नरकं योजनानां च सहस्राणि चतुर्दश पुरं क्षेत्रं गृहं ग्रामं यो दीपयति वह्निना
स तत्र दह्यते मूढो यावत् कल्पस्थितिर् नरः तामिस्रम् इति विख्यातं लक्षयोजनविस्तृतम्
निपतद्भिः सदा रौद्रः खड्गपट्टिशमुद्गरैः तत्र चौरा नराः क्षिप्तास् ताड्यन्ते यमकिंकरैः
शूलशक्तिगदाखड्गैर् यावत् कल्पशतत्रयम् तामिस्राद् द्विगुणं प्रोक्तं महातामिस्रसंज्ञितम्
जलौकासर्पसंपूर्णां निरालोकं सुदुःखदम् मातृहा पितृहा चैव मित्रविस्रम्भघातकः
तिष्ठन्ति तक्ष्यमाणाश् च यावत् तिष्ठति मेदिनी असिपत्त्रवनं नाम नरकं भूरिदुःखदम्
योजनायुतविस्तारं ज्वलत्खड्गैः समाकुलम् पातितस् तत्र तैः खड्गैः शतधा तु समाहतः
मित्रघ्नः कृत्यते तावद् यावद् आभूतसंप्लवम् करम्भवालुका नाम नरकं योजनायुतम्
कूपाकारं वृतं दीप्तैर् वालुकाङ्गारकण्टकैः दह्यते भिद्यते वर्षलक्षायुतशतत्रयम्
येन दग्धो जनो नित्यं मिथ्योपायैः सुदारुणैः काकोलं नाम नरकं कृमिपूयपरिप्लुतम्
क्षिप्यते तत्र दुष्टात्मा एकाकी मिष्टभुङ् नरः कुड्मलं नाम नरकं पूर्णं विण्मूत्रशोणितैः
पञ्चयज्ञक्रियाहीनाः क्षिप्यन्ते तत्र वै नराः सुदुर्गन्धं महाभीमं मांसशोणितसंकुलम्
अभक्ष्यान्ने रतास् ते ऽत्र निपतन्ति नराधमाः क्रिमिकीटसमाकीर्णं शवपूर्णं महावटम्
अधोमुखः पतेत् तत्र कन्याविक्रयकृन् नरः नाम्ना वै तिलपाकेति नरकं दारुणं स्मृतम्
तिलवत् तत्र पीड्यन्ते परपीडारताश् च ये नरकं तैलपाकेति ज्वलत्तैलमहीप्लवम्
पच्यते तत्र मित्रघ्नो हन्ता च शरणागतम् नाम्ना वज्रकपाटेति वज्रशृङ्खलयान्वितम्
पीड्यन्ते निर्दयं तत्र यैः कृतः क्षीरविक्रयः निरुच्छ्वास इति प्रोक्तं तमोन्धं वातवर्जितम्
निश्चेष्टं क्षिप्यते तत्र विप्रदाननिरोधकृत् अङ्गारोपचयं नाम दीप्ताङ्गारसमुज्ज्वलम्
दह्यते तत्र येनोक्तं दानं विप्राय नार्पितम् महापायीति नरकं लक्षयोजनम् आयतम्
पात्यन्ते ऽधोमुखास् तत्र ये जल्पन्ति सदानृतम् महाज्वालेति नरकं ज्वालाभास्वरभीषणम्
दह्यते तत्र सुचिरं यः पापे बुद्धिकृन् नरः नरकं क्रकचाख्यातं पीड्यन्ते तत्र वै नराः
क्रकचैर् वज्रधारोग्रैर् अगम्यागमने रताः नरकं गुडपाकेति ज्वलद्गुडह्रदैर् वृतम्
निक्षिप्तो दह्यते तस्मिन् वर्णसंकरकृन् नरः क्षुरधारेति नरकं तीक्ष्णक्षुरसमावृतम्
छिद्यन्ते तत्र कल्पान्तं विप्रभूमिहरा नराः नरकं चाम्बरीषाख्यं प्रलयानलदीपितम्
कल्पकोटिशतं तत्र दह्यते स्वर्णहारकः नाम्ना वज्रकुठारेति नरकं वज्रसंकुलम्
छिद्यन्ते तत्र छेत्तारो द्रुमाणां पापकारिणः नरकं परितापाख्यं प्रलयानलदीपितम्
गरदो मधुहर्ता च पच्यते तत्र पापकृत् नरकं कालसूत्रं च वज्रसूत्रविनिर्मितम्
भ्रमन्तस् तत्र च्छिद्यन्ते परसस्योपलुण्ठकाः नरकं कश्मलं नाम श्लेष्मशिङ्घाणकावृतम्
तत्र संक्षिप्यते कल्पं सदा मांसरुचिर् नरः नरकं चोग्रगन्धेति लालामूत्रपुरीषवत्
क्षिप्यन्ते तत्र नरके पितृपिण्डाप्रयच्छकाः नरकं दुर्धरं नाम जलौकावृश्चिकाकुलम्