वराहदंष्ट्रासंलग्नाः पितरः कनकोज्ज्वलाः कोकामुखे गतभयाः कृता देवेन विष्णुना
उद्धृत्य च पितॄन् देवो विष्णुतीर्थे तु शूकरः ददौ समाहितस् तेभ्यो विष्णुर् लोहार्गले जलम्
ततः स्वरोमसंभूतान् कुशान् आदाय केशवः स्वेदोद्भवांस् तिलांश् चैव चक्रे चोल्मुकम् उत्तमम्
ज्योतिः सूर्यप्रभं कृत्वा पात्रं तीर्थं च कामिकम् स्थितः कोटिवटस्याधो वारि गङ्गाधरं शुचि
तुङ्गकूटात् समादाय यज्ञीयान् ओषधीरसान् मधुक्षीररसान् गन्धान् पुष्पधूपानुलेपनान्
आदाय धेनुं सरसो रत्नान्य् आदाय चार्णवात् दंष्ट्रयोल्लिख्य धरणीम् अभ्युक्ष्य सलिलेन च
घर्मोद्भवेनोपलिप्य कुशैर् उल्लिख्य तां पुनः परिणीयोल्मुकेनैनाम् अभ्युक्ष्य च पुनः पुनः
कुशान् आदाय प्रागग्रांल् लोमकूपान्तरस्थितान् ऋषीन् आहूय पप्रच्छ करिष्ये पितृतर्पणम्
तैर् अप्य् उक्ते कुरुष्वेति विश्वान् देवांस् ततो विभुः आहूय मन्त्रतस् तेषां विष्टराणि ददौ प्रभुः
आहूय मन्त्रतस् तेषां वेदोक्तविधिना हरिः अक्षतैर् दैवतारक्षां चक्रे चक्रगदाधरः
अक्षतास् तु यवौषध्यः सर्वदेवांशसंभवाः रक्षन्ति सर्वत्र दिशो रक्षार्थं निर्मिता हि ते
देवदानवदैत्येषु यक्षरक्षःसु चैव हि नहि कश्चित् क्षयं तेषां कर्तुं शक्तश् चराचरे
न केनचित् कृतं यस्मात् तस्मात् ते ह्य् अक्षताः कृताः देवानां ते हि रक्षार्थं नियुक्ता विष्णुना पुरा
कुशगन्धयवैः पुष्पैर् अर्घ्यं कृत्वा च शूकरः विश्वेभ्यो देवेभ्य इति ततस् तान् पर्यपृच्छत
पितॄन् आवाहयिष्यामि ये दिव्या ये च मानुषाः आवाहयस्वेति च तैर् उक्तस् त्व् आवाहयेच् छुचिः
श्लिष्टमूलाग्रदर्भांस् तु सतिलान् वेद वेदवित् जानाव् आरोप्य हस्तं तु ददौ सव्येन चासनम्
तथैव जानुसंस्थेन करेणैकेन तान् पितॄन् वाराहः पितृविप्राणाम् आयान्तु न इतीरयन्
अपहतेत्य् उवाचैव रक्षणं चापसव्यतः कृत्वा चावाहनं चक्रे पितॄणां नामगोत्रतः
तत् पितरो मनोजरान् आगच्छत इतीरयन् संवत्सरैर् इत्य् उदीर्य ततो ऽर्घ्यं तेषु विन्यसेत्
यास् तिष्ठन्त्य् अमृता वाचो यन् मैति च पितुः पितुः यन् मे पितामहाइत्य् एवं ददाव् अर्घ्यं पितामह
यन् मे प्रपितामहाइति ददौ च प्रपितामहे कुशगन्धतिलोन्मिश्रं सपुष्पम् अपसव्यतः
तद्वन् मातामहेभ्यस् तु विधिं चक्रे जनार्दनः तान् अर्च्य भूयो गन्धाद्यैर् धूपं दत्त्वा तु भक्तितः
आदित्या वसवो रुद्रा इत्य् उच्चार्य जगत्प्रभुः ततश् चान्नं समादाय सर्पिस्तिलकुशाकुलम्
विधाय पात्रे तच् चैव पर्यपृच्छत् ततो मुनीन् अग्नौ करिष्य इति तैः कुरुष्वेति च चोदितः
आहुतित्रितयं दद्यात् सोमायाग्नेर् यमाय च ये मामकाइति च जपेद् यजुःसप्तकम् अच्युतम्
हुतावशिष्टं च ददौ नामगोत्रसमन्वितम् त्रिर् आहुतिकम् एकैकं पितरं तु प्रति द्विजाः
अतो ऽवशिष्टम् अन्नाद्यं पिण्डपात्रे तु निक्षिपेत् ततो ऽन्नं सरसं स्वादु ददौ पायसपूर्वकम्
प्रत्यग्रम् एकदा स्विन्नम् अपर्युषितम् उत्तमम् अल्पशाकं बहुफलं षड्रसम् अमृतोपमम्
यद् ब्राह्मणेषु प्रददौ पिण्डपात्रे पितॄंस् तथा वेदपूर्वं पितृस्वन्नम् आज्यप्लुतं मधूक्षितम्
मन्त्रितं पृथिवीत्य् एवं मधुवातातृचं जगौ भुञ्जानेषु तु विप्रेषु जपन् वै मन्त्रपञ्चकम्