ततस् तु रक्तं स्रोतोभिः स्रवते जर्जरीकृतः निःसंज्ञः स तदा देही निश्चेष्टश् च प्रजायते
ततः स वायुना स्पृष्टः शनैर् उज्जीवते पुनः ततः पापविशुद्ध्यर्थं क्षिपन्ति नरकार्णवे
अन्यांश् च ते तदा दूताः पापकर्मरतान् नरान् निवेदयन्ति विप्रेन्द्रा यमाय भृशदुःखितान्
एष देव तवादेशाद् अस्माभिर् मोहितो भृशम् आनीतो धर्मविमुखः सदा पापरतः परः
एष लुब्धो दुराचारो महापातकसंयुतः उपपातककर्ता च सदा हिंसारतो शुचिः
अगम्यागामी दुष्टात्मा परद्रव्यापहारकः कन्याक्रयी कूटसाक्षी कृतघ्नो मित्रवञ्चकः
अनेन मदमत्तेन सदा धर्मो विनिन्दितः पापम् आचरितं कर्म मर्त्यलोके दुरात्मना
इदानीम् अस्य देवेश निग्रहानुग्रहौ वद प्रभुर् अस्य क्रियायोगे वयं वा परिपन्थिनः
इति विज्ञाप्य देवेशं न्यस्याग्रे पापकारिणम् नरकाणां सहस्रेषु लक्षकोटिशतेषु च
किंकरास् ते ततो यान्ति ग्रहीतुम् अपरान् नरान् प्रतिपन्ने कृते दोषे यमो वै पापकारिणाम्
समादिशति तान् घोरान् निग्रहाय स्वकिंकरान् यथा यस्य विनिर्दिष्टो वसिष्ठाद्यैर् विनिग्रहः
पापस्य तद् भृशं क्रुद्धाः कुर्वन्ति यमकिंकराः अङ्कुशैर् मुद्गरैर् दण्डैः क्रकचैः शक्तितोमरैः
खड्गशूलनिपातैश् च भिद्यन्ते पापकारिणः नरकाणां सहस्रेषु लक्षकोटिशतेषु च
स्वकर्मोपार्जितैर् दोषैः पीड्यन्ते यमकिंकरैः शृणुध्वं नरकाणां च स्वरूपं च भयंकरम्
नामानि च प्रमाणं च येन यान्ति नराश् च तान् महावाचीति विख्यातं नरकं शोणितप्लुतम्
वज्रकण्टकसंमिश्रं योजनायुतविस्तृतम् तत्र संपीड्यते मग्नो भिद्यते वज्रकण्टके
वर्षलक्षं महाघोरं गोघाती नरके नरः योजनानां शतं लक्षं कुम्भीपाकं सुदारुणम्
ताम्रकुम्भवती दीप्ता वालुकाङ्गारसंवृता ब्रह्महा भूमिहर्ता च निक्षेपस्यापहारकः
दह्यन्ते तत्र संक्षिप्ता यावद् आभूतसंप्लवम् रौरवो वज्रनाराचैः प्रज्वलद्भिः समावृतः
योजनानां सहस्राणि षष्टिर् आयामविस्तरैः भिद्यन्ते तत्र नाराचैः सज्वालैर् नरके नराः
इक्षुवत् तत्र पीड्यन्ते ये नराः कूटसाक्षिणः अयोमयं प्रज्वलितं मञ्जूषं नरकं स्मृतम्
निक्षिप्तास् तत्र दह्यन्ते बन्दिग्राहकृताश् च ये अप्रतिष्ठेति नरकं पूयमूत्रपुरीषकम्
अधोमुखः पतेत् तत्र ब्राह्मणस्योपपीडकः लाक्षाप्रज्वलितं घोरं नरकं तु विलेपकम्
निमग्नास् तत्र दह्यन्ते मद्यपाने द्विजोत्तमाः महाप्रभेति नरकं दीप्तशूलमहोच्छ्रयम्
तत्र शूलेन भिद्यन्ते पतिभार्योपभेदिनः नरकं च महाघोरं जयन्ती चायसी शिला
तया चाक्रम्यते पापः परदारोपसेवकः नरकं शाल्मलाख्यं तु प्रदीप्तदृढकण्टकम्
तया लिङ्गति दुःखार्ता नारी बहुनरंगमा ये वदन्ति सदासत्यं परमर्मावकर्तनम्
जिह्वा चोच्छ्रियते तेषां सदस्यैर् यमकिंकरैः ये तु रागैः कटाक्षैश् च वीक्षन्ते परयोषितम्
तेषां चक्षूंषि नाराचैर् विध्यन्ते यमकिंकरैः
मातरं ये ऽपि गच्छन्ति भगिनीं दुहितरं स्नुषाम् स्त्रीबालवृद्धहन्तारो यावद् इन्द्राश् चतुर्दश ज्वालामालाकुलं रौद्रं महारौरवसंज्ञितम्