शाठ्येनापि नरा नित्यं ये स्मरन्ति जनार्दनम् ते ऽपि यान्ति तनुं त्यक्त्वा विष्णुलोकम् अनामयम्
अत्यन्तक्रोधसक्तो ऽपि कदाचित् कीर्तयेद् धरिम् सो ऽपि दोषक्षयान् मुक्तिं लभेच् चेदिपतिर् यथा
श्रुत्वैवं यममार्गं ते नरकेषु च यातनाम् पप्रच्छुश् च पुनर् व्यासं संशयं मुनिसत्तमाः
भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः
ज्ञातिसंबन्धिवर्गश् च मित्रवर्गस् तथैव च गृहं शरीरम् उत्सृज्य काष्ठलोष्टसमं जनाः गच्छन्त्य् अमुत्र लोके वै कश् च तान् अनुगच्छति
एकः प्रसूयते विप्रा एक एव हि नश्यति एकस् तरति दुर्गाणि गच्छत्य् एकस् तु दुर्गतिम्
असहायः पिता माता तथा भ्राता सुतो गुरुः ज्ञातिसंबन्धिवर्गश् च मित्रवर्गस् तथैव च
मृतं शरीरम् उत्सृज्य काष्ठलोष्टसमं जनाः मुहूर्तम् इव रोदित्वा ततो यान्ति पराङ्मुखाः
तैस् तच् छरीरम् उत्सृष्टं धर्म एको ऽनुगच्छति तस्माद् धर्मः सहायश् च सेवितव्यः सदा नृभिः
प्राणी धर्मसमायुक्तो गच्छेत् स्वर्गगतिं पराम् तथैवाधर्मसंयुक्तो नरकं चोपपद्यते
तस्मात् पापागतैर् अर्थैर् नानुरज्येत पण्डितः धर्म एको मनुष्याणां सहायः परिकीर्तितः
लोभान् मोहाद् अनुक्रोशाद् भयाद् वाथ बहुश्रुतः नरः करोत्य् अकार्याणि परार्थे लोभमोहितः
धर्मश् चार्थश् च कामश् च त्रितयं जीवतः फलम् एतत् त्रयम् अवाप्तव्यम् अधर्मपरिवर्जितम्
श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम् शरीरनिचयं ज्ञातुं बुद्धिर् नो ऽत्र प्रजायते
मृतं शरीरं हि नृणां सूक्ष्मम् अव्यक्ततां गतम् अचक्षुर्विषयं प्राप्तं कथं धर्मो ऽनुगच्छति
पृथिवी वायुर् आकाशम् आपो ज्योतिर् मनोन्तरम् बुद्धिर् आत्मा च सहिता धर्मं पश्यन्ति नित्यदा
प्राणिनाम् इह सर्वेषां साक्षिभूता दिवानिशम् एतैश् च सह धर्मो हि तं जीवम् अनुगच्छति
त्वग् अस्थि मांसं शुक्रं च शोणितं च द्विजोत्तमाः शरीरं वर्जयन्त्य् एते जीवितेन विवर्जितम्
ततो धर्मसमायुक्तः स जीवः सुखम् एधते इहलोके परे चैव किं भूयः कथयामि वः
तद् दर्शितं भगवता यथा धर्मो ऽनुगच्छति एतत् तु ज्ञातुम् इच्छामः कथं रेतः प्रवर्तते
अन्नम् अश्नन्ति ये देवाः शरीरस्था द्विजोत्तमाः पृथिवी वायुर् आकाशम् आपो ज्योतिर् मनस् तथा
ततस् तृप्तेषु भो विप्रास् तेषु भूतेषु पञ्चसु मनःषष्ठेषु शुद्धात्मा रेतः संपद्यते महत्
ततो गर्भः संभवति श्लेष्मा स्त्रीपुंसयोर् द्विजाः एतद् वः सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छथ
आख्यातं नो भगवता गर्भः संजायते यथा यथा जातस् तु पुरुषः प्रपद्यते तद् उच्यताम्
आसन्नमात्रपुरुषस् तैर् भूतैर् अभिभूयते विप्रयुक्तस् तु तैर् भूतैः पुनर् यात्य् अपरां गतिम्
स च भूतसमायुक्तः प्राप्नोति जीवम् एव हि ततो ऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम् देवताः पञ्चभूतस्थाः किं भूयः श्रोतुम् इच्छथ
त्वग् अस्थि मांसम् उत्सृज्य तैस् तु भूतैर् विवर्जितः जीवः स भगवन् क्वस्थः सुखदुःखे समश्नुते
जीवः कर्मसमायुक्तः शीघ्रं रेतःसमागतः स्त्रीणां पुष्पं समासाद्य ततः कालेन भो द्विजाः
यमस्य पुरुषैः क्लेशो यमस्य पुरुषैर् वधः दुःखं संसारचक्रं च नरः क्लेशं च विन्दति
इह लोके स तु प्राणी जन्मप्रभृति भो द्विजाः सुकृतं कर्म वै भुङ्क्ते धर्मस्य फलम् आश्रितः