असूयको नरश् चापि मृतो जायेत शार्ङ्गकः विश्वासहर्ता च नरो मीनो जायेत दुर्मतिः
भूत्वा मीनो ऽष्ट वर्षाणि मृगो जायेत भो द्विजाः मृगस् तु चतुरो मासांस् ततश् छागः प्रजायते
छागस् तु निधनं प्राप्य पूर्णे संवत्सरे ततः कीटः संजायते जन्तुस् ततो जायेत मानुषः
धान्यान् यवांस् तिलान् माषान् कुलित्थान् सर्षपांश् चणान् कलायान् अथ मुद्गांश् च गोधूमान् अतसीस् तथा
सस्यान्य् अन्यानि हर्ता च मर्त्यो मोहाद् अचेतनः संजायते मुनिश्रेष्ठा मूषिको निरपत्रपः
ततः प्रेत्य मुनिश्रेष्ठा मृतो जायेत शूकरः शूकरो जातमात्रस् तु रोगेण म्रियते पुनः
श्वा ततो जायते मूकः कर्मणा तेन मानवः भूत्वा श्वा पञ्च वर्षाणि ततो जायेत मानवः
परदाराभिमर्शं तु कृत्वा जायेत वै वृकः श्वा शृगालस् ततो गृध्रो व्यालः कङ्को बकस् तथा
भ्रातुर् भार्यां तु पापात्मा यो धर्षयति मोहितः पुंस्कोकिलत्वम् आप्नोति सो ऽपि संवत्सरं द्विजाः
सखिभार्यां गुरोर् भार्यां राजभार्यां तथैव च प्रधर्षयित्वा कामात्मा मृतो जायेत शूकरः
शूकरः पञ्च वर्षाणि दश वर्षाणि वै बकः पिपीलिकस् तु मासांस् त्रीन् कीटः स्यान् मासम् एव च
एतान् आसाद्य संसारान् कृमियोनौ प्रजायते तत्र जीवति मासांस् तु कृमियोनौ चतुर्दश
नरो ऽधर्मक्षयं कृत्वा ततो जायेत मानुषः पूर्वं दत्त्वा तु यः कन्यां द्वितीये दातुम् इच्छति
सो ऽपि विप्रा मृतो जन्तुः क्रिमियोनौ प्रजायते तत्र जीवति वर्षाणि त्रयोदश द्विजोत्तमाः
अधर्मसंक्षये मुक्तस् ततो जायेत मानुषः देवकार्यम् अकृत्वा तु पितृकार्यम् अथापि वा
अनिर्वाप्य पितॄन् देवान् मृतो जायेत वायसः वायसः शतवर्षाणि ततो जायेत कुक्कुटः
जायते व्यालकश् चापि मासं तस्मात् तु मानुषः ज्येष्ठं पितृसमं चापि भ्रातरं यो ऽवमन्यते
सो ऽपि मृत्युम् उपागम्य क्रौञ्चयोनौ प्रजायते क्रौञ्चो जीवति वर्षाणि दश जायेत जीवकः
ततो निधनम् आप्नोति मानुषत्वम् अवाप्नुयात् वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते
ततः संप्राप्य निधनं जायते शूकरः पुनः शूकरो जातमात्रस् तु रोगेण म्रियते द्विजाः
श्वा च वै जायते मूढः कर्मणा तेन भो द्विजाः श्वा भूत्वा कृतकर्मासौ जायते मानुषस् ततः
तत्रापत्यं समुत्पाद्य मृतो जायेत मूषिकः कृतघ्नस् तु मृतो विप्रा यमस्य विषयं गतः
यमस्य विषये क्रूरैर् बद्धः प्राप्नोति वेदनाम् दण्डकं मुद्गरं शूलम् अग्निदण्डं च दारुणम्
असिपत्त्रवनं घोरं वालुकां कूटशाल्मलीम् एताश् चान्याश् च बहवो यमस्य विषयं गताः
यातनाः प्राप्य घोरास् तु ततो याति च भो द्विजाः संसारचक्रम् आसाद्य क्रिमियोनौ प्रजायते
क्रिमिर् भवति वर्षाणि दश पञ्च च भो द्विजाः ततो गर्भं समासाद्य तत्रैव म्रियते नरः
ततो गर्भशतैर् जन्तुर् बहुशः संप्रपद्यते संसारान् सुबहून् गत्वा ततस् तिर्यक् प्रजायते
ततो दुःखम् अनुप्राप्य बहुवर्षगणानि वै स पुनर्भवसंयुक्तस् ततः कूर्मः प्रजायते
दधि हृत्वा बकश् चापि प्लवो मत्स्यान् असंस्कृतान् चोरयित्वा तु दुर्बुद्धिर् मधुदंशः प्रजायते
फलं वा मूलकं हृत्वा पूपं वापि पिपीलिकः चोरयित्वा तु निष्पावं जायते फलमूषकः