स्वाहिपुत्रो ऽभवद् राजा उषद्गुर् वदतां वरः महाक्रतुभिर् ईजे यो विविधैर् भूरिदक्षिणैः
ततः प्रसूतिम् इच्छन् वै उषद्गुः सो ऽग्र्यम् आत्मजम् जज्ञे चित्ररथस् तस्य पुत्रः कर्मभिर् अन्वितः
आसीच् चैत्ररथिर् वीरो यज्वा विपुलदक्षिणः शशबिन्दुः परं वृत्तं राजर्षीणाम् अनुष्ठितः
पृथुश्रवाः पृथुयशा राजासीच् छाशिबिन्दवः शंसन्ति च पुराणज्ञाः पार्थश्रवसम् अन्तरम्
अन्तरस्य सुयज्ञस् तु सुयज्ञतनयो ऽभवत् उषतो यज्ञम् अखिलं स्वधर्मे च कृतादरः
शिनेयुर् अभवत् पुत्र उषतः शत्रुतापनः मरुतस् तस्य तनयो राजर्षिर् अभवन् नृपः
मरुतो ऽलभत ज्येष्ठं सुतं कम्बलबर्हिषम् चचार विपुलं धर्मम् अमर्षात् प्रत्यभाग् अपि
स सत्प्रसूतिम् इच्छन् वै सुतं कम्बलबर्हिषः बभूव रुक्मकवचः शतप्रसवतः सुतः
निहत्य रुक्मकवचः शतं कवचिनां रणे धन्विनां निशितैर् बाणैर् अवाप श्रियम् उत्तमाम्
जज्ञे च रुक्मकवचात् परजित् परवीरहा जज्ञिरे पञ्च पुत्रास् तु महावीर्याः पराजिताः
रुक्मेषुः पृथुरुक्मश् च ज्यामघः पालितो हरिः पालितं च हरिं चैव विदेहेभ्यः पिता ददौ
रुक्मेषुर् अभवद् राजा पृथुरुक्मस्य संश्रयात् ताभ्यां प्रव्राजितो राजा ज्यामघो ऽवसद् आश्रमे
प्रशान्तश् च तदा राजा ब्राह्मणैश् चावबोधितः जगाम धनुर् आदाय देशम् अन्यं ध्वजी रथी
नर्मदाकूलम् एकाकीम् एकलां मृत्तिकावतीम् ऋक्षवन्तं गिरिं जित्वा शुक्तिमत्याम् उवास सः
ज्यामघस्याभवद् भार्या शैब्या बलवती सती अपुत्रो ऽपि स राजा वै नान्यां भार्याम् अविन्दत
तस्यासीद् विजयो युद्धे तत्र कन्याम् अवाप सः भार्याम् उवाच संत्रस्तः स्नुषेति स जनेश्वरः
एतच् छ्रुत्वाब्रवीद् देवी कस्य देव स्नुषेति वै अब्रवीत् तद् उपश्रुत्य ज्यामघो राजसत्तमः
यस् ते जनिष्यते पुत्रस् तस्य भार्योपपादिता
उग्रेण तपसा तस्याः कन्यायाः सा व्यजायत पुत्रं विदर्भं सुभागा शैब्या परिणता सती
राजपुत्र्यां तु विद्वांसौ स्नुषायां क्रथकैशिकौ पश्चाद् विदर्भो ऽजनयच् छूरौ रणविशारदौ
भीमो विदर्भस्य सुतः कुन्तिस् तस्यात्मजो ऽभवत् कुन्तेर् धृष्टः सुतो जज्ञे रणधृष्टः प्रतापवान्
धृष्टस्य जज्ञिरे शूरास् त्रयः परमधार्मिकाः आवन्तश् च दशार्हश् च बली विषहरश् च सः
दशार्हस्य सुतो व्योमा व्योम्नो जीमूत उच्यते जीमूतपुत्रो विकृतिस् तस्य भीमरथः स्मृतः
अथ भीमरथस्यासीत् पुत्रो नवरथस् तथा तस्य चासीद् दशरथः शकुनिस् तस्य चात्मजः
तस्मात् करम्भः कारम्भिर् देवरातो ऽभवन् नृपः देवक्षत्रो ऽभवत् तस्य वृद्धक्षत्रो महायशाः
देवगर्भसमो जज्ञे देवक्षत्रस्य नन्दनः मधूनां वंशकृद् राजा मधुर् मधुरवाग् अपि
मधोर् जज्ञे ऽथ वैदर्भ्यां पुरुद्वान् पुरुषोत्तमः ऐक्ष्वाकी चाभवद् भार्या मधोस् तस्यां व्यजायत
सत्वान् सर्वगुणोपेतः सात्वता कीर्तिवर्धनः इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः युज्यते परमप्रीत्या प्रजावांश् च भवेत् सदा
सत्वतः सत्त्वसंपन्नान् कौशल्या सुषुवे सुतान् भागिनं भजमानं च दिव्यं देवावृधं नृपम्
अन्धकं च महाबाहुं वृष्णिं च यदुनन्दनम् तेषां विसर्गाश् चत्वारो विस्तरेणेह कीर्तिताः