यदि धर्मं समायुज्य जन्मप्रभृति सेवते ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम्
अथान्तरान्तरं धर्मम् अधर्मम् उपसेवते सुखस्यानन्तरं दुःखं स जीवो ऽप्य् अधिगच्छति
अधर्मेण समायुक्तो यमस्य विषयं गतः महादुःखं समासाद्य तिर्यग्योनौ प्रजायते
कर्मणा येन येनेह यस्यां योनौ प्रजायते जीवो मोहसमायुक्तस् तन् मे शृणुत सांप्रतम्
यद् एतद् उच्यते शास्त्रैः सेतिहासैश् च छन्दसि यमस्य विषयं घोरं मर्त्यलोकं प्रवर्तते
इह स्थानानि पुण्यानि देवतुल्यानि भो द्विजाः तिर्यग्योन्यतिरिक्तानि गतिमन्ति च सर्वशः
यमस्य भवने दिव्ये ब्रह्मलोकसमे गुणैः कर्मभिर् नियतैर् बद्धो जन्तुर् दुःखान्य् उपाश्नुते
येन येन हि भावेन येन वै कर्मणा गतिम् प्रयाति पुरुषो घोरां तथा वक्ष्याम्य् अतः परम्
अधीत्य चतुरो वेदान् द्विजो मोहसमन्वितः पतितात् प्रतिगृह्याथ खरयोनौ प्रजायते
खरो जीवति वर्षाणि दश पञ्च च भो द्विजाः खरो मृतो बलीवर्दः सप्त वर्षाणि जीवति
बलीवर्दो मृतश् चापि जायते ब्रह्मराक्षसः ब्रह्मरक्षस् तु मासांस् त्रींस् ततो जायेत ब्राह्मणः
पतितं याजयित्वा तु कृमियोनौ प्रजायते तत्र जीवति वर्षाणि दश पञ्च च भो द्विजाः
क्रिमिभावाद् विनिर्मुक्तस् ततो जायेत गर्दभः गर्दभः पञ्च वर्षाणि पञ्च वर्षाणि शूकरः
कुक्कुटः पञ्च वर्षाणि पञ्च वर्षाणि जम्बुकः श्वा वर्षम् एकं भवति ततो जायेत मानवः
उपाध्यायस्य यः पापं शिष्यः कुर्याद् अबुद्धिमान् स जन्मानीह संसारे त्रीन् आप्नोति न संशयः
प्राक् श्वा भवति भो विप्रास् ततः क्रव्यात् ततः खरः प्रेत्य च परिक्लिष्टेषु पश्चाज् जायेत ब्राह्मणः
मनसापि गुरोर् भार्यां यः शिष्यो याति पापकृत् उदग्रान् प्रैति संसारान् अधर्मेणेह चेतसा
श्वयोनौ तु स संभूतस् त्रीणि वर्षाणि जीवति तत्रापि निधनं प्राप्तः क्रिमियोनौ प्रजायते
कृमिभावम् अनुप्राप्तो वर्षम् एकं तु जीवति ततस् तु निधनं प्राप्य ब्रह्मयोनौ प्रजायते
यदि पुत्रसमं शिष्यं गुरुर् हन्याद् अकारणम् आत्मनः कामकारेण सो ऽपि हिंस्रः प्रजायते
पितरं मातरं चैव यस् तु पुत्रो ऽवमन्यते सो ऽपि विप्रा मृतो जन्तुः पूर्वं जायेत गर्दभः
गर्दभत्वं तु संप्राप्य दश वर्षाणि जीवति संवत्सरं तु कुम्भीरस् ततो जायेत मानवः
पुत्रस्य मातापितरौ यस्य रुष्टाव् उभाव् अपि गुर्वपध्यानतः सो ऽपि मृतो जायेत गर्दभः
खरो जीवति मासांश् च दश चापि चतुर्दश बिडालः सप्त मासांस् तु ततो जायेत मानवः
मातापितराव् आक्रुश्य सारीकः संप्रजायते ताडयित्वा तु ताव् एव जायते कच्छपो द्विजाः
कच्छपो दश वर्षाणि त्रीणि वर्षाणि शल्यकः व्यालो भूत्वा तु षण् मासांस् ततो जायेत मानुषः
भर्तृपिण्डम् उपाश्नीनो राजद्विष्टानि सेवते सो ऽपि मोहसमापन्नो मृतो जायेत वानरः
वानरो दश वर्षाणि सप्त वर्षाणि मूषकः श्वा च भूत्वा तु षण् मासांस् ततो जायेत मानवः
न्यासापहर्ता तु नरो यमस्य विषयं गतः संसाराणां शतं गत्वा कृमियोनौ प्रजायते
तत्र जीवति वर्षाणि दश पञ्च च भो द्विजाः दुष्कृतस्य क्षयं कृत्वा ततो जायेत मानुषः