क्षिप्यते तत्र दुष्टात्मा एकाकी मिष्टभुङ् नरः कुड्मलं नाम नरकं पूर्णं विण्मूत्रशोणितैः
पञ्चयज्ञक्रियाहीनाः क्षिप्यन्ते तत्र वै नराः सुदुर्गन्धं महाभीमं मांसशोणितसंकुलम्
अभक्ष्यान्ने रतास् ते ऽत्र निपतन्ति नराधमाः क्रिमिकीटसमाकीर्णं शवपूर्णं महावटम्
अधोमुखः पतेत् तत्र कन्याविक्रयकृन् नरः नाम्ना वै तिलपाकेति नरकं दारुणं स्मृतम्
तिलवत् तत्र पीड्यन्ते परपीडारताश् च ये नरकं तैलपाकेति ज्वलत्तैलमहीप्लवम्
पच्यते तत्र मित्रघ्नो हन्ता च शरणागतम् नाम्ना वज्रकपाटेति वज्रशृङ्खलयान्वितम्
पीड्यन्ते निर्दयं तत्र यैः कृतः क्षीरविक्रयः निरुच्छ्वास इति प्रोक्तं तमोन्धं वातवर्जितम्
निश्चेष्टं क्षिप्यते तत्र विप्रदाननिरोधकृत् अङ्गारोपचयं नाम दीप्ताङ्गारसमुज्ज्वलम्
दह्यते तत्र येनोक्तं दानं विप्राय नार्पितम् महापायीति नरकं लक्षयोजनम् आयतम्
पात्यन्ते ऽधोमुखास् तत्र ये जल्पन्ति सदानृतम् महाज्वालेति नरकं ज्वालाभास्वरभीषणम्
दह्यते तत्र सुचिरं यः पापे बुद्धिकृन् नरः नरकं क्रकचाख्यातं पीड्यन्ते तत्र वै नराः
क्रकचैर् वज्रधारोग्रैर् अगम्यागमने रताः नरकं गुडपाकेति ज्वलद्गुडह्रदैर् वृतम्
निक्षिप्तो दह्यते तस्मिन् वर्णसंकरकृन् नरः क्षुरधारेति नरकं तीक्ष्णक्षुरसमावृतम्
छिद्यन्ते तत्र कल्पान्तं विप्रभूमिहरा नराः नरकं चाम्बरीषाख्यं प्रलयानलदीपितम्
कल्पकोटिशतं तत्र दह्यते स्वर्णहारकः नाम्ना वज्रकुठारेति नरकं वज्रसंकुलम्
छिद्यन्ते तत्र छेत्तारो द्रुमाणां पापकारिणः नरकं परितापाख्यं प्रलयानलदीपितम्
गरदो मधुहर्ता च पच्यते तत्र पापकृत् नरकं कालसूत्रं च वज्रसूत्रविनिर्मितम्
भ्रमन्तस् तत्र च्छिद्यन्ते परसस्योपलुण्ठकाः नरकं कश्मलं नाम श्लेष्मशिङ्घाणकावृतम्
तत्र संक्षिप्यते कल्पं सदा मांसरुचिर् नरः नरकं चोग्रगन्धेति लालामूत्रपुरीषवत्
क्षिप्यन्ते तत्र नरके पितृपिण्डाप्रयच्छकाः नरकं दुर्धरं नाम जलौकावृश्चिकाकुलम्
उत्कोचभक्षकस् तत्र तिष्ठते वर्षकायुतम् यच् च वज्रमहापीडा नरकं वज्रनिर्मितम्
तत्र प्रक्षिप्य दह्यन्ते पीड्यन्ते यमकिंकरैः धनं धान्यं हिरण्यं वा परकीयं हरन्ति ये
यमदूतैश् च चौरास् ते छिद्यन्ते लवशः क्षुरैः ये हत्वा प्राणिनं मूढाः खादन्ते काकगृध्रवत्
भोज्यन्ते च स्वमांसं ते कल्पान्तं यमकिंकरैः आसनं शयनं वस्त्रं परकीयं हरन्ति ये
यमदूतैश् च ते मूढा भिद्यन्ते शक्तितोमरैः फलं पत्त्रं नृणां वापि हृतं यैस् तु कुबुद्धिभिः
यमदूतैश् च ते क्रुद्धैर् दह्यन्ते तृणवह्निभिः परद्रव्ये कलत्रे च यः सदा दुष्टधीर् नरः
यमदूतैर् ज्वलत् तस्य हृदि शूलं निखन्यते कर्मणा मनसा वाचा ये धर्मविमुखा नराः
यमलोके तु ते घोरा लभन्ते परियातनाः एवं शतसहस्राणि लक्षकोटिशतानि च
नरकाणि नरैस् तत्र भुज्यन्ते पापकारिभिः इह कृत्वा स्वल्पम् अपि नरः कर्माशुभात्मकम्
प्राप्नोति नरके घोरे यमलोकेषु यातनाम् न शृण्वन्ति नरा मूढा धर्मोक्तं साधु भाषितम्