ब्राह्मणैः क्षत्रियैर् वैश्यैः श्राद्धं स्ववरणोदितम् कुलधर्मम् अनुतिष्ठद्भिर् दातव्यं मन्त्रपूर्वकम्
स्त्रीभिर् वर्णावरैः शूद्रैर् विप्राणाम् अनुशासनात् अमन्त्रकं विधिपूर्वं वह्नियागविवर्जितम्
पुष्करादिषु तीर्थेषु पुण्येष्व् आयतनेषु च शिखरेषु गिरीन्द्राणां पुण्यदेशेषु भो द्विजाः
सरित्सु पुण्यतोयासु नदेषु च सरःसु च संगमेषु नदीनां च समुद्रेषु च सप्तसु
स्वनुलिप्तेषु गेहेषु स्वेष्व् अनुज्ञापितेषु च दिव्यपादपमूलेषु यज्ञियेषु ह्रदेषु च
श्राद्धम् एतेषु दातव्यं वर्ज्यम् एतेषु चोच्यते किरातेषु कलिङ्गेषु कोङ्कणेषु कृमिष्व् अपि
दशार्णेषु कुमार्येषु तङ्गणेषु क्रथेष्व् अपि सिन्धोर् उत्तरकूलेषु नर्मदायाश् च दक्षिणे
पूर्वेषु करतोयाया न देयं श्राद्धम् उच्यते श्राद्धं देयम् उशन्तीह मासि मास्य् उडुपक्षये
पौर्णमासेषु श्राद्धं च कर्तव्यम् ऋक्षगोचरे नित्यश्राद्धम् अदैवं च मनुष्यैः सह गीयते
नैमित्तिकं सुरैः सार्धं नित्यं नैमित्तिकं तथा काम्यान्य् अन्यानि श्राद्धानि प्रतिसंवत्सरं द्विजैः
वृद्धिश्राद्धं च कर्तव्यं जातकर्मादिकेषु च तत्र युग्मान् द्विजान् आहुर् मन्त्रपूर्वं तु वै द्विजाः
कन्यां गते सवितरि दिनानि दश पञ्च च पूर्वेणैवेह विधिना श्राद्धं तत्र विधीयते
प्रतिपद्धनलाभाय द्वितीया द्विपदप्रदा पुत्रार्थिनी तृतीया तु चतुर्थी शत्रुनाशिनी
श्रियं प्राप्नोति पञ्चम्यां षष्ठ्यां पूज्यो भवेन् नरः गणाधिपत्यं सप्तम्याम् अष्टम्यां बुद्धिम् उत्तमाम्
स्त्रियो नवम्यां प्राप्नोति दशम्यां पूर्णकामताम् वेदांस् तथाप्नुयात् सर्वान् एकादश्यां क्रियापरः
द्वादश्यां जयलाभं च प्राप्नोति पितृपूजकः प्रजावृद्धिं पशुं मेधां स्वातन्त्र्यं पुष्टिम् उत्तमाम्
दीर्घायुर् अथवैश्वर्यं कुर्वाणस् तु त्रयोदशीम् अवाप्नोति न संदेहः श्राद्धं श्रद्धासमन्वितः
यथासंभविनान्नेन श्राद्धं श्रद्धासमन्वितः युवानः पितरो यस्य मृताः शस्त्रेण वा हताः
तेन कार्यं चतुर्दश्यां तेषां तृप्तिम् अभीप्सता श्राद्धं कुर्वन्न् अमावास्यां यत्नेन पुरुषः शुचिः
सर्वान् कामान् अवाप्नोति स्वर्गं चानन्तम् अश्नुते अतःपरं मुनिश्रेष्ठाः शृणुध्वं वदतो मम
पितॄणां प्रीतये यत्र यद् देयं प्रीतिकारिणा मासं तृप्तिः पितॄणां तु हविष्यान्नेन जायते
मासद्वयं मत्स्यमांसैस् तृप्तिं यान्ति पितामहाः त्रीन् मासान् हारिणं मांसं विज्ञेयं पितृतृप्तये
पुष्णाति चतुरो मासाञ् शशस्य पिशितं पितॄन् शाकुनं पञ्च वै मासान् षण् मासाञ् शूकरामिषम्
छागलं सप्त वै मासान् ऐणेयं चाष्टमासकान् करोति तृप्तिं नव वै रुरुमांसं न संशयः
गव्यं मांसं पितृतृप्तिं करोति दशमासिकीम् तथैकादश मासांस् तु औरभ्रं पितृतृप्तिदम्
संवत्सरं तथा गव्यं पयः पायसम् एव च वाध्रीनम् आमिषं लोहं कालशाकं तथा मधु
रोहितामिषम् अन्नं च दत्तान्य् आत्मकुलोद्भवैः अनन्तं वै प्रयच्छन्ति तृप्तियोगं सुतांस् तथा
पितॄणां नात्र संदेहो गयाश्राद्धं च भो द्विजाः यो ददाति गुडोन्मिश्रांस् तिलान् वा श्राद्धकर्मणि
मधु वा मधुमिश्रं वा अक्षयं सर्वम् एव तत् अपि नः स कुले भूयाद् यो नो दद्याज् जलाञ्जलिम्
पायसं मधुसंयुक्तं वर्षासु च मघासु च एष्टव्या बहवः पुत्रा यद्य् एको ऽपि गयां व्रजेत्