ये फलानि प्रयच्छन्ति पुष्पाणि सुरभीणि च हंसयुक्तैर् विमानैस् तु यान्ति धर्मपुरं नराः
ये तिलांस् तिलधेनुं च घृतधेनुम् अथापि वा श्रोत्रियेभ्यः प्रयच्छन्ति विप्रेभ्यः श्रद्धयान्विताः
सोममण्डलसंकाशैर् यानैस् ते यान्ति निर्मलैः गन्धर्वैर् उपगीयन्ते पुरे वैवस्वतस्य ते
येषां वाप्यश् च कूपाश् च तडागानि सरांसि च दीर्घिकाः पुष्करिण्यश् च शीतलाश् च जलाशयाः
यानैस् ते हेमचन्द्राभैर् दिव्यघण्टानिनादितैः व्यजनैस् तालवृन्तैश् च वीज्यमाना महाप्रभाः
येषां देवकुलान्य् अत्र चित्राण्य् आयतनानि च रत्नैः प्रस्फुरमाणानि मनोज्ञानि शुभानि च
ते यान्ति लोकपालैस् तु विमानैर् वातरंहसैः धर्मराजपुरं दिव्यं नानाजनसमाकुलम्
पानीयं ये प्रयच्छन्ति सर्वप्राण्युपजीवितम् ते वितृष्णाः सुखं यान्ति विमानैस् तं महापथम्
काष्ठपादुकयानानि पीठकान्य् आसनानि च यैर् दत्तानि द्विजातिभ्यस् ते ऽध्वानं यान्ति वै सुखम्
सौवर्णमणिपीठेषु पादौ कृत्वोत्तमेषु च ते प्रयान्ति विमानैस् तु अप्सरोगणमण्डितैः
आरामाणि विचित्राणि पुष्पाढ्यानीह मानवाः रोपयन्ति फलाढ्यानि नराणाम् उपकारिणः
वृक्षच्छायासु रम्यासु शीतलासु स्वलंकृताः वरस्त्रीगीतवाद्यैश् च सेव्यमाना व्रजन्ति ते
सुवर्णं रजतं वापि विद्रुमं मौक्तिकं तथा ये प्रयच्छन्ति ते यान्ति विमानैः कनकोज्ज्वलैः
भूमिदा दीप्यमानाश् च सर्वकामैस् तु तर्पिताः उदितादित्यसंकाशैर् विमानैर् भृशनादितैः
कन्यां तु ये प्रयच्छन्ति ब्रह्मदेयाम् अलंकृताम् दिव्यकन्यावृता यान्ति विमानैस् ते यमालयम्
सुगन्धागुरुकर्पूरान् पुष्पधूपान् द्विजोत्तमाः प्रयच्छन्ति द्विजातिभ्यो भक्त्या परमयान्विताः
ते सुगन्धाः सुवेशाश् च सुप्रभाः सुविभूषिताः यान्ति धर्मपुरं यानैर् विचित्रैर् अभ्यलंकृताः
दीपदा यान्ति यानैश् च दीपयन्तो दिशो दश आदित्यसदृशैर् यानैर् दीप्यमाना यथाग्नयः
गृहावसथदातारो गृहैः काञ्चनमण्डितैः व्रजन्ति बालार्कनिभैर् धर्मराजगृहं नराः
जलभाजनदातारः कुण्डिकाकरकप्रदाः पूजमानाप्सरोभिश् च यान्ति दृप्ता महागजैः
पादाभ्यङ्गं शिरोभ्यङ्गं स्नानपानोदकं तथा ये प्रयच्छन्ति विप्रेभ्यस् ते यान्त्य् अश्वैर् यमालयम्
विश्रामयन्ति ये विप्राञ् श्रान्तान् अध्वनि कर्शितान् चक्रवाकप्रयुक्तेन यान्ति यानेन ते सुखम्
स्वागतेन च यो विप्रं पूजयेद् आसनेन च स गच्छति तम् अध्वानं सुखं परमनिर्वृतः
नमो ब्रह्मण्यदेवेति यो हरिं चाभिवादयेत् गां च पापहरेत्य् उक्त्वा सुखं यान्ति च तत् पथम्
अनन्तराशिनो ये च दम्भानृतविवर्जिताः ते ऽपि सारसयुक्तैस् तु यान्ति यानैश् च तत् पथम्
वर्तन्ते ह्य् एकभक्तेन शाठ्यदम्भविवर्जिताः हंसयुक्तैर् विमानैस् तु सुखं यान्ति यमालयम्
चतुर्थेनैकभक्तेन वर्तन्ते ये जितेन्द्रियाः ते यान्ति धर्मनगरं यानैर् बर्हिणयोजितैः
तृतीये दिवसे ये तु भुञ्जते नियतव्रताः ते ऽपि हस्तिरथैर् दिव्यैर् यान्ति यानैश् च तत् पदम्
षष्ठे ऽन्नभक्षको यस् तु शौचनित्यो जितेन्द्रियः स याति कुञ्जरस्थस् तु शचीपतिर् इव स्वयम्
धर्मराजपुरं दिव्यं नानामणिविभूषितम् नानास्वरसमायुक्तं जयशब्दरवैर् युतम्