पौरवी रोहिणी नाम बाह्लिकस्यात्मजाभवत् ज्येष्ठा पत्नी मुनिश्रेष्ठा दयितानकदुन्दुभेः
लेभे ज्येष्ठं सुतं रामं शरण्यं शठम् एव च दुर्दमं दमनं शुभ्रं पिण्डारकम् उशीनरम्
चित्रा नाम कुमारी च रोहिणीतनया नव चित्रा सुभद्रेति पुनर् विख्याता मुनिसत्तमाः
वसुदेवाच् च देवक्यां जज्ञे शौरिर् महायशाः रामाच् च निशठो जज्ञे रेवत्यां दयितः सुतः
सुभद्रायां रथी पार्थाद् अभिमन्युर् अजायत अक्रूरात् काशिकन्यायां सत्यकेतुर् अजायत
वसुदेवस्य भार्यासु महाभागासु सप्तसु ये पुत्रा जज्ञिरे शूराः समस्तांस् तान् निबोधत
भोजश् च विजयश् चैव शान्तिदेवासुताव् उभौ वृकदेवः सुनामायां गदश् चास्तां सुताव् उभौ
अगावहं महात्मानं वृकदेवी व्यजायत कन्या त्रिगर्तराजस्य भार्या वै शिशिरायणेः
जिज्ञासां पौरुषे चक्रे न चस्कन्दे च पौरुषम् कृष्णायससमप्रख्यो वर्षे द्वादशमे तथा
मिथ्याभिशस्तो गार्ग्यस् तु मन्युनातिसमीरितः घोषकन्याम् उपादाय मैथुनायोपचक्रमे
गोपाली चाप्सरास् तस्य गोपस्त्रीवेषधारिणी धारयाम् आस गार्ग्यस्य गर्भं दुर्धरम् अच्युतम्
मानुष्यां गर्गभार्यायां नियोगाच् छूलपाणिनः स कालयवनो नाम जज्ञे राजा महाबलः
वृत्तपूर्वार्धकायस् तु सिंहसंहननो युवा अपुत्रस्य स राज्ञस् तु ववृधे ऽन्तःपुरे शिशुः
यवनस्य मुनिश्रेष्ठाः स कालयवनो ऽभवत् आयुध्यमानो नृपतिः पर्यपृच्छद् द्विजोत्तमम्
वृष्ण्यन्धककुलं तस्य नारदो ऽकथयद् विभुः अक्षौहिण्या तु सैन्यस्य मथुराम् अभ्ययात् तदा
दूतं संप्रेषयाम् आस वृष्ण्यन्धकनिवेशनम् ततो वृष्ण्यन्धकाः कृष्णं पुरस्कृत्य महामतिम्
समेता मन्त्रयाम् आसुर् यवनस्य भयात् तदा कृत्वा विनिश्चयं सर्वे पलायनम् अरोचयन्
विहाय मथुरां रम्यां मानयन्तः पिनाकिनम् कुशस्थलीं द्वारवतीं निवेशयितुम् ईप्सवः
इति कृष्णस्य जन्मेदं यः शुचिर् नियतेन्द्रियः पर्वसु श्रावयेद् विद्वान् अनृणः स सुखी भवेत्
क्रोष्टोर् अथाभवत् पुत्रो वृजिनीवान् महायशाः वार्जिनीवतम् इच्छन्ति स्वाहिं स्वाहाकृतां वरम्
स्वाहिपुत्रो ऽभवद् राजा उषद्गुर् वदतां वरः महाक्रतुभिर् ईजे यो विविधैर् भूरिदक्षिणैः
ततः प्रसूतिम् इच्छन् वै उषद्गुः सो ऽग्र्यम् आत्मजम् जज्ञे चित्ररथस् तस्य पुत्रः कर्मभिर् अन्वितः
आसीच् चैत्ररथिर् वीरो यज्वा विपुलदक्षिणः शशबिन्दुः परं वृत्तं राजर्षीणाम् अनुष्ठितः
पृथुश्रवाः पृथुयशा राजासीच् छाशिबिन्दवः शंसन्ति च पुराणज्ञाः पार्थश्रवसम् अन्तरम्
अन्तरस्य सुयज्ञस् तु सुयज्ञतनयो ऽभवत् उषतो यज्ञम् अखिलं स्वधर्मे च कृतादरः
शिनेयुर् अभवत् पुत्र उषतः शत्रुतापनः मरुतस् तस्य तनयो राजर्षिर् अभवन् नृपः
मरुतो ऽलभत ज्येष्ठं सुतं कम्बलबर्हिषम् चचार विपुलं धर्मम् अमर्षात् प्रत्यभाग् अपि
स सत्प्रसूतिम् इच्छन् वै सुतं कम्बलबर्हिषः बभूव रुक्मकवचः शतप्रसवतः सुतः
निहत्य रुक्मकवचः शतं कवचिनां रणे धन्विनां निशितैर् बाणैर् अवाप श्रियम् उत्तमाम्
जज्ञे च रुक्मकवचात् परजित् परवीरहा जज्ञिरे पञ्च पुत्रास् तु महावीर्याः पराजिताः