अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात् प्रमुच्यते औरसेन बलेनान्नम् अर्जयित्वा विहिंसकः
यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि सेवते न्यायेनावाप्तम् अन्नं तु नरो हर्षसमन्वितः
द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात् प्रमुच्यते अन्नम् ऊर्जस्करं लोके दत्त्वोर्जस्वी भवेन् नरः
सतां पन्थानम् आवृत्य सर्वपापैः प्रमुच्यते दानविद्भिः कृतः पन्था येन यान्ति मनीषिणः
तेष्व् अप्य् अन्नस्य दातारस् तेभ्यो धर्मः सनातनः सर्वावस्थं मनुष्येण न्यायेनान्नम् उपार्जितम्
कार्यान् न्यायागतं नित्यम् अन्नं हि परमा गतिः अन्नस्य हि प्रदानेन नरो याति परां गतिम्
सर्वकामसमायुक्तः प्रेत्य चाप्य् अश्नुते सुखम् एवं पुण्यसमायुक्तो नरः पापैः प्रमुच्यते
तस्माद् अन्नं प्रदातव्यम् अन्यायपरिवर्जितम् यस् तु प्राणाहुतीपूर्वम् अन्नं भुङ्क्ते गृही सदा
अवन्ध्यं दिवसं कुर्याद् अन्नदानेन मानवः भोजयित्वा शतं नित्यं नरो वेदविदां वरम्
न्यायविद्धर्मविदुषाम् इतिहासविदां तथा न याति नरकं घोरं संसारं न च सेवते
सर्वकामसमायुक्तः प्रेत्य चाप्य् अश्नुते सुखम् एवं कर्मसमायुक्तो रमते विगतज्वरः
रूपवान् कीर्तिमांश् चैव धनवांश् चोपजायते एतद् वः सर्वम् आख्यातम् अन्नदानफलं महत् मूलम् एतत् तु धर्माणां प्रदानानां च भो द्विजाः
परलोकगतानां तु स्वकर्मस्थानवासिनाम् तेषां श्राद्धं कथं ज्ञेयं पुत्रैश् चान्यैश् च बन्धुभिः
नमस्कृत्य जगन्नाथं वाराहं लोकभावनम् शृणुध्वं संप्रवक्ष्यामि श्राद्धकल्पं यथोदितम्
पुरा कोकाजले मग्नान् पितॄन् उद्धृतवान् विभुः श्राद्धं कृत्वा तदा देवो यथा तत्र द्विजोत्तमाः
किमर्थं ते तु कोकायां निमग्नाः पितरो ऽम्भसि कथं तेनोद्धृतास् ते वै वाराहेण द्विजोत्तम
तस्मिन् कोकामुखे तीर्थे भुक्तिमुक्तिफलप्रदे श्रोतुम् इच्छामहे ब्रूहि परं कौतूहलं हि नः
त्रेताद्वापरयोः संधौ पितरो दिव्यमानुषाः पुरा मेरुगिरेः पृष्ठे विश्वैर् देवैः सह स्थिताः
तेषां समुपविष्टानां पितॄणां सोमसंभवा कन्या कान्तिमती दिव्या पुरतः प्राञ्जलिः स्थिता ताम् ऊचुः पितरो दिव्या ये तत्रासन् समागताः
कासि भद्रे प्रभुः को वा भवत्या वक्तुम् अर्हसि
सा प्रोवाच पितॄन् देवान् कला चान्द्रमसीति ह प्रभुत्वे भवताम् एव वरयामि यदीच्छथ
ऊर्जा नामास्ति प्रथमं स्वधा च तदनन्तरम् भवद्भिश् चाद्यैव कृतं नाम कोकेति भावितम्
ते हि तस्या वचः श्रुत्वा पितरो दिव्यमानुषाः तस्या मुखं निरीक्षन्तो न तृप्तिम् अधिजग्मिरे
विश्वेदेवाश् च ताञ् ज्ञात्वा कन्यामुखनिरीक्षकान् योगच्युतान् निरीक्ष्यैव विहाय त्रिदिवं गताः
भगवान् अपि शीतांशुर् ऊर्जां नापश्यद् आत्मजाम् समाकुलमना दध्यौ क्व गतेति महायशाः
स विवेद तदा सोमः प्राप्तां पितॄंश् च कामतः तैश् चावलोकितां हार्दात् स्वीकृतां च तपोबलात्
ततः क्रोधपरीतात्मा पितॄञ् शशधरो द्विजाः शशाप निपतिष्यध्वं योगभ्रष्टा विचेतसः
यस्माद् अदत्तां मत्कन्यां कामयध्वं सुबालिशाः यस्माद् धृतवती चेयं पतीन् पितृमती सती
स्वतन्त्रा धर्मम् उत्सृज्य तस्माद् भवतु निम्नगा कोकेति प्रथिता लोके शिशिराद्रिसमाश्रिता
इत्थं शप्ताश् चन्द्रमसा पितरो दिव्यमानुषाः योगभ्रष्टा निपतिता हिमवत्पादभूतले