दृष्ट्वा तान् धार्मिकान् देवः स्वयं संमानयेद् यमः स्वागतासनदानेन पाद्यार्घ्येण प्रियेण तु
धन्या यूयं महात्मान आत्मनो हितकारिणः येन दिव्यसुखार्थाय भवद्भिः सुकृतं कृतम्
इदं विमानम् आरुह्य दिव्यस्त्रीभोगभूषिताः स्वर्गं गच्छध्वम् अतुलं सर्वकामसमन्वितम्
तत्र भुक्त्वा महाभोगान् अन्ते पुण्यपरिक्षयात् यत् किंचिद् अल्पम् अशुभं फलं तद् इह भोक्ष्यथ
ये तु तं धर्मराजानं नराः पुण्यानुभावतः पश्यन्ति सौम्यमनसं पितृभूतम् इवात्मनः
तस्माद् धर्मः सेवितव्यः सदा मुक्तिफलप्रदः धर्माद् अर्थस् तथा कामो मोक्षश् च परिकीर्त्यते
धर्मो माता पिता भ्राता धर्मो नाथः सुहृत् तथा धर्मः स्वामी सखा गोप्ता तथा धाता च पोषकः
धर्माद् अर्थो ऽर्थतः कामः कामाद् भोगः सुखानि च धर्माद् ऐश्वर्यम् एकाग्र्यं धर्मात् स्वर्गगतिः परा
धर्मस् तु सेवितो विप्रास् त्रायते महतो भयात् देवत्वं च द्विजत्वं च धर्मात् प्राप्नोत्य् असंशयम्
यदा च क्षीयते पापं नराणां पूर्वसंचितम् तदैषां भजते बुद्धिर् धर्मं चात्र द्विजोत्तमाः
जन्मान्तरसहस्रेषु मानुष्यं प्राप्य दुर्लभम् यो हि नाचरते धर्मं भवेत् स खलु वञ्चितः
कुत्सिता ये दरिद्राश् च विरूपा व्याधितास् तथा परप्रेष्याश् च मूर्खाश् च ज्ञेया धर्मविवर्जिताः
ये हि दीर्घायुषः शूराः पण्डिता भोगिनो ऽर्थिनः अरोगा रूपवन्तश् च तैस् तु धर्मः पुरा कृतः
एवं धर्मरता विप्रा गच्छन्ति गतिम् उत्तमाम् अधर्मं सेवमानास् तु तिर्यग्योनिं व्रजन्ति ते
ये नरा नरकध्वंसिवासुदेवम् अनुव्रताः ते स्वप्ने ऽपि न पश्यन्ति यमं वा नरकाणि वा
अनादिनिधनं देवं दैत्यदानवदारणम् ये नमन्ति नरा नित्यं नहि पश्यन्ति ते यमम्
कर्मणा मनसा वाचा ये ऽच्युतं शरणं गताः न समर्थो यमस् तेषां ते मुक्तिफलभागिनः
ये जना जगतां नाथं नित्यं नारायणं द्विजाः नमन्ति नहि ते विष्णोः स्थानाद् अन्यत्र गामिनः
न ते दूतान् न तन् मार्गं न यमं न च तां पुरीम् प्रणम्य विष्णुं पश्यन्ति नरकाणि कथंचन
कृत्वापि बहुशः पापं नरा मोहसमन्विताः न यान्ति नरकं नत्वा सर्वपापहरं हरिम्
शाठ्येनापि नरा नित्यं ये स्मरन्ति जनार्दनम् ते ऽपि यान्ति तनुं त्यक्त्वा विष्णुलोकम् अनामयम्
अत्यन्तक्रोधसक्तो ऽपि कदाचित् कीर्तयेद् धरिम् सो ऽपि दोषक्षयान् मुक्तिं लभेच् चेदिपतिर् यथा
श्रुत्वैवं यममार्गं ते नरकेषु च यातनाम् पप्रच्छुश् च पुनर् व्यासं संशयं मुनिसत्तमाः
भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः
ज्ञातिसंबन्धिवर्गश् च मित्रवर्गस् तथैव च गृहं शरीरम् उत्सृज्य काष्ठलोष्टसमं जनाः गच्छन्त्य् अमुत्र लोके वै कश् च तान् अनुगच्छति
एकः प्रसूयते विप्रा एक एव हि नश्यति एकस् तरति दुर्गाणि गच्छत्य् एकस् तु दुर्गतिम्
असहायः पिता माता तथा भ्राता सुतो गुरुः ज्ञातिसंबन्धिवर्गश् च मित्रवर्गस् तथैव च
मृतं शरीरम् उत्सृज्य काष्ठलोष्टसमं जनाः मुहूर्तम् इव रोदित्वा ततो यान्ति पराङ्मुखाः
तैस् तच् छरीरम् उत्सृष्टं धर्म एको ऽनुगच्छति तस्माद् धर्मः सहायश् च सेवितव्यः सदा नृभिः
प्राणी धर्मसमायुक्तो गच्छेत् स्वर्गगतिं पराम् तथैवाधर्मसंयुक्तो नरकं चोपपद्यते