श्वा च वै जायते मूढः कर्मणा तेन भो द्विजाः श्वा भूत्वा कृतकर्मासौ जायते मानुषस् ततः
तत्रापत्यं समुत्पाद्य मृतो जायेत मूषिकः कृतघ्नस् तु मृतो विप्रा यमस्य विषयं गतः
यमस्य विषये क्रूरैर् बद्धः प्राप्नोति वेदनाम् दण्डकं मुद्गरं शूलम् अग्निदण्डं च दारुणम्
असिपत्त्रवनं घोरं वालुकां कूटशाल्मलीम् एताश् चान्याश् च बहवो यमस्य विषयं गताः
यातनाः प्राप्य घोरास् तु ततो याति च भो द्विजाः संसारचक्रम् आसाद्य क्रिमियोनौ प्रजायते
क्रिमिर् भवति वर्षाणि दश पञ्च च भो द्विजाः ततो गर्भं समासाद्य तत्रैव म्रियते नरः
ततो गर्भशतैर् जन्तुर् बहुशः संप्रपद्यते संसारान् सुबहून् गत्वा ततस् तिर्यक् प्रजायते
ततो दुःखम् अनुप्राप्य बहुवर्षगणानि वै स पुनर्भवसंयुक्तस् ततः कूर्मः प्रजायते
दधि हृत्वा बकश् चापि प्लवो मत्स्यान् असंस्कृतान् चोरयित्वा तु दुर्बुद्धिर् मधुदंशः प्रजायते
फलं वा मूलकं हृत्वा पूपं वापि पिपीलिकः चोरयित्वा तु निष्पावं जायते फलमूषकः
पायसं चोरयित्वा तु तित्तिरत्वम् अवाप्नुयात् हृत्वा पिष्टमयं पूपं कुम्भोलूकः प्रजायते
अपो हृत्वा तु दुर्बुद्धिर् वायसो जायते नरः कांस्यं हृत्वा तु दुर्बुद्धिर् हारीतो जायते नरः
राजतं भाजनं हृत्वा कपोतः संप्रजायते हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते
पत्त्रोर्णं चोरयित्वा तु कुररत्वं नियच्छति कोशकारं ततो हृत्वा नरो जायेत नर्तकः
अंशुकं चोरयित्वा तु शुको जायेत मानवः चोरयित्वा दुकूलं तु मृतो हंसः प्रजायते
क्रौञ्चः कार्पासिकं हृत्वा मृतो जायेत मानवः चोरयित्वा नरः पट्टं त्व् आविकं चैव भो द्विजाः
क्षौमं च वस्त्रम् आहृत्य शशो जन्तुः प्रजायते चूर्णं तु हृत्वा पुरुषो मृतो जायेत बर्हिणः
हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः वर्णकादींस् तथा गन्धांश् चोरयित्वेह मानवः
चुच्छुन्दरित्वम् आप्नोति विप्रो लोभपरायणः तत्र जीवति वर्षाणि ततो दश च पञ्च च
अधर्मस्य क्षयं कृत्वा ततो जायेत मानवः चोरयित्वा पयश् चापि बलाका संप्रजायते
यस् तु चोरयते तैलं नरो मोहसमन्वितः सो ऽपि विप्रा मृतो जन्तुस् तैलपायी प्रजायते
अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः अर्थार्थं यदि वा वैरी मृतो जायेत वै खरः
खरो जीवति वर्षे द्वे ततः शस्त्रेण वध्यते स मृतो मृगयोनौ तु नित्योद्विग्नो ऽभिजायते
मृगो विध्येत शस्त्रेण गते संवत्सरे ततः हतो मृगस् ततो मीनः सो ऽपि जालेन बध्यते
मासे चतुर्थे संप्राप्ते श्वापदः संप्रजायते श्वापदो दश वर्षाणि द्वीपी वर्षाणि पञ्च च
ततस् तु निधनं प्राप्तः कालपर्यायचोदितः अधर्मस्य क्षयं कृत्वा मानुषत्वम् अवाप्नुयात्
वाद्यं हृत्वा तु पुरुषो लोमशः संप्रजायते तथा पिण्याकसंमिश्रम् अन्नं यश् चोरयेन् नरः
स जायते बभ्रुसटो दारुणो मूषिको नरः दशन् वै मानुषान् नित्यं पापात्मा स द्विजोत्तमाः
घृतं हृत्वा तु दुर्बुद्धिः काको मद्गुः प्रजायते मत्स्यमांसम् अथो हृत्वा काको जायेत मानवः
लवणं चोरयित्वा तु चिरिकाकः प्रजायते विश्वासेन तु निक्षिप्तं यो ऽपनिह्नोति मानवः