पादाभ्यङ्गं शिरोभ्यङ्गं स्नानपानोदकं तथा ये प्रयच्छन्ति विप्रेभ्यस् ते यान्त्य् अश्वैर् यमालयम्
विश्रामयन्ति ये विप्राञ् श्रान्तान् अध्वनि कर्शितान् चक्रवाकप्रयुक्तेन यान्ति यानेन ते सुखम्
स्वागतेन च यो विप्रं पूजयेद् आसनेन च स गच्छति तम् अध्वानं सुखं परमनिर्वृतः
नमो ब्रह्मण्यदेवेति यो हरिं चाभिवादयेत् गां च पापहरेत्य् उक्त्वा सुखं यान्ति च तत् पथम्
अनन्तराशिनो ये च दम्भानृतविवर्जिताः ते ऽपि सारसयुक्तैस् तु यान्ति यानैश् च तत् पथम्
वर्तन्ते ह्य् एकभक्तेन शाठ्यदम्भविवर्जिताः हंसयुक्तैर् विमानैस् तु सुखं यान्ति यमालयम्
चतुर्थेनैकभक्तेन वर्तन्ते ये जितेन्द्रियाः ते यान्ति धर्मनगरं यानैर् बर्हिणयोजितैः
तृतीये दिवसे ये तु भुञ्जते नियतव्रताः ते ऽपि हस्तिरथैर् दिव्यैर् यान्ति यानैश् च तत् पदम्
षष्ठे ऽन्नभक्षको यस् तु शौचनित्यो जितेन्द्रियः स याति कुञ्जरस्थस् तु शचीपतिर् इव स्वयम्
धर्मराजपुरं दिव्यं नानामणिविभूषितम् नानास्वरसमायुक्तं जयशब्दरवैर् युतम्
पक्षोपवासिनो यान्ति यानैः शार्दूलयोजितैः पुरं तद् धर्मराजस्य सेव्यमानाः सुरासुरैः
ये च मासोपवासं तु कुर्वते संयतेन्द्रियाः ते ऽपि सूर्यप्रदीप्तैस् तु यान्ति यानैर् यमालयम्
महाप्रस्थानम् एकाग्रो यः प्रयाति दृढव्रतः सेव्यमानस् तु गन्धर्वैर् याति यानैर् यमालयम्
शरीरं साधयेद् यस् तु वैष्णवेनान्तरात्मना स रथेनाग्निवर्णेन यातीह त्रिदशालयम्
अग्निप्रवेशं यः कुर्यान् नारायणपरायणः स यात्य् अग्निप्रकाशेन विमानेन यमालयम्
प्राणांस् त्यजति यो मर्त्यः स्मरन् विष्णुं सनातनम् यानेनार्कप्रकाशेन याति धर्मपुरं नरः
प्रविष्टो ऽन्तर् जलं यस् तु प्राणांस् त्यजति मानवः सोममण्डलकल्पेन याति यानेन वै सुखम्
स्वशरीरं हि गृध्रेभ्यो वैष्णवो यः प्रयच्छति स याति रथमुख्येन काञ्चनेन यमालयम्
स्त्रीग्रहे गोग्रहे वापि युद्धे मृत्युम् उपैति यः स यात्य् अमरकन्याभिः सेव्यमानो रविप्रभः
वैष्णवा ये च कुर्वन्ति तीर्थयात्रां जितेन्द्रियाः तत् पथं यान्ति ते घोरं सुखयानैर् अलंकृताः
ये यजन्ति द्विजश्रेष्ठाः क्रतुभिर् भूरिदक्षिणैः तप्तहाटकसंकाशैर् विमानैर् यान्ति ते सुखम्
परपीडाम् अकुर्वन्तो भृत्यानां भरणादिकम् कुर्वन्ति ते सुखं यान्ति विमानैः कनकोज्ज्वलैः
ये क्षान्ताः सर्वभूतेषु प्राणिनाम् अभयप्रदाः क्रोधमोहविनिर्मुक्ता निर्मदाः संयतेन्द्रियाः
पूर्णचन्द्रप्रकाशेन विमानेन महाप्रभाः यान्ति वैवस्वतपुरं देवगन्धर्वसेविताः
एकभावेन ये विष्णुं ब्रह्माणं त्र्यम्बकं रविम् पूजयन्ति हि ते यान्ति विमानैर् भास्करप्रभैः
ये च मांसं न खादन्ति सत्यशौचसमन्विताः ते ऽपि यान्ति सुखेनैव धर्मराजपुरं नराः
मांसान् मिष्टतरं नास्ति भक्ष्यभोज्यादिकेषु च तस्मान् मांसं न भुञ्जीत नास्ति मिष्टैः सुखोदयः
गोसहस्रं तु यो दद्याद् यस् तु मांसं न भक्षयेत् समाव् एतौ पुरा प्राह ब्रह्मा वेदविदां वरः
सर्वतीर्थेषु यत् पुण्यं सर्वयज्ञेषु यत् फलम् अमांसभक्षणे विप्रास् तच् च तच् च च तत्समम्
एवं सुखेन ते यान्ति यमलोकं च धार्मिकाः दानव्रतपरा यानैर् यत्र देवो रवेः सुतः