यस् तु चोरयते तैलं नरो मोहसमन्वितः सो ऽपि विप्रा मृतो जन्तुस् तैलपायी प्रजायते
अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः अर्थार्थं यदि वा वैरी मृतो जायेत वै खरः
खरो जीवति वर्षे द्वे ततः शस्त्रेण वध्यते स मृतो मृगयोनौ तु नित्योद्विग्नो ऽभिजायते
मृगो विध्येत शस्त्रेण गते संवत्सरे ततः हतो मृगस् ततो मीनः सो ऽपि जालेन बध्यते
मासे चतुर्थे संप्राप्ते श्वापदः संप्रजायते श्वापदो दश वर्षाणि द्वीपी वर्षाणि पञ्च च
ततस् तु निधनं प्राप्तः कालपर्यायचोदितः अधर्मस्य क्षयं कृत्वा मानुषत्वम् अवाप्नुयात्
वाद्यं हृत्वा तु पुरुषो लोमशः संप्रजायते तथा पिण्याकसंमिश्रम् अन्नं यश् चोरयेन् नरः
स जायते बभ्रुसटो दारुणो मूषिको नरः दशन् वै मानुषान् नित्यं पापात्मा स द्विजोत्तमाः
घृतं हृत्वा तु दुर्बुद्धिः काको मद्गुः प्रजायते मत्स्यमांसम् अथो हृत्वा काको जायेत मानवः
लवणं चोरयित्वा तु चिरिकाकः प्रजायते विश्वासेन तु निक्षिप्तं यो ऽपनिह्नोति मानवः
स गतायुर् नरस् तेन मत्स्ययोनौ प्रजायते मत्स्ययोनिम् अनुप्राप्य मृतो जायेत मानुषः
मानुषत्वम् अनुप्राप्य क्षीणायुर् उपजायते पापानि तु नरः कृत्वा तिर्यग् जायेत भो द्विजाः
न चात्मनः प्रमाणं तु धर्मं जानाति किंचन ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा
सुखदुःखसमायुक्ता व्याधिमन्तो भवन्त्य् उत असंवीताः प्रजायन्ते म्लेच्छाश् चापि न संशयः
नराः पापसमाचारा लोभमोहसमन्विताः वर्जयन्ति हि पापानि जन्मप्रभृति ये नराः
अरोगा रूपवन्तश् च धनिनस् ते भवन्त्य् उत स्त्रियो ऽप्य् एतेन कल्पेन कृत्वा पापम् अवाप्नुयुः
एतेषाम् एव पापानां भार्यात्वम् उपयान्ति ताः प्रायेण हरणे दोषाः सर्व एव प्रकीर्तिताः
एतद् वै लेशमात्रेण कथितं वो द्विजर्षभाः अपरस्मिन् कथायोगे भूयः श्रोष्यथ भो द्विजाः
एतन् मया महाभागा ब्रह्मणो वदतः पुरा सुरर्षीणां श्रुतं मध्ये पृष्टं चापि यथा तथा
मयापि तुभ्यं कार्त्स्न्येन यथावद् अनुवर्णितम् एतच् छ्रुत्वा मुनिश्रेष्ठा धर्मे कुरुत मानसम्
अधर्मस्य गतिर् ब्रह्मन् कथिता नस् त्वयानघ धर्मस्य च गतिं श्रोतुम् इच्छामो वदतां वर
कृत्वा पापानि कर्माणि कथं यान्त्य् अशुभां गतिम् कर्मणा च कृतेनेह केन यान्ति शुभां गतिम्
कृत्वा पापानि कर्माणि त्व् अधर्मवशम् आगतः मनसा विपरीतेन निरयं प्रतिपद्यते
मोहाद् अधर्मं यः कृत्वा पुनः समनुतप्यते मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम्
यदि विप्राः कथयते विप्राणां धर्मवादिनाम् ततो ऽधर्मकृतात् क्षिप्रम् अपराधात् प्रमुच्यते
यथा यथा नरः सम्यग् अधर्मम् अनुभाषते समाहितेन मनसा विमुञ्चति तथा तथा
यथा यथा मनस् तस्य दुष्कृतं कर्म गर्हते तथा तथा शरीरं तु तेनाधर्मेण मुच्यते
भुजंग इव निर्मोकान् पूर्वभुक्ताञ् जहाति तान् दत्त्वा विप्रस्य दानानि विविधानि समाहितः
मनःसमाधिसंयुक्तः स्वर्गतिं प्रतिपद्यते दानानि तु प्रवक्ष्यामि यानि दत्त्वा द्विजोत्तमाः
नरः कृत्वाप्य् अकार्याणि ततो धर्मेण युज्यते सर्वेषाम् एव दानानाम् अन्नं श्रेष्ठम् उदाहृतम्