दृष्टं केनेति प्रत्यक्षं प्रत्युक्त्यैवं वदन्ति ते दिवा रात्रौ प्रयत्नेन पापं कुर्वन्ति ये नराः
नाचरन्ति हि ते धर्मं प्रमादेनापि मोहिताः इहैव फलभोक्तारः परत्र विमुखाश् च ये
ते पतन्ति सुघोरेषु नरकेषु नराधमाः दारुणो नरके वासः स्वर्गवासः सुखप्रदः नरैः संप्राप्यते तत्र कर्म कृत्वा शुभाशुभम्
अहो ऽतिदुःखं घोरं च यममार्गे त्वयोदितम् नरकाणि च घोराणि द्वारं याम्यं च सत्तम
अस्त्य् उपायो न वा ब्रह्मन् यममार्गे ऽतिभीषणे ब्रूहि येन नरा यान्ति सुखेन यमसादनम्
इह ये धर्मसंयुक्तास् त्व् अहिंसानिरता नराः गुरुशुश्रूषणे युक्ता देवब्राह्मणपूजकाः
यस्मिन् मनुष्यलोकास् ते सभार्याः ससुतास् तथा तम् अध्वानं च गच्छन्ति यथा तत् कथयामि वः
विमानैर् विविधैर् दिव्यैः काञ्चनध्वजशोभितैः धर्मराजपुरं यान्ति सेवमानाप्सरोगणैः
ब्राह्मणेभ्यस् तु दानानि नानारूपाणि भक्तितः ये प्रयच्छन्ति ते यान्ति सुखेनैव महापथे
अन्नं ये तु प्रयच्छन्ति ब्राह्मणेभ्यः सुसंकृतम् श्रोत्रियेभ्यो विशेषेण भक्त्या परमया युताः
तरुणीभिर् वरस्त्रीभिः सेव्यमानाः प्रयत्नतः धर्मराजपुरं यान्ति विमानैर् अभ्यलंकृतैः
ये च सत्यं प्रभाषन्ते बहिर् अन्तश् च निर्मलाः ते ऽपि यान्त्य् अमरप्रख्या विमानैर् यममन्दिरम्
गोदानानि पवित्राणि विष्णुम् उद्दिश्य साधुषु ये प्रयच्छन्ति धर्मज्ञाः कृशेषु कृशवृत्तिषु
ते यान्ति दिव्यवर्णाभैर् विमानैर् मणिचित्रितैः धर्मराजपुरं श्रीमान् सेव्यमानाप्सरोगणैः
उपानद्युगलं छत्त्रं शय्यासनम् अथापि वा ये प्रयच्छन्ति वस्त्राणि तथैवाभरणानि च
ते यान्त्य् अश्वै रथैश् चैव कुञ्जरैश् चाप्य् अलंकृताः धर्मराजपुरं दिव्यं छत्त्रैः सौवर्णराजतैः
ये च भक्त्या प्रयच्छन्ति गुडपानकम् अर्चितम् ओदनं च द्विजाग्र्येभ्यो विशुद्धेनान्तरात्मना
ते यान्ति काञ्चनैर् यानैर् विविधैस् तु यमालयम् वरस्त्रीभिर् यथाकामं सेव्यमानाः पुनः पुनः
ये च क्षीरं प्रयच्छन्ति घृतं दधि गुडं मधु ब्राह्मणेभ्यः प्रयत्नेन शुद्ध्योपेतं सुसंस्कृतम्
चक्रवाकप्रयुक्तैश् च विमानैस् तु हिरण्मयैः यान्ति गन्धर्ववादित्रैः सेव्यमाना यमालयम्
ये फलानि प्रयच्छन्ति पुष्पाणि सुरभीणि च हंसयुक्तैर् विमानैस् तु यान्ति धर्मपुरं नराः
ये तिलांस् तिलधेनुं च घृतधेनुम् अथापि वा श्रोत्रियेभ्यः प्रयच्छन्ति विप्रेभ्यः श्रद्धयान्विताः
सोममण्डलसंकाशैर् यानैस् ते यान्ति निर्मलैः गन्धर्वैर् उपगीयन्ते पुरे वैवस्वतस्य ते
येषां वाप्यश् च कूपाश् च तडागानि सरांसि च दीर्घिकाः पुष्करिण्यश् च शीतलाश् च जलाशयाः
यानैस् ते हेमचन्द्राभैर् दिव्यघण्टानिनादितैः व्यजनैस् तालवृन्तैश् च वीज्यमाना महाप्रभाः
येषां देवकुलान्य् अत्र चित्राण्य् आयतनानि च रत्नैः प्रस्फुरमाणानि मनोज्ञानि शुभानि च
ते यान्ति लोकपालैस् तु विमानैर् वातरंहसैः धर्मराजपुरं दिव्यं नानाजनसमाकुलम्
पानीयं ये प्रयच्छन्ति सर्वप्राण्युपजीवितम् ते वितृष्णाः सुखं यान्ति विमानैस् तं महापथम्
काष्ठपादुकयानानि पीठकान्य् आसनानि च यैर् दत्तानि द्विजातिभ्यस् ते ऽध्वानं यान्ति वै सुखम्
सौवर्णमणिपीठेषु पादौ कृत्वोत्तमेषु च ते प्रयान्ति विमानैस् तु अप्सरोगणमण्डितैः