पितॄन् अन्तर्हितान् दृष्ट्वा दैतेया राक्षसास् तथा विभीतकं समारुह्य निराहारास् तिरोहिताः
सलिलेन विषीदन्तः पितरः क्षुद्भ्रमातुराः विषीदमानम् आत्मानं समीक्ष्य सलिलाशयाः जगुर् जनार्दनं देवं पितरः शरणं हरिम्
जयस्व गोविन्द जगन्निवास जयो ऽस्तु नः केशव ते प्रसादात् जनार्दनास्मान् सलिलान्तरस्थान् उद्धर्तुम् अर्हस्य् अनघप्रताप
निशाचरैर् दारुणदर्शनैः प्रभो वरेण्य वैकुण्ठ वराह विष्णो नारायणाशेषमहेश्वरेश प्रयाहि भीताञ् जय पद्मनाभ
उपेन्द्र योगिन् मधुकैटभघ्न विष्णो अनन्ताच्युत वासुदेव श्रीशार्ङ्गचक्राम्बुजशङ्खपाणे रक्षस्व देवेश्वर राक्षसेभ्यः
त्वं पिता जगतः शंभो नान्यः शक्तः प्रबाधितुम् निशाचरगणं भीमम् अतस् त्वां शरणं गताः
त्वन्नामसंकीर्तनतो निशाचरा द्रवन्ति भूतान्य् अपयान्ति चारयः नाशं तथा संप्रति यान्ति विष्णो धर्मादि सत्यं भवतीह मुख्यम्
इत्थं स्तुतः स पितृभिर् धरणीधरस् तु तुष्टस् तदाविष्कृतदिव्यमूर्तिः कोकामुखे पितृगणं सलिले निमग्नं देवो ददर्श शिरसाथ शिलां वहन्तम्
तं दृष्ट्वा सलिले मग्नं क्रोडरूपी जनार्दनः भीतं पितृगणं विष्णुर् उद्धर्तुं मतिर् आदधे
दंष्ट्राग्रेण समाहत्य शिलां चिक्षेप शूकरः पितॄन् आदाय च विभुर् उज्जहार शिलातलात्
वराहदंष्ट्रासंलग्नाः पितरः कनकोज्ज्वलाः कोकामुखे गतभयाः कृता देवेन विष्णुना
उद्धृत्य च पितॄन् देवो विष्णुतीर्थे तु शूकरः ददौ समाहितस् तेभ्यो विष्णुर् लोहार्गले जलम्
ततः स्वरोमसंभूतान् कुशान् आदाय केशवः स्वेदोद्भवांस् तिलांश् चैव चक्रे चोल्मुकम् उत्तमम्
ज्योतिः सूर्यप्रभं कृत्वा पात्रं तीर्थं च कामिकम् स्थितः कोटिवटस्याधो वारि गङ्गाधरं शुचि
तुङ्गकूटात् समादाय यज्ञीयान् ओषधीरसान् मधुक्षीररसान् गन्धान् पुष्पधूपानुलेपनान्
आदाय धेनुं सरसो रत्नान्य् आदाय चार्णवात् दंष्ट्रयोल्लिख्य धरणीम् अभ्युक्ष्य सलिलेन च
घर्मोद्भवेनोपलिप्य कुशैर् उल्लिख्य तां पुनः परिणीयोल्मुकेनैनाम् अभ्युक्ष्य च पुनः पुनः
कुशान् आदाय प्रागग्रांल् लोमकूपान्तरस्थितान् ऋषीन् आहूय पप्रच्छ करिष्ये पितृतर्पणम्
तैर् अप्य् उक्ते कुरुष्वेति विश्वान् देवांस् ततो विभुः आहूय मन्त्रतस् तेषां विष्टराणि ददौ प्रभुः
आहूय मन्त्रतस् तेषां वेदोक्तविधिना हरिः अक्षतैर् दैवतारक्षां चक्रे चक्रगदाधरः
अक्षतास् तु यवौषध्यः सर्वदेवांशसंभवाः रक्षन्ति सर्वत्र दिशो रक्षार्थं निर्मिता हि ते
देवदानवदैत्येषु यक्षरक्षःसु चैव हि नहि कश्चित् क्षयं तेषां कर्तुं शक्तश् चराचरे
न केनचित् कृतं यस्मात् तस्मात् ते ह्य् अक्षताः कृताः देवानां ते हि रक्षार्थं नियुक्ता विष्णुना पुरा
कुशगन्धयवैः पुष्पैर् अर्घ्यं कृत्वा च शूकरः विश्वेभ्यो देवेभ्य इति ततस् तान् पर्यपृच्छत
पितॄन् आवाहयिष्यामि ये दिव्या ये च मानुषाः आवाहयस्वेति च तैर् उक्तस् त्व् आवाहयेच् छुचिः
श्लिष्टमूलाग्रदर्भांस् तु सतिलान् वेद वेदवित् जानाव् आरोप्य हस्तं तु ददौ सव्येन चासनम्
तथैव जानुसंस्थेन करेणैकेन तान् पितॄन् वाराहः पितृविप्राणाम् आयान्तु न इतीरयन्
अपहतेत्य् उवाचैव रक्षणं चापसव्यतः कृत्वा चावाहनं चक्रे पितॄणां नामगोत्रतः
तत् पितरो मनोजरान् आगच्छत इतीरयन् संवत्सरैर् इत्य् उदीर्य ततो ऽर्घ्यं तेषु विन्यसेत्
यास् तिष्ठन्त्य् अमृता वाचो यन् मैति च पितुः पितुः यन् मे पितामहाइत्य् एवं ददाव् अर्घ्यं पितामह