प्रोवाचाथ पितॄन् विष्णुस् तां च कोकां महानदीम् यद् उक्तं तु भवद्भिर् मे सर्वम् एतद् भविष्यति
यमो ऽधिदेवो भवतां सोमः स्वाध्याय ईरितः अधियज्ञस् तथैवाग्निर् भवतां कल्पना त्व् इयम्
अग्निर् वायुश् च सूर्यश् च स्थानं हि भवताम् इति ब्रह्मा विष्णुश् च रुद्रश् च भवताम् अधिपूरुषाः
आदित्या वसवो रुद्रा भवतां मूर्तयस् त्व् इमाः योगिनो योगदेहाश् च योगधाराश् च सुव्रताः
कामतो विचरिष्यध्वं फलदाः सर्वजन्तुषु स्वर्गस्थान् नरकस्थांश् च भूमिस्थांश् च चराचरान्
निजयोगबलेनैवाप्याययिष्यध्वम् उत्तमाः इयम् ऊर्जा शशिसुता कीलालमधुविग्रहा
भविष्यति महाभागा दक्षस्य दुहिता स्वधा तत्रेयं भवतां पत्नी भविष्यति वरानना
कोकानदीति विख्याता गिरिराजसमाश्रिता तीर्थकोटिमहापुण्या मद्रूपपरिपालिता
अस्याम् अद्य प्रभृति वै निवत्स्याम्य् अघनाशकृत् वराहदर्शनं पुण्यं पूजनं भुक्तिमुक्तिदम्
कोकासलिलपानं च महापातकनाशनम् तीर्थेष्व् आप्लवनं पुण्यम् उपवासश् च स्वर्गदः
दानम् अक्षय्यम् उदितं जन्ममृत्युजरापहम् माघे मास्य् असिते पक्षे भवद्भिर् उडुपक्षये
कोकामुखम् उपागम्य स्थातव्यं दिनपञ्चकम् तस्मिन् काले तु यः श्राद्धं पितॄणां निर्वपिष्यति
प्रागुक्तफलभागी स भविष्यति न संशयः एकादशीं द्वादशीं च स्थेयम् अत्र मया सदा
यस् तत्रोपवसेद् धीमान् स प्रागुक्तफलं लभेत् तद् व्रजध्वं महाभागाः स्थानम् इष्टं यथेष्टतः
अहम् अप्य् अत्र वत्स्यामीत्य् उक्त्वा सो ऽन्तरधीयत गते वराहे पितरः कोकाम् आमन्त्र्य ते ययुः
कोकापि तीर्थसहिता संस्थिता गिरिराजनि छाया महीमयी क्रोडी पिण्डप्राशनबृंहिता
गर्भम् आदाय सश्रद्धा वाराहस्यैव सुन्दरी ततो ऽस्याः प्राभवत् पुत्रो भौमस् तु नरकासुरः प्राग्ज्योतिषं च नगरम् अस्य दत्तं च विष्णुना
एवं मयोक्तं वरदस्य विष्णोः कोकामुखे दिव्यवराहरूपम् श्रुत्वा नरस् त्यक्तमलो विपाप्मा दशाश्वमेधेष्टिफलं लभेत
भूयः प्रब्रूहि भगवञ् श्राद्धकल्पं सुविस्तरात् कथं क्व च कदा केषु कैस् तद् ब्रूहि तपोधन
शृणुध्वं मुनिशार्दूलाः श्राद्धकल्पं सुविस्तरात् यथा यत्र यदा येषु यैर् द्रव्यैस् तद् वदाम्य् अहम्
ब्राह्मणैः क्षत्रियैर् वैश्यैः श्राद्धं स्ववरणोदितम् कुलधर्मम् अनुतिष्ठद्भिर् दातव्यं मन्त्रपूर्वकम्
स्त्रीभिर् वर्णावरैः शूद्रैर् विप्राणाम् अनुशासनात् अमन्त्रकं विधिपूर्वं वह्नियागविवर्जितम्
पुष्करादिषु तीर्थेषु पुण्येष्व् आयतनेषु च शिखरेषु गिरीन्द्राणां पुण्यदेशेषु भो द्विजाः
सरित्सु पुण्यतोयासु नदेषु च सरःसु च संगमेषु नदीनां च समुद्रेषु च सप्तसु
स्वनुलिप्तेषु गेहेषु स्वेष्व् अनुज्ञापितेषु च दिव्यपादपमूलेषु यज्ञियेषु ह्रदेषु च
श्राद्धम् एतेषु दातव्यं वर्ज्यम् एतेषु चोच्यते किरातेषु कलिङ्गेषु कोङ्कणेषु कृमिष्व् अपि
दशार्णेषु कुमार्येषु तङ्गणेषु क्रथेष्व् अपि सिन्धोर् उत्तरकूलेषु नर्मदायाश् च दक्षिणे
पूर्वेषु करतोयाया न देयं श्राद्धम् उच्यते श्राद्धं देयम् उशन्तीह मासि मास्य् उडुपक्षये
पौर्णमासेषु श्राद्धं च कर्तव्यम् ऋक्षगोचरे नित्यश्राद्धम् अदैवं च मनुष्यैः सह गीयते
नैमित्तिकं सुरैः सार्धं नित्यं नैमित्तिकं तथा काम्यान्य् अन्यानि श्राद्धानि प्रतिसंवत्सरं द्विजैः