सतिलाम्बु पितृष्व् आदौ दत्त्वा देवेषु साक्षतम् अक्षय्यं नस् त्व् इति पितॄन् प्रीयताम् इति देवताः
प्रीणयित्वा परावृत्य त्रिर् जपेच् चाघमर्षणम् ततो निवृत्य तु जपेद् यन् मे नाम इतीरयन्
गृहान् नः पितरो दत्त धनधान्यप्रपूरितान् अर्घ्यपात्राणि पिण्डानाम् अन्तरे स पवित्रकान्
निक्षिप्योर्जं वहन्तीति कोकातोयम् अथो ऽजपत् हिमक्षीरं मधुतिलान् पितॄणां तर्पणं ददौ
स्वस्तीत्य् उक्ते पैतृकैस् तु सोराह्ने प्नावतर्पयन् रजतं दक्षिणां दत्त्वा विप्रान् देवो गदाधरः
संविभागं मनुष्येभ्यो ददौ स्वद् इति चाब्रुवन् कश्चित् संपन्नम् इत्य् उक्त्वा प्रत्युक्तस् तैर् द्विजोत्तमाः
अभिरम्यताम् इत्य् उवाच प्रोचुस् ते ऽभिरताः स्म वै शिष्टम् अन्नं च पप्रच्छ तैर् इष्टैः सह चोदितः
पाणाव् आदाय तान् विप्रान् कुर्याद् अनुगतस् तदा वाजे वाजे इति पठन् बहिर् वेदि विनिर्गतः
कोटितीर्थजलेनासाव् अपसव्यं समुत्क्षिपन् अलग्नान् विपुलान् वालान् प्रार्थयाम् आस चाशिषम्
दातारो नो ऽभिवर्धन्तां तैस् तथेति समीरितः प्रदक्षिणम् उपावृत्य कृत्वा पादाभिवादनम्
आसनानि ददौ चैषां छादयाम् आस शूकरः विश्राम्यतां प्रविश्याथ पिण्डं जग्राह मध्यमम्
छायामयी मही पत्नी तस्यै पिण्डम् अदात् प्रभुः आधत्त पितरो गर्भम् इत्य् उक्त्वा सापि रूपिणी
पिण्डं गृहीत्वा विप्राणां चक्रे पादाभिवन्दनम् विसर्जनं पितॄणां स कर्तुकामश् च शूकरः
कोका च पितरश् चैव प्रोचुः स्वार्थकरं वचः शप्ताश् च भगवन् पूर्वं दिवस्था हिमभानुना
योगभ्रष्टा भविष्यध्वं सर्व एव दिवश् च्युताः तद् एवं भवता त्राताः प्रविशन्तो रसातलम्
योगभ्रष्टांश् च विश्वेशास् तत्यजुर् योगरक्षिणः तत् ते भूयो ऽभिरक्षन्तु विश्वे देवा हि नः सदा
स्वर्गं यास्यामश् च विभो प्रसादात् तव शूकर सोमो ऽधिदेवो ऽस्माकं च भवत्व् अच्युत योगधृक्
योगाधारस् तथा सोमस् त्रायते न कदाचन दिवि भूमौ सदा वासो भवत्व् अस्मासु योगतः
अन्तरिक्षे च केषांचिन् मासं पुष्टिस् तथास्तु नः ऊर्जा चेयं हि नः पत्नी स्वधानाम्ना तु विश्रुता
भवत्व् एषैव योगाढ्या योगमाता च खेचरी इत्य् एवम् उक्तः पितृभिर् वाराहो भूतभावनः
प्रोवाचाथ पितॄन् विष्णुस् तां च कोकां महानदीम् यद् उक्तं तु भवद्भिर् मे सर्वम् एतद् भविष्यति
यमो ऽधिदेवो भवतां सोमः स्वाध्याय ईरितः अधियज्ञस् तथैवाग्निर् भवतां कल्पना त्व् इयम्
अग्निर् वायुश् च सूर्यश् च स्थानं हि भवताम् इति ब्रह्मा विष्णुश् च रुद्रश् च भवताम् अधिपूरुषाः
आदित्या वसवो रुद्रा भवतां मूर्तयस् त्व् इमाः योगिनो योगदेहाश् च योगधाराश् च सुव्रताः
कामतो विचरिष्यध्वं फलदाः सर्वजन्तुषु स्वर्गस्थान् नरकस्थांश् च भूमिस्थांश् च चराचरान्
निजयोगबलेनैवाप्याययिष्यध्वम् उत्तमाः इयम् ऊर्जा शशिसुता कीलालमधुविग्रहा
भविष्यति महाभागा दक्षस्य दुहिता स्वधा तत्रेयं भवतां पत्नी भविष्यति वरानना
कोकानदीति विख्याता गिरिराजसमाश्रिता तीर्थकोटिमहापुण्या मद्रूपपरिपालिता
अस्याम् अद्य प्रभृति वै निवत्स्याम्य् अघनाशकृत् वराहदर्शनं पुण्यं पूजनं भुक्तिमुक्तिदम्
कोकासलिलपानं च महापातकनाशनम् तीर्थेष्व् आप्लवनं पुण्यम् उपवासश् च स्वर्गदः