सा प्रोवाच पितॄन् देवान् कला चान्द्रमसीति ह प्रभुत्वे भवताम् एव वरयामि यदीच्छथ
ऊर्जा नामास्ति प्रथमं स्वधा च तदनन्तरम् भवद्भिश् चाद्यैव कृतं नाम कोकेति भावितम्
ते हि तस्या वचः श्रुत्वा पितरो दिव्यमानुषाः तस्या मुखं निरीक्षन्तो न तृप्तिम् अधिजग्मिरे
विश्वेदेवाश् च ताञ् ज्ञात्वा कन्यामुखनिरीक्षकान् योगच्युतान् निरीक्ष्यैव विहाय त्रिदिवं गताः
भगवान् अपि शीतांशुर् ऊर्जां नापश्यद् आत्मजाम् समाकुलमना दध्यौ क्व गतेति महायशाः
स विवेद तदा सोमः प्राप्तां पितॄंश् च कामतः तैश् चावलोकितां हार्दात् स्वीकृतां च तपोबलात्
ततः क्रोधपरीतात्मा पितॄञ् शशधरो द्विजाः शशाप निपतिष्यध्वं योगभ्रष्टा विचेतसः
यस्माद् अदत्तां मत्कन्यां कामयध्वं सुबालिशाः यस्माद् धृतवती चेयं पतीन् पितृमती सती
स्वतन्त्रा धर्मम् उत्सृज्य तस्माद् भवतु निम्नगा कोकेति प्रथिता लोके शिशिराद्रिसमाश्रिता
इत्थं शप्ताश् चन्द्रमसा पितरो दिव्यमानुषाः योगभ्रष्टा निपतिता हिमवत्पादभूतले
ऊर्जा तत्रैव पतिता गिरिराजस्य विस्तृते प्रस्थे तीर्थं समासाद्य सप्तसामुद्रम् उत्तमम्
कोका नाम ततो वेगान् नदी तीर्थशताकुला प्लावयन्ती गिरेः शृङ्गं सर्पणात् तु सरित् स्मृता
अथ ते पितरो विप्रा योगहीना महानदीम् ददृशुः शीतसलिलां न विदुस् तां सुलोचनाम्
ततस् तु गिरिराड् दृष्ट्वा पितॄंस् तांस् तु क्षुधार्दितान् बदरीम् आदिदेशाथ धेनुं चैकां मधुस्रवाम्
क्षीरं मधु च तद् दिव्यं कोकाम्भो बदरीफलम् इदं गिरिवरेणैषां पोषणाय निरूपितम्
तया वृत्त्या तु वसतां पितॄणां मुनिसत्तमाः दश वर्षसहस्राणि ययुर् एकम् अहो यथा
एवं लोके विपितरि तथैव विगतस्वधे दैत्या बभूवुर् बलिनो यातुधानाश् च राक्षसाः
ते तान् पितृगणान् दैत्या यातुधानाश् च वेगिताः विश्वैर् देवैर् विरहितान् सर्वतः समुपाद्रवन्
दैतेयान् यातुधानांश् च दृष्ट्वैवापततो द्विजाः कोकातटस्थाम् उत्तुङ्गां शिलां ते जगृहू रुषा
गृहीतायां शिलायां तु कोका वेगवती पितॄन् छादयाम् आस तोयेन प्लावयन्ती हिमाचलम्
पितॄन् अन्तर्हितान् दृष्ट्वा दैतेया राक्षसास् तथा विभीतकं समारुह्य निराहारास् तिरोहिताः
सलिलेन विषीदन्तः पितरः क्षुद्भ्रमातुराः विषीदमानम् आत्मानं समीक्ष्य सलिलाशयाः जगुर् जनार्दनं देवं पितरः शरणं हरिम्
जयस्व गोविन्द जगन्निवास जयो ऽस्तु नः केशव ते प्रसादात् जनार्दनास्मान् सलिलान्तरस्थान् उद्धर्तुम् अर्हस्य् अनघप्रताप
निशाचरैर् दारुणदर्शनैः प्रभो वरेण्य वैकुण्ठ वराह विष्णो नारायणाशेषमहेश्वरेश प्रयाहि भीताञ् जय पद्मनाभ
उपेन्द्र योगिन् मधुकैटभघ्न विष्णो अनन्ताच्युत वासुदेव श्रीशार्ङ्गचक्राम्बुजशङ्खपाणे रक्षस्व देवेश्वर राक्षसेभ्यः
त्वं पिता जगतः शंभो नान्यः शक्तः प्रबाधितुम् निशाचरगणं भीमम् अतस् त्वां शरणं गताः
त्वन्नामसंकीर्तनतो निशाचरा द्रवन्ति भूतान्य् अपयान्ति चारयः नाशं तथा संप्रति यान्ति विष्णो धर्मादि सत्यं भवतीह मुख्यम्
इत्थं स्तुतः स पितृभिर् धरणीधरस् तु तुष्टस् तदाविष्कृतदिव्यमूर्तिः कोकामुखे पितृगणं सलिले निमग्नं देवो ददर्श शिरसाथ शिलां वहन्तम्
तं दृष्ट्वा सलिले मग्नं क्रोडरूपी जनार्दनः भीतं पितृगणं विष्णुर् उद्धर्तुं मतिर् आदधे
दंष्ट्राग्रेण समाहत्य शिलां चिक्षेप शूकरः पितॄन् आदाय च विभुर् उज्जहार शिलातलात्