्वितये तथा
संक्रान्तिषु च कर्तव्यं श्राद्धं विधिवद् उत्तमम् एषु कार्यं द्विजाः श्राद्धं पिण्डनिर्वापणाद् ऋते
वैशाखस्य तृतीयायां नवम्यां कार्त्तिकस्य च श्राद्धं कार्यं तु शुक्लायां संक्रान्तिविधिना नरैः
त्रयोदश्यां भाद्रपदे माघे चन्द्रक्षये ऽहनि श्राद्धं कार्यं पायसेन दक्षिणायनवच् च तत्
यदा च श्रोत्रियो ऽभ्येति गेहं वेदविद् अग्निमान् तेनैकेन च कर्तव्यं श्राद्धं विधिवद् उत्तमम्
श्राद्धीयद्रव्यसंप्राप्तिर् यदा स्यात् साधुसंमता पार्वणेन विधानेन श्राद्धं कार्यं तथा द्विजैः
प्रतिसंवत्सरं कार्यं मातापित्रोर् मृते ऽहनि पितृव्यस्याप्य् अपुत्रस्य भ्रातुर् ज्येष्ठस्य चैव हि
पार्वणं देवपूर्वं स्याद् एकोद्दिष्टं सुरैर् विना द्वौ दैवे पितृकार्ये त्रीन् एकैकम् उभयत्र वा
मातामहानाम् अप्य् एवं सर्वम् ऊहेन कीर्तितम् प्रेतीभूतस्य सततं भुवि पिण्डं जलं तथा
सतिलं सकुशं दद्याद् बहिर् जलसमीपतः तृतीये ऽह्नि च कर्तव्यं प्रेतास्थिचयनं द्विजैः