सर्वम् अन्नं प्रदातव्यम् ऋजुना धर्मम् इच्छता प्राणा ह्य् अन्नं मनुष्याणां तस्माज् जन्तुः प्रजायते
अन्ने प्रतिष्ठिता लोकास् तस्माद् अन्नं प्रशस्यते अन्नम् एव प्रशंसन्ति देवर्षिपितृमानवाः
अन्नस्य हि प्रदानेन स्वर्गम् आप्नोति मानवः न्यायलब्धं प्रदातव्यं द्विजातिभ्यो ऽन्नम् उत्तमम्
स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना यस्य त्व् अन्नम् उपाश्नन्ति ब्राह्मणाश् च सकृद् दश
हृष्टेन मनसा दत्तं न स तिर्यग्गतिर् भवेत् ब्राह्मणानां सहस्राणि दशाभोज्य द्विजोत्तमाः
नरो ऽधर्मात् प्रमुच्येत पापेष्व् अभिरतः सदा भैक्षेणान्नं समाहृत्य विप्रो वेदपुरस्कृतः
स्वाध्यायनिरते विप्रे दत्त्वेह सुखम् एधते अहिंसन् ब्राह्मणस्वानि न्यायेन परिपाल्य च
क्षत्रियस् तरसा प्राप्तम् अन्नं यो वै प्रयच्छति द्विजेभ्यो वेदमुख्येभ्यः प्रयतः सुसमाहितः
तेनापोहति धर्मात्मा दुष्कृतं कर्म भो द्विजाः षड्भागपरिशुद्धं च कृषेर् भागम् उपार्जितम्
वैश्यो ददद् द्विजातिभ्यः पापेभ्यः परिमुच्यते अवाप्य प्राणसंदेहं कार्कश्येन समार्जितम्
अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात् प्रमुच्यते औरसेन बलेनान्नम् अर्जयित्वा विहिंसकः
यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि सेवते न्यायेनावाप्तम् अन्नं तु नरो हर्षसमन्वितः
द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात् प्रमुच्यते अन्नम् ऊर्जस्करं लोके दत्त्वोर्जस्वी भवेन् नरः
सतां पन्थानम् आवृत्य सर्वपापैः प्रमुच्यते दानविद्भिः कृतः पन्था येन यान्ति मनीषिणः
तेष्व् अप्य् अन्नस्य दातारस् तेभ्यो धर्मः सनातनः सर्वावस्थं मनुष्येण न्यायेनान्नम् उपार्जितम्
कार्यान् न्यायागतं नित्यम् अन्नं हि परमा गतिः अन्नस्य हि प्रदानेन नरो याति परां गतिम्
सर्वकामसमायुक्तः प्रेत्य चाप्य् अश्नुते सुखम् एवं पुण्यसमायुक्तो नरः पापैः प्रमुच्यते
तस्माद् अन्नं प्रदातव्यम् अन्यायपरिवर्जितम् यस् तु प्राणाहुतीपूर्वम् अन्नं भुङ्क्ते गृही सदा
अवन्ध्यं दिवसं कुर्याद् अन्नदानेन मानवः भोजयित्वा शतं नित्यं नरो वेदविदां वरम्
न्यायविद्धर्मविदुषाम् इतिहासविदां तथा न याति नरकं घोरं संसारं न च सेवते
सर्वकामसमायुक्तः प्रेत्य चाप्य् अश्नुते सुखम् एवं कर्मसमायुक्तो रमते विगतज्वरः
रूपवान् कीर्तिमांश् चैव धनवांश् चोपजायते एतद् वः सर्वम् आख्यातम् अन्नदानफलं महत् मूलम् एतत् तु धर्माणां प्रदानानां च भो द्विजाः
परलोकगतानां तु स्वकर्मस्थानवासिनाम् तेषां श्राद्धं कथं ज्ञेयं पुत्रैश् चान्यैश् च बन्धुभिः
नमस्कृत्य जगन्नाथं वाराहं लोकभावनम् शृणुध्वं संप्रवक्ष्यामि श्राद्धकल्पं यथोदितम्
पुरा कोकाजले मग्नान् पितॄन् उद्धृतवान् विभुः श्राद्धं कृत्वा तदा देवो यथा तत्र द्विजोत्तमाः
किमर्थं ते तु कोकायां निमग्नाः पितरो ऽम्भसि कथं तेनोद्धृतास् ते वै वाराहेण द्विजोत्तम
तस्मिन् कोकामुखे तीर्थे भुक्तिमुक्तिफलप्रदे श्रोतुम् इच्छामहे ब्रूहि परं कौतूहलं हि नः
त्रेताद्वापरयोः संधौ पितरो दिव्यमानुषाः पुरा मेरुगिरेः पृष्ठे विश्वैर् देवैः सह स्थिताः
तेषां समुपविष्टानां पितॄणां सोमसंभवा कन्या कान्तिमती दिव्या पुरतः प्राञ्जलिः स्थिता ताम् ऊचुः पितरो दिव्या ये तत्रासन् समागताः
कासि भद्रे प्रभुः को वा भवत्या वक्तुम् अर्हसि